Introductory-Sanskrit-lessons-2023/परिचयः


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paricayaH


Home

(1A) परिचयः

चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )

पुल्लिङ्गः (Masculine)
 
 
 
 
स्त्रीलिङ्गः (feminine)
 
 
 

विशेषः –

* भवतः - पुल्लिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |

एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?

रमेशः – मम नाम रमेशः |

आचार्यः – भवत्याः नाम किम् ?

लता – मम नाम लता |

आचार्यः – मम नाम किम् ?

छात्राः – भवतः नाम अरुणः |

आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकम् , चित्रम् , मित्रम् , वृक्षः, हस्तः, लेखनी |

छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |

आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |

छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |

आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |

छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |

(1B) परिचयः

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  

यथा – रामः – भवतः नाम किम् ? रावणः – मम नाम रावणः |

सीता – भवत्याः नाम किम् ?  शूर्पणखा  – ममा – मम नाम शूर्पणका

  1. विनोदः - _____ _ _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  -  एकलव्यः ____ ____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - ____   _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - ___  ________ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - ___ __ _____ |

२. नामानुगुणं प्रश्नम् पृच्छन्तु |

यथा - १. नारायणः – भवतः नाम किम् ?

  1. श्रीशः - ____________________________ ?
  2. ललिता - ___________________________ ?
  3. नलिनी - ____________________________ ?
  4. दिवाकरः - ___________________________ ?
  5. पद्मा - ______________________________ ?
  6. तपनः - _____________________________ ?

३. भवतः , भवत्याः , मम , नाम , किम्  

१. मम नाम रामः | _______________ नाम किम् ?

२. ___________________ नाम दिनेशः |

३. ________________ नाम _________ ?

४. मम _______________ रुक्मिणी |  

५. _________________ नाम किम् ?

६. ___________________ नाम अरुणः |


४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सुचितानाम् शब्दानां उपयोगम् कृत्वा वाक्यानि रचयन्तु |

ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  2. __________ |____________ | ____________ |
  3. __________ | ____________| ____________ |
  4. __________ | _ __________ |_____ _______ |
  5. __________ | ___________ | ____ ________ |
  6. __________ | ___________ | _____________ |
  7. __________ | ___________ | _____________ |
  8. __________ | ___________ | _____________ |
  9. __________ | ___________ | _____________ |
  10. __________ | ___________ | _____________ |


Lesson 1A PDF

Lesson 1B PDF