८. एतस्य/एतस्याः – तस्य/तस्याः नाम?
अधोलिखितानि पदानि ध्यानेन पठतु
==== दकारान्तः एतद् शब्दः ==== | ||
---|---|---|
पुंलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एषः | एते |
षष्ठी | एतस्य | एतेषाम् |
स्त्रीलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एषा | एताः |
षष्ठी | एतस्याः | एतासाम् |
नपुंसकलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | एतत् / एतद् | एतानि |
षष्ठी | एतस्य | एतेषाम् |
==== दकारान्तः तद् शब्दः ==== | ||
---|---|---|
पुंलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | सः | ते |
षष्ठी | तस्य | तेषाम् |
स्त्रीलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | सा | ताः |
षष्ठी | तस्याः | तासाम् |
नपुंसकलिङ्गे | ||
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | तत् / तद् | तानि |
षष्ठी | तस्य | तेषाम् |
दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः | ||
---|---|---|
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | अहम् | वयम् |
षष्ठी | मम / मे | अस्माकम् / नः |
दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः | ||
---|---|---|
विभक्तिः | एकवचनम् | बहुवचनम् |
प्रथमा | त्वम् | यूयम् |
षष्ठी | तव / ते | युष्माकम् / वः |
एतस्य / एतस्याः – तस्य / तस्याः नाम? (त्रिषुलिङ्गेषु)
अधोलिखितानि पदानि ध्यानेन पठतु
प्रथमा एकवचनम् | षष्ठी एकवचनम् | प्रथमा बहुवचनम् | षष्ठी बहुवचनम् | ||
एतद् | पुंलिङ्गे | एषः | एतस्य | एते | एतेषाम् |
स्त्रीलिङ्गे | एषा | एतस्याः | एताः | एतासाम् | |
नपुं -लिङ्गे | एतत्/एतद् | एतस्य | एतानि | एतेषाम् | |
तद् | पुंलिङ्गे | सः | तस्य | ते | तेषाम् |
स्त्रीलिङ्गे | सा | तस्याः | ताः | तासाम् | |
नपुं -लिङ्गे | तत्/तद् | तस्य | तानि | तेषाम् | |
अस्मद् | त्रिषुलिङ्गेषु | अहम् | मम /मे | वयम् | अस्माकम् / नः |
युष्मद् | त्रिषुलिङ्गेषु | त्वम् | तव /ते | यूयम् | युष्माकम् / वः |
उदाहरणानि पठतु
एतद् शब्दः | ||
पुंलिङ्गे | एषः बालकः ।
एतस्य नाम मोहनः। | |
स्त्रीलिङ्गे | एषा बालिका।
एतस्याः नाम राधा। | |
नपुंसकलिङ्गे | एतत् पुष्पम्।
एतस्य नाम कमलम्। | |
तद् शब्दः | ||
पुंलिङ्गे | सः अध्यापकः ।
तस्य नाम गिरिधरमहोदयः। | |
स्त्रीलिङ्गे | सा अध्यापिका।
तस्याः नाम रोहिणी। | |
नपुंसकलिङ्गे | तत् फलम् ।
तस्य नाम आम्रफलम्। | |
युष्मद् शब्दः (त्रिषुलिङ्गेषु) | ||
त्वं विदूषकः।
तव नाम राघवः। | ||
त्वं नर्तकी।
तव नाम शाम्भवी। | ||
त्वं पुस्तकम्।
तव नाम रामायणम्। | ||
अस्मद् शब्दः त्रिषुलिङ्गेषु | ||
अहम् अर्चकः।
मम नाम विजयेन्द्रः। | ||
अहं देवी ।
मम नाम सरस्वती। | ||
अहं पुष्पम्।
मम नाम चम्पकम्। |
अभ्यासः
उदाहरणानुगुणं रिक्तस्थानानि पूरयतु
१. एषः बालकः । एतस्य नाम मोहनः ।
२. एषः गायकः । .............. नाम कुमारगन्धर्वः ।
३. एषा बालिका । एतस्याः नाम मोहिनी ।
४. एषा गायिका ।............. नाम लता ।
५. एतत् नगरम् । एतस्य नाम हरिद्वारम् ।
६. एतत् भवनम् ।.............. नाम संस्कृतधाम ।
७. सः घनश्यामः । तस्य जनकः वसुदेवः ।
८. सः श्यामः ।............. अग्रजः बलरामः ।
९. सः शिक्षकः ।............. पुस्तकम् एतत् ।
१०. सः तन्त्रज्ञः।............. कार्यालयः अत्र अस्ति।
११. सः रविः ।............. युतकं सुन्दरम् अस्ति ।
१२. सः सिंहः ।............. गर्जनं भयानकम् ।
१३. सा युवती । तस्याः नाम गौरी ।
१४. सा गीता ।.............. शाटिका सुन्दरी।
१५. सा नदी ।.............. वेगः अधिकः ।
१६. सा लता ।.............. पत्राणि कोमलानि ।
१७. सा बुद्धिमती ।.............. साहाय्यं स्वीकरोतु ।
१८. सा माता ।.............. सहनशक्तिः अधिका ।
एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT
एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT with audio
एतस्य/एतस्याः – तस्य/तस्याः नाम? PPT without audio
उत्तराणि / Answers (Link to page 49)
PAGE 8