7---ArdhadhAtukaprakaraNam/12---iDvyavasthA

Revision as of 13:39, 23 May 2021 by Gargi Dixit (talk | contribs)

7---ArdhadhAtukaprakaraNam/12---iDvyavasthA

12 - इड्‌व्यवस्था

ध्वनिमुद्रणानि - 2019 वर्गः
१) iD-vyavasthA---paricayaH-1_2019-06-30  
२) iD-vyavasthA---paricayaH-2_+_ajantadhAtUnAm-iDvyavasthA_2019-07-07
ध्वनिमुद्रणानि - 2015 वर्गः
१) iDAgama-paricayaH-1_2015-11-18

२) iDAgama-paricayaH-2_2015-11-25


इट्‌ नाम किम्‌ | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात्‌ यत्‌ तिङन्तेषु कृदन्तेषु च कुत्रचित्‌ इकारः श्रूयते कुत्रचित्‌ न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम्‌ इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम्‌ इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्‌-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्‌व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट्‌ इत्युच्यते | सेट्‌ = इटा सह | (तेन सहेति तुल्ययोगे २.२.२८ इत्यनेन तुल्ययोग-बहुव्रीहिसमासः | एतादृश-बहुव्रीहिसमासस्य 'यस्य सः, येन सः' इति शैली न भवति, किन्तु अन्यपदप्राधान्यम्‌ अस्ति; प्रधानं न 'स', न वा 'इट्‌', अपि तु 'धातुः' |) यत्र इडागमस्य अनुकूलता नास्ति, तत्र धातुः अनिट्‌ इत्युच्यते | अनिट्‌ = न इट्‌ यस्य सः | नञ्तत्पुरुषगर्भ-बहुव्रीहिः | सामान्यतया धातुः सेट्‌ अस्ति चेत्‌ अपि च तस्मात्‌ यः प्रत्ययः विहितः अस्ति सः अपि सेट्‌ अस्ति चेत्‌, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम्‌ इडागमः भवितुम्‌ अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्‌, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्‌ |


इत्‌-संज्ञकेन अच्‌-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट्‌ अनिट्‌ वा इति अस्माभिः उक्तम्‌ | इत्‌-संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते, तेन स्वरेण धातुः इट्‌ वा अनिट्‌ वा इति निर्णयः क्रियते | अनेन स्वरेण इड्‌-व्यवस्था ज्ञायते |


धातुषु अचः अधस्तात्‌ या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन्‌ धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात्‌ या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते |


तर्हि उपरि चिह्नम्‌ अस्ति चेत्‌ स्वरः स्वरितः, अधः चिह्नम्‌ अस्ति चेत्‌, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम्‌ अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |


तर्हि अत्र इड्व्यवस्था कीदृशी इति द्रष्टव्यम्‌ | वृत्तान्ते पठँ इति धातुः | ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी | पकारोत्तरवर्ती यः अकारः अस्ति, सः अवशिष्टः स्वरः इति उच्यते | अयम्‌ अकारः कीदृशः इति धेयम्‌ | अवशिष्टः स्वरः अनुदात्तः चेत्‌, धातुः अनिट्‌ | अयम्‌ अवशिष्टः स्वरः उदात्तः स्वरितो वा, धातुः सेट्‌ | पकारोत्तरवर्ती अकारः उदात्तः, अतः धातुः सेट्‌ | गै॒ धातौ ऐकारः अनुदात्तः, अतः धातुः अनिट्‌ | मे॒ङ्‌ धातौ ङकारस्य इत्‌-संज्ञा, मे॒ अवशिष्यते | एकारः अनुदात्तः, अतः धातुः अनिट्‌ | क्षिवुँ इति धातौ उकारः अनुनासिकः अतः तस्य इत्‌-सज्ञा लोपः च | क्षिव्‌ इति अवशिष्यते | क्षकारोत्तरवर्ती यः इकारः सः उदात्तः, अतः धातुः सेट्‌ | उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम्‌ इच्छेम, तर्हि सूत्रद्वयं द्रष्टव्यं भवति |


प्रत्ययस्य स्वभावः


आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


वलादिः नाम वल्‌ प्रत्याहारः आदौ यस्य सः | वलि यकारं विहाय सर्वाणि व्यञ्जनानि | कस्यचित्‌ आर्धधातुकप्रत्ययस्य आदौ यदि वल्‌-प्रत्याहारस्य कश्चन सदस्यः अस्ति‌, तर्हि इडागमः तस्य प्रत्यस्य आदौ आयाति | आदौ कथं ज्ञायते ? किमर्थं मध्ये अपि न, अन्ते अपि न ? आद्यन्तौ टकितौ (१.१.४६) इति सूत्रेण यत्‌ आगमः टित्‌ अस्ति, सः यस्य आगमः अस्ति तस्य आदौ आयाति, कित्‌ अस्ति चेत्‌ यस्य आगमः अस्ति तस्य अन्ते आयाति | इट्‌-आगमः टित्‌ अस्ति (टकारः इट्‌ यस्य सः), अतः अनेन सूत्रेण इट्‌-आगमः प्रत्ययस्य आदौ आयाति | इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः प्रत्ययस्य आगमः (न तु धातोः) |


आर्धधातुकप्रत्ययः कः इति स्मर्यताम्‌ | प्रत्येकं प्रत्ययः यः धातुतः विहितः, सः सार्वधातुकम् आर्धधातुकम् वा | प्रत्ययः तिङ्‌ शित् वा‌ चेत्‌, तिङ्-शित्‌सार्वधातुकम् (३.४.११३) इत्यनेन स च प्रत्ययः सार्वधातुकम् | तिङ्‌ शित् नास्ति चेत्‌, आर्धधातुकं शेषः (३.४.११४) इत्यनेन प्रत्ययः आर्धधातुकः |


तर्हि इडागमविधायकं सूत्रम्‌ आर्धधातुकस्येड्वलादेः | अनेन धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्‌, तस्य प्रत्ययस्य इडागमः भवति | नाम अनेन सूत्रेण यः को‍ऽपि आर्धधातुक-प्रत्ययः वलादिः अस्ति, सः प्रत्ययः सेट्‌ | अयं नियमः तिङ्‌-प्रत्यय-प्रसङ्गे पर्याप्तम्‌ | किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः—तिङ्‌ कृत्‌ च | कृत्‌-प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत्‌, इडागमो निषिध्यते—

नेड्‌ वशि कृति (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | वश्‌-प्रत्याहारे वर्गीयवञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयवञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् न इट्‌ वशि कृति |


तितुत्रतथसिसुसरकसेषु च (७.२.९) = ति, तु, त्र, त, थ, सि, सु, सर, क, स एषाम्‌ आर्धधतुक-कृत्‌-प्रत्ययानाम्‌ इट्‌-आगमः न भवति | तिश्च तुश्च त्रश्च तश्च थश्च सिश्च सुश्च सरश्च कश्च सश्च तेषामितरेतरद्वन्द्वः तितुत्रतथसिसुसरकसाः, तेषु तितुत्रतथसिसुसरकसेषु | तितुत्रतथसिसुसरकसेषु सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | नेड्‌ वशि कृति (७.२.८) इत्यस्मात्‌ , इट्‌, कृति‌ इत्येषाम्‌ अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् न इट्‌ तितुत्रतथसिसुसरकसेषु कृत्सु च |


शास्‌ + त्र → शास्त्रम्‌ | यु + त्र → योत्रम्‌ | युज्‌ + त्र → योक्त्रम्‌ | स्तु + त्र → स्तोत्रम्‌ | तुद्‌ + त्र → तोत्रम्‌ | सि + त्र → सेत्रम्‌ | सिच्‌ + त्र → सेक्त्रम्‌ | मिह + त्र → मेढ्रम्‌ | पत्‌ + त्र → पत्त्रम्‌ |


सूत्रे उक्ताः प्रत्ययाः अनुबन्ध-रहिताः | अतः केवलम्‌ एक एव प्रत्ययः इति न अपि तु तदधिकाः अपि अर्हन्ति कुत्रचित्‌ | उदाहरणानि अधः दत्तानि—


ति = क्तिच्‌-प्रत्यये तन्तिः, किन्तु तनिता, तनितुम्‌ | क्तिन्‌-प्रत्यये दीप्तिः, किन्तु दीपिता, दीपितुम्‌ |

तु = तुन्-प्रत्यये सक्तुः, किन्तु सचिता, सचितुम्‌ |

त्र = ष्ट्रन्-प्रत्यये पत्रं, किन्तु पतिता, पतितुम्‌ |

त = तन्‌-प्रत्येय हस्तः, किन्तु हसिता, हसितुम्‌ | अत्र उनादिः त-प्रत्ययः न तु क्त-प्रत्ययः; हसितम्‌ | लीतः, पीतः, घूर्त्तः, किन्तु लविता, पविता, घूर्वित्ता |

थ = क्थन्‌-प्रत्यये कुष्ठम्‌, किन्तु कोषिता, कोषितुम्‌ | काष्ठम्‌, किन्तु काशिता, काशितुम्‌ |

सि = क्सि-प्रत्यये कुक्षिः, किन्तु कोषिता, कोषितुम्‌ |

सु = क्सु-प्रत्यये इक्षुः, किन्तु एषिता, एषितुम्‌ |

सर = सरन्‌-प्रत्यये अक्षरम्‌, किन्तु अशिता, अशितुम्‌ |

क = कन्‌-प्रत्यये शल्कः, किन्तु शलिता, शलितुम्‌ |

स = स-प्रत्यये वत्सः, किन्तु वदिता, वदितुम्‌ |


अत्र धेयं यत्‌ ति,त्र-प्रत्ययौ एव पाणिनेः; अस्मिन्‌ सूत्रे अवशिष्टसर्वे प्रत्ययाः उणादिप्रत्ययाः | अनेन ज्ञायते यत्‌ 'त'-प्रत्ययः क्त-प्रत्ययः नास्ति अपि तु उणादिः त-प्रत्ययः एव |


वस्वेकाजाद्घसाम् (७.२.६७) = कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् | वस्‌-प्रत्ययस्य इडागमो भवति केवलं (१) द्वित्वानन्तरम्‌ अपि ये धातवः एकाचः, तेभ्यः; (२) आकारान्तधातुभ्यः; (३) घस्-धातुतः (घस् अदने च अद्‌ भक्षणे इत्यस्य घस् इति धात्वादेशः लिट्यन्तरस्याम् (२.४.४०) इति सूत्रेण) |


अयं क्वसु-प्रत्ययः वेदे एव भवति | कृत्‌-प्रत्ययः अस्ति, किन्तु लिट्‌-लकारस्य स्थाने विकल्पेन भवति, लिट्‌-लकारस्य एव अर्थे |


आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः


आर्धधातुकस्येड्वलादेः (७.२.३५), नेड्‌ वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९), इत्येषां परिशीलनानन्तरम्‌ आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः—


चतुर्दश तकारादि-प्रत्ययाः = क्त, क्तवतु, क्त्वा, तुमुन्‌, तव्य, तव्यत्‌, तृच्‌, तृन्‌, तास्‌, तवै, तवेन्‌, तोसुन्‌, त्वन्‌, तवङ्‌ |


अष्ट सकारादि-प्रत्ययाः = सिच्‌, सीयुट्‌, सन्‌, स्य, क्से, से, से‌न्, सिप् |


वस्वेकाजाद्घसाम् (७.२.६७) इत्यनेन एकः क्वसु-प्रत्ययः |


लिट्‌-लकारे सप्त प्रत्ययाः = थल्‌, च, म, से, ध्वे, वहे, महे |


अतः आहत्य त्रिंशत्‌ वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः |


प्रश्नः


एवं सति अत्र नूतनप्रश्नः उदेति | आर्धधातुकस्येड्वलादेः इत्यनेन सर्वेभ्यः धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्‌, तस्य प्रत्ययस्य इडागमः भवति | किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित्‌ इडागमः न भवति | वृत्तान्ते तुमुन्‌-प्रत्ययः | तुमुन्‌ आर्धधातुकः (तिङ्‌ शित्‌ न), वलादिः किन्तु वशादिः न (तकारः आदौ अस्ति; स च तकारः वलि अस्ति किन्तु वशि न); तर्हि आर्धधातुकस्येड्वलादेः, नेड्‌ वशि कृति इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन्‌-प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत्‌—'इतुम्‌' इति रूपं, यथा पठितुम्‌, लेखितुम्‌, चिन्तयितुम्‌ | किन्तु कृ-धातोः कर्तुम्‌, श्रु-धातोः श्रोतुम्‌ इत्यनयोः इडामः नास्ति | किमर्थम्‌ ? धातुः अपि इडनुकूलः न वा इति ज्ञेयम्‌ |


धातोः स्वभावः


एकाच उपदेशेऽनुदात्तात्‌ (७.२.१०) = यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज्‌ अनुदात्तश्च तत आर्धधातुकस्येड्‌ न | यस्मिन्‌ धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच्‌ | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्‌, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | एकाचः पञ्चम्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अनुदात्तात्‌ पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | ॠत इद्‌ धातोः (७.१.१००) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; नेड्‌ वशि कृति (७.२.८) इत्यस्मात्‌ , इट्‌ इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— उपदेशे एकाचः अनुदात्तात्‌ धातोः अङ्गात्‌ न इत्‌ |

अत्र यद्यपि "उपदेशे" इत्यनेन मूलधातुः इत्युक्तम्‌, परन्तु "एकाच्‌" इत्यस्य कृते यदा स्वराणां गणनं भवति, तदा अनुबन्धेषु ये स्वराः सन्ति, ते गणने नान्तर्भूताः | यथा डुकृञ्‌ इति धातौ यद्यपि उकारः अपि ऋकारः अपि स्तः, किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति | डुकृञ्‌ एकाच्‌ अस्ति |


इडागमनिषेधकं सूत्रम्‌ इदम्‌ | अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच्‌ अपि स्यात्‌, अनुदात्तः अपि स्यात्‌ | अनेन ज्ञायते यत्‌‌—

१) अनेकाचः धातवः सर्वे सेटः भवन्ति | उपदेशे च अष्ट अनेकाच्‌ धातवः सन्ति— जागृ, ऊर्णु, दरिद्रा, चकासृ, चिरि, जिरि, दीधीङ्‌, वेवीङ्‌ | अनेकाच्त्वात्‌ एते सर्वेऽपि सेटः |

२) ये धातवः एकाचः सन्ति, तेषु ये उदात्तः स्वरितः सन्ति, ते अपि सेटः | यतः अनुदात्तात्‌ धातोः एव वलादि-आर्धधातुक-प्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम्‌ | तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति, ते अनिटः, अन्येऽपि सर्वे सेटः भवन्ति |


निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत्‌ एकाच्‌-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |


आर्धधातुकस्येड्वलादेः, नेड्‌ वशि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्‌-प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत्‌, अयं प्रत्ययः इडागमानुकूलः | कृत्‌-प्रत्ययः वलादिः अवशादिः चेत्‌, अयं प्रत्ययः इडागमानुकूलः | धातुः यः को‍ऽपि भवतु नाम, प्रत्ययः इडागमानुकूलः अस्ति चेत्‌, इडागमस्य प्रसक्तिः अस्ति एव | तदा एकाच उपदेशेऽनुदात्तात् इति सूत्रं धातोः वर्णनं करोति | अनेन सूत्रेण वलाद्यार्धधातुकप्रत्ययानुगुणम्‌ इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच्‌ अनुदात्तः, तत्र इडागमो निषिध्यते |


यथा डुकृञ्‌ (डुकृ॒ञ्‌) धातुः | अयं धातुः एकाच्‌ अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन्‌ प्रत्ययः—तुमुन्‌ आर्धधातुकप्रत्ययः (तिङ्‌ अपि नास्ति, शित्‌ अपि नास्ति अतः आर्धधातुकप्रत्ययः—तिङ्-शित्‌सार्वधातुकम्; आर्धधातुकं शेषः) | वलादिः अवशादिः अपि अस्ति | अतः आर्धधातुकस्येड्वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ्‌ एकाच्‌ अनुदात्तः, अतः एकाच उपदेशेऽनुदात्तात् इति सूत्रं इडागमं निषेधयति | तदर्थं 'कर्तुम्' इति रूपं भवति (न तु 'करितुम्') |


धातोः एकाच्त्वं दृष्ट्वा एव बुध्यते, परन्तु तस्य अनुदात्तत्वं तु दर्शनेन न ज्ञायते | वस्तुतः अनुदात्ताः एकाचः धातवः परिगणिताः | अतः ते सर्वे मनसि भवन्ति चेत्‌ महान्‌ लाभः | अजन्ताः धातवः आधिक्येन अनिटः अतः ये सेटः, ते ज्ञातव्याः; हलन्त-धातवः आधिक्येन सेटः, अतः ये अनिटः ते स्मर्तव्याः |


Swarup – November 2015


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].