6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH
6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH
[WORK IN PROGRESS]
ध्वनिमुद्रणानि--
2018-वर्गः
१) dhAtu-pAThe-hal-sandhi-samagra-cintanam-1_sakAre-pare_2018-08-29
२) dhAtu-pAThe-hal-sandhi-samagra-cintanam-2_takAre-thakAre-ca-pare_2018-09-05
३) dhAtu-pAThe-hal-sandhi-samagra-cintanam-3_sa-ta-tha-cintanam_+_dhakAre-pare_2018-09-12
४) dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्-लटि_2018-09-19
2015-वर्गः
१) dhAtu-pAThe hal-sandhi-saMgrahaH-1__2015-07-01
२) dhAtu-pAThe_hal-sandhi-saMgrahaH-1_sakArAdi-pare_2015-07-08
३) dhAtu-pAThe_hal-sandhi-saMgrahaH-2_takArAdi-pare_thakArAdi-pare-ca_2015-07-15
४) dhAtu-pAThe_hal-sandhi-saMgrahaH-3_dhakArAdi-pare_2015-07-22
हलन्तधातुभ्यः प्रमुखतः स्, त्, थ्, ध् इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि भवन्ति | अधः एषां सन्धीनां सङ्ग्रहः |
सकारादौ प्रत्यये परे सन्धिकार्याणि
पूर्ववर्णः | आदेशः | कार्यम् | सूत्रम् | उदाहरणम् |
क् + स् | क् + ष् | सकारस्य षत्वम् | आदेशप्रत्यययोः | शक् + स्यति → शक्ष्यति |
ख् + स् | क् + ष् | खकारस्य चर्त्वेन कः | खरि च | लेलेख् + सि → लेलेक् + सि |
सकारस्य षत्वम् | आदेशप्रत्यययोः | → लेलेक्षि | ||
ग् + स् | क् + ष् | गकारस्य चर्त्वेन कः | खरि च | तात्वङ्ग् + सि → तात्वङ्क् + सि |
सकारस्य षत्वम् | आदेशप्रत्यययोः | → तात्वङ्क्षि | ||
घ् + स् | क् + ष् | घकारस्य चर्त्वेन कः | खरि च | जाघघ् + सि → जाघक् + सि |
सकारस्य षत्वम् | आदेशप्रत्यययोः | → जाघक्षि | ||
च् + स् | क् + ष् | चकारस्य कुत्वेन कः | चोः कुः | पच् + स्यति → पक् + स्यति |
सकारस्य षत्वम् | आदेशप्रत्यययोः | → पक्ष्यति | ||
छ् + स् | क् + ष् | छकारस्य शत्वं, व्रश्चादिना च षत्वम् | च्छ्वोः शूडनुनासिके | प्रच्छ् + स्यति → प्रश् + स्यति |
तस्य ककारादेशः | व्रश्चभ्रस्जसृज... | → प्रष् + स्यति | ||
सकारस्य षत्वम् | षढोः कः सि | → प्रक् + स्यति | ||
आदेशप्रत्यययोः | → प्रक्ष्यति | |||
ज् + स् | क् + ष् | जकारस्य कुत्वेन गः | चोः कुः | त्यज् + स्यति → त्यग् + स्यति |
तस्य चर्त्वेन कः | खरि च | → स्यक् + स्यति | ||
सकारस्य षत्वम् | आदेशप्रत्यययोः | → त्यक्ष्यति | ||
झ् + स् | क् + ष् | झकारस्य कुत्वेन गः | चोः कुः | जझर्झ् + सि → जाझर्घ् + सि |
तस्य चर्त्वेन कः | खरि च | → जाझर्क् + सि | ||
सकारस्य षत्वम् | आदेशप्रत्यययोः | → जाझर्क्षि | ||
ट् + स् | ट् + स् | टकारस्य चर्त्वे टकार एव भवति | ष्टुना ष्टुः | नानट् + सि → नानट्षि |
ठ् + स् | ट् + स् | ठकारस्य चर्त्वेन टकारः | ष्टुना ष्टुः | लोलुण्ठ् + सि → लोलुण्ठ् + षि |
खरि च | → लोलुण्ट्षि | |||
ड् + स् | ट् + स् | डकारस्य चर्त्वेन टकारः | ष्टुना ष्टुः | जागण्ड् + सि → जागण्ड् + षि |
खरि च | → जागण्ट्षि | |||
ढ् + स् | क् + स् | ढकारस्य ककारादेशः | षढोः कः सि | लेढ् + सि → लेक् + सि |
सकारस्य षत्वम् | आदेशप्रत्यययोः | → लेक्षि | ||
त् + स् | त् + स् | तकारस्य चर्त्वे तकार एव भवति | खरि च | चाचत् + सि → चाचत्सि |
थ् + स् | त् + स् | थकारस्य चर्त्वेन तकारः | खरि च | सामन्थ् + सि → सामन्त्सि |
द् + स् | त् + स् | दकारस्य चर्त्वेन तकारः | खरि च | अद् + सि → अत्सि |
ध् + स् | त् + स् | धकारस्य चर्त्वेन तकारः | खरि च | क्रोध् + स्यति → क्रोत्स्यति |
न् + स् | ं + स् | नकारस्य अनुस्वारादेशः | नश्चापदान्तस्य | मन् + स्यते → मंस्यते |
झलि | ||||
प् + स् | प् + स् | पकारस्य चर्त्वे पकार एव भवति | खरि च | तप् + स्यति → तप्स्यति |
फ् + स् | प् + स् | फकारस्य चर्त्वेन पकारः | खरि च | जोगुम्फ् + सि → जोगुम्प्सि |
ब् + स् | प् + स् | बकारस्य चर्त्वेन पकारः | खरि च | लालम्ब् + सि → लालम्प्सि |
भ् + स् | प् + स् | भकारस्य चर्त्वेन पकारः | खरि च | लभ् + स्यते → लप्स्यते |
य् + स् | स् | यकारस्य लोपः | लोपो व्योर्वलि | जाहय् + सि → जाहसि |
र् + स् | र् + ष् | रेफस्य किमपि कार्यं न, सकारस्य षत्वम् | आदेशप्रत्यययोः | जागर् + सि → जागर्षि |
ल् + स् | ल् + ष् | लकारस्य किमपि कार्यं न, सकारस्य षत्वम् | आदेशप्रत्यययोः | पम्फुल् + सि → पम्फुल्षि* |
व् + स् | स् | वकारस्य लोपः | लोपो व्योर्वलि | अवसरः नास्ति |
श् + स् | क् + ष् | शकारस्य व्रश्चादिना षः, तस्य ककारादेशः, सकारस्य षत्वम् | व्रश्चभ्रस्जसृज... | क्रोश् + स्यति → क्रोष् + स्यति |
षढोः कः सि | → क्रोक् + स्यति | |||
आदेशप्रत्यययोः | → क्रोक्ष्यति | |||
ष् + स् | क् + ष् | षकारस्य ककारादेशः, सकारस्य षत्वम् | षढोः कः सि | चरीकर्ष + सि → सरीकर्क् + सि |
आदेशप्रत्यययोः | → चरीकर्क्षि | |||
स् + स् | स् + स् | १. सार्वधातुके सकारे परे न किमपि | सः स्यार्धधातुके | चकास् + सि → चकास्सि |
त् + स् | २. आर्धधातुके सकारे परे पूर्वसकारस्य तकारादेशः | वस् + स्यति → वत्स्यति |
पूर्ववर्णः | आदेशः | कार्यम् | सूत्रम् | उदाहरणम् |
ह् + स् | क् + ष् | १. हकारस्य ढकारः, तस्य ककारादेशः, सकारस्य षत्वम् | हो ढः | लिह् → लेह् + सि → लेढ् + सि |
षढोः कः सि | → लेक् + सि | |||
आदेशप्रत्यययोः | → लेक्षि | |||
क् + ष् | २. यदि धातुः दकारादि | दादेर्धातोर्घः | दुह् → दोह् + स्यति → दोघ् + स्यति | |
तर्हि हकारस्य घकारः | एकाचो बशो... | → धोघ् + स्यति | ||
दकारस्य भष्भावः, घकारस्य | खरि च | → धोक् + स्यति | ||
चर्त्वेन ककारः, सकारस्य | आदेशप्रत्यययोः | → धोक्ष्यति | ||
षत्वम् | ||||
क् + ष् | ३. द्रुह्, मुह्, स्नुह्, स्निह् | वा द्रुहमुहष्णुहष्णिहाम् | मुह् → मोह् + स्यति → मोघ् + स्यति | |
एषां धातूनां हकारस्य विकल्पेन घकारः, तस्य चर्त्वेन ककारः, सकारस्य षत्वम् | खरि च | → मोक् + स्यति | ||
आदेशप्रत्यययोः | → मोक्ष्यति | |||
पक्षे ढकारः, तस्य ककारादेशः, सकारस्य षत्वम् | ||||
हो ढः | ||||
मोह् + स्यति → मोढ् + स्यति | ||||
षढोः कः सि | ||||
→ मोक् + स्यति | ||||
आदेशप्रत्यययोः | ||||
→ मोक्ष्यति | ||||
क् + ष् | ४. नह्-धातोः हकारस्य धकारादेशः, तस्य चर्त्वेन तकारः | नहो धः | नह् + स्यति → नध् + स्यति | |
खरि च | → नत्स्यति |
पूर्ववर्णाः | आदेशः |
क्, ख्, ग्, घ्, च्, छ्, ज्, झ्, ढ्, श्, ष्, ह् | क् |
ट्, ठ्, ड् | ट् |
त्, थ्, द्, ध् | त् |
प्, फ्, ब्, भ् | प् |
म्, न् | अनुस्वारः |
य्, व् | लोपः |
र्, ल् | न किमपि |
स् | सार्वधातुके सकारे न किमपि, |
आर्धधातुके परे तकारः |
पूर्ववर्णः | आदेशः | कार्यम् | सूत्रम् | उदाहरणम् |
क् + त्/थ् | क् + त्/थ् | ककारस्य चर्त्वे ककार एव भवति | खरि च | शक् + ता → शक्ता |
ख् + त्/थ् | क् + त्/थ् | खकारस्य चर्त्वेन ककारः | खरि च | लेलेख् + ति → लेलेक् + ति |
→ लेलेक्ति | ||||
ग् + त्/थ् | क् + त्/थ् | गकारस्य चर्त्वेन ककारः | खरि च | तात्वङ्ग् + ति → तात्वङ्क् + ति |
→ तात्वङ्क्ति | ||||
घ् + त्/थ् | ग् + ध् | तथयोः धकारादेशः, घकारस्यपूर्ववर्णः | झषस्तथोर्धोऽधः | जाघघ् + ति → जाघघ् + धि |
जश्त्वेन गकारः | झलां जश् झशि | → जाघग्धि | ||
च् + त्/थ् | ष् + ट्/ठ् | १) व्रश्च्-धातोः षत्वम्, | व्रश्चभ्रस्ज... | व्रश्च् + ता → व्रष् + ता |
तथयोः ष्टुत्वम् | ष्टुना ष्टुः | → व्रष्टा | ||
क् + त्/थ् | २) अन्येषां चकारान्तानां कुत्वेन ककारः | चोः कुः | पच् + ता → पक्ता | |
छ् + त्/थ् | ष् + ट्/ठ् | १) तुक्-सहित-छकारास्य शत्वं, तदा षत्वम्; तथयोः ष्टुत्वम् | १) च्छ्वोः शूडनुनासिके | प्रच्छ् + ता → प्रष् + ता |
२) तुक्-रहित-छकारास्य कुत्वं, खकारस्य चर्त्वेन ककारः | व्रश्चभ्रस्ज... | → प्रष्टा | ||
क् + त्/थ् | ||||
ष्टुना ष्टुः | वावाञ्छ् + ति → वावांख् + ति | |||
२) चोः कुः | → वावांक् + ति | |||
खरि च | → वावाङ्क्ति | |||
ज् + त्/थ् | ष् + ट्/ठ् | १) व्रश्चादिगणे पठितानां षत्वम्, | व्रश्चभ्रस्ज... | यज् + ता → यष् + ता |
तथयोः ष्टुत्वम् | ष्टुना ष्टुः | → यष्टा | ||
क् + त्/थ् | २) अन्येषां धातूनां जकारस्य | चोः कुः | त्यज् + ता → त्यग् + ता | |
कुत्वेन गः, तस्य चर्त्वेन ककारः | खरि च | → त्यक्ता | ||
झ् + त्/थ् | ग् + ध् | तथयोः धकारादेशः, | झषस्तथोर्धोऽधः | जाझर्झ् + ति → जाझर्झ् + धि |
झकारस्य कुत्वेन घकारः, | चोः कुः | → जाझर्घ् + धि | ||
तस्य जश्त्वेन गकारः | झलां जश् झशि | → जाझर्ग्धि | ||
ट् + त्/थ् | ट् + ट्/ठ् | तथयोः ष्टुत्वम् | ष्टुना ष्टुः | नानट् + ति → नानट्टि |
ठ् + त्/थ् | ट् + ट्/ठ् | तथयोः ष्टुत्वम्, | ष्टुना ष्टुः | लोलुण्ठ् + ति → लोलुण्ठ् + टिपूर्ववर्णः |
ठकारस्य चर्त्वेन ट्कारः | खरि च | → लोलुण्ट्टि | ||
ड् + त्/थ् | ट् + ट्/ठ् | तथयोः ष्टुत्वम्, | ष्टुना ष्टुः | जागण्ड् + ति → जागण्ड् + टि |
डकारस्य चर्त्वेन ट्कारः | खरि च | → जागण्ट्टि | ||
ढ् + त्/थ् | ढ् | तथयोः धकारादेशः, | झषस्तथोर्धोऽधः | लेढ् + ता → लेढ् + धा |
धकारस्य ष्टुत्वेन ढकारः, | ष्टुना ष्टुः | → लेढ् + ढा | ||
पूर्वढकारस्य लोपः | ढो ढे लोपः | → ले + ढा | ||
→ लेढा |
पूर्ववर्णः | आदेशः | कार्यम् | सूत्रम् | उदाहरणम् |
त् + त्/थ् | त् + त्/थ् | तकारस्य चर्त्वेन तकार एव | खरि च | चाचत् + ति → चाचत्ति |
थ् + त्/थ् | त् + त्/थ् | थकारस्य चर्त्वेन तकारः | खरि च | मामन्थ् + ति → मामन्त्तिपूर्ववर्णः |
द् + त्/थ् | त् + त्/थ् | दकारस्य चर्त्वेन तकारः | खरि च | अद् + ति → अत्ति |
ध् + त्/थ् | द् + ध् | तथयोः धकारादेशः, | झषस्तथोर्धोऽधः | क्रोध् + ता → क्रोध् + धा |
पूर्वधकारस्य जश्त्वेन दकारः | झलां जश् झशि | → क्रोद्धा | ||
प् + त्/थ् | प् + त्/थ् | पकारस्य चर्त्वेन पकार एव | खरि च | तप् + ता → तप्ता |
फ् + त्/थ् | प् + त्/थ् | फकारस्य चर्त्वेन पकारः | खरि च | जोगुम्फ् + ति → जोगुम्प्ति |
ब् + त्/थ् | प् + त्/थ् | बकारस्य चर्त्वेन पकारः | खरि च | लालम्ब् + ति → लालम्प्ति |
भ् + त्/थ् | ब् + ध् | तथयोः धकारादेशः, | झषस्तथोर्धोऽधः | लभ् + ता → लभ् + धा |
भकारस्य जश्त्वेन बकारः | झलां जश् झशि | → लब्धा | ||
य् + त्/थ् | त्/थ् | यकारस्य लोपः | लोपो व्योर्वलि | जाहय् + ति → जाहति |
र् + त्/थ् | र् + त्/थ् | किमपि कार्यं न | जागर् + ति → जागर्ति | |
ल् + त्/थ् | ल् + त्/थ् | किमपि कार्यं न | पम्फुल् + ति → पम्फुल्ति* | |
व् + त्/थ् | त्/थ् | वकारस्य लोपः | लोपो व्योर्वलि | अवसरः नास्ति |
श् + त्/थ् | ष् + ट्/ठ् | शकारस्य व्रश्चादिना षत्वम्, | व्रश्चभ्रस्ज... | क्रोश् + ता → क्रोष् + ता |
तथयोः ष्टुत्वम् | ष्टुना ष्टुः | → क्रोष्टा | ||
ष् + त्/थ् | ष् + ट्/ठ् | तथयोः ष्टुत्वम् | ष्टुना ष्टुः | चरीकर्ष् + ति → चरीकर्ष्टि |
स् + त्/थ् | स् + त्/थ् | किमपि कार्यं न | चाकस् + ति → चाकस्ति |