7---ArdhadhAtukaprakaraNam/11---dvitvam
अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रम्— अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अजादेः द्वितीयस्य (एकाचः द्वे) |
अभ्यासः अभ्यस्तम् इति द्वे संज्ञे—
उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—उभे द्वे अभ्यस्तम् |
अधस्तन-उपस्थापनद्वये यङन्तधातूनाम् उदाहरणानि दीयन्ते, अतः इदं सूत्रमपि साहाय्यकम्—
बहुत्र धातुः एकाच् एव; तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच् यतोहि औपदेशिकधातौ न्यूनातिन्यूनम् एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन् यः अकारः, सः यङन्तधातोः द्वितीयः अच्-वर्णो भवति | धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | धातुः अनेकाच् चेत्, अपि च अजादिः इति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | एकाच्-भागः इत्युक्ते यदा हि प्रथमः अच्-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |
यथा भू + य → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम् → भूय इति धातुः अनेकाच्, हलादिः च अतः प्रथमस्य एकाच्-भागस्य द्वित्वम् → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम् → भू भू य
किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति—
अश् य → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम् → अश्य इति धातौ अश्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम् → 'अ श्य श्य' इति द्वित्वकार्यं समाप्तम् |
(अग्रे, अ श्य श्य → हलादिः शेषः ७.४.६० → अ श श्य → दीर्घोऽकितः ७.४.८३ इत्यनेन अभ्यासस्य दीर्घादेशः → अशाश्य इति यङन्तधातुः → अशाश्यते)
धेयं यत् 'यङ्-प्रत्ययं निमित्तीकृत्य द्वित्वम्' इति वार्ता नास्ति | 'अश् य → अश्य → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ्-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम् | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— लिटि धातोरनभ्यासस्य (६.१.८), श्लौ (६.१.१०), चङि (६.१.११) | एषु लिटि, श्लौ, चङि इति सप्तम्यन्तानि; किन्तु सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | यस्य अन्ते यङ् अस्ति, तस्य द्वित्वं भवति | यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतमेव |
अस्य च सिद्धान्तस्य फलम् अजादिधातुप्रसङ्गे | सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः यदि सप्तम्यन्तं स्यात्,नाम द्वित्वस्य निमित्तं स्यात्, तर्हि अश् +य → अश् + अश् +य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्-भागः अच्-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत् दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत् वरम् | इति कृत्वा अग्रे शीङ्-धातोः शय् + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक् | एवञ्च सर्वत्र समानरीत्या क्रियते चेत् सारल्यम्, एतदेव मातॄणां मतम् |
न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न् च द् च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अजादेर्द्वितीयस्य (६.१.२) इत्यसमत् अजादेः इत्यस्य अनुवृत्तिः | अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यसमत् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति- सहितसूत्रम्— अजादेः संयोगादयः न्द्राः न द्वे |
संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नू' इत्यस्य एव द्वित्वम् → ऊर्णू नू य इति द्वित्वकार्यं समाप्तम् |
(अग्रे ऊर्णू नू य → गुणो यङ्लुकोः ७.४.८२ → ऊर्णोनूय इति यङन्तधातुः → ऊर्णोनूयते)
उन्द् + सन् → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → 'न्दि' इति द्वितीयः एकाच्-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम् → प्रथमः तृतीयः च एकाच्-भागौ यथावत् तिष्ठतः → उन्दि + दि + ष → उन्दिदिष
तर्हि किं 'अश्' एकाच् अस्ति वा ? यथाश्रुतार्थ-स्वीकारेण अस्ति एव | पठ् ? एकाच् एव
A. प्रथमम् उदाहरणम्—'अश्' इति धातुः
श्य: अत्रापि एकाच् - एष: द्वितीयः एकाच्
B. द्वितीयम् उदाहरणम् —"ऊर्णु" इति धातुः
ऊर्णु + यङ् → ऊर्णु + य (अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५)) → ऊर्णूय
इदानिम् द्वितीयम् एकाच् पृथक्कृत्य →
सारांशः
| |||||||||||||