06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam
ध्वनिमुद्रणम्--
2019 वर्गः
१) prAtipadikatvam_2019-11-19
२) अर्थवदधातुरप्रत्ययः-प्रातिपदिकम्-iti sUtre-niShedhaH_+_paryudAsa-prasajya-pratiShedhau_2019-11-26
2014 वर्गः
१) prAtipadikatvam_2014-10-01
प्रातिपदिकं नाम किम् अपि च केन प्रातिपदिकत्वं सिध्यति इति विषये चिन्तनं भवतु | संस्कृतभाषायां पदं द्विविधम्— सुबन्तं तिङन्तञ्च | यस्य पदस्य अन्ते सुप्-प्रत्ययः अस्ति, तत् सुबन्तम्; यस्य पदस्य अन्ते तिङ्-प्रत्ययः अस्ति, तत् तिङन्तम् |
सुप्तिङन्तं पदम् (१.४.१४) = सुबन्तानां तिङन्तानां च पदसंज्ञा भवति |
तर्हि यस्य पदस्य अन्ते सुप्-प्रत्ययः अस्ति, तत् सुबन्तम्; यस्य पदस्य अन्ते तिङ्-प्रप्रत्ययः अस्ति, तत् तिङन्तम् | एकविंशतिः सुप्-प्रत्ययाः सन्ति; अष्टादश तिङ्-प्रत्ययाः सन्ति |
तिङन्तपदम्
धातुभ्यः तिङ्-प्रत्ययानां योजनेन तिङन्तपदम्— नाम क्रियापदम्— निष्पन्नम् |
लाधिकार-प्रसङ्गे धातुतः लस्य (ल् इत्यस्य) स्थाने अष्टादश तिङ्-प्रत्ययाः विहिताः |
लस्य (३.४.७७) = अधिकारसूत्रम् इदम् | षष्ठ्यन्तम् | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम् अस्य अधिकारः | प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल् इत्यस्य) स्थाने विहितः |
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ् प्रत्ययाः भवन्ति | लस्य इत्यनेन ल् इत्यस्य स्थाने एते अष्टादश विहिताः | तिप् तस् झि, सिप् थस् थ, मिप् वस् मस्, त आताम् झ, थास् आथाम् ध्वम्, इड् वहि महिङ् इति अष्टादश तिङ् प्रत्ययाः | तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तम्, आहत्य तिङ्-प्रत्ययाः इत्युच्यते |
तर्हि क्रियापदस्य निर्माणार्थं धातुतः तिङ्-प्रत्ययाः विहिताः |
सुबन्तपदम्
नामपदस्य निर्माणार्थं का गतिः ? तत्र प्रातिपदिकात् सुप्-प्रत्ययाः विहिताः | अत्र मूलविचारः एवं यत् तदा सुप्-प्रत्ययाः आगन्तुं योग्याः यदा पूर्वं स्थितस्य भागस्य प्रातिपदिकसंज्ञा भवति | प्रातिपदिकसंज्ञा नास्ति चेत् सुप्-प्रत्ययाः न विहिताः | अतः सुबन्तपदस्य निर्माणार्थं प्रातिपदिकम् अत्यावश्यकम् | सारांशः एवं यत् प्रातिपदिकं तद् अस्ति यस्मात् सुप्-प्रत्ययाः विहिताः |
सुप्-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२) =स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्
सु | औ | जस् | |
---|---|---|---|