9---anye-vyAkaraNa-sambaddha-viShayAH/06---tatpuruShasamAsaH
ध्वनिमुद्रणानि -
१) tatpuruSha-samAsaH---sAmAnyasya-karmadhArayasya-ca-tulanA_2019-08-17
द्वन्द्वो द्विगुरपि चाहं मद्गृहे नित्यमव्ययीभावः।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥
I am a married man (द्वन्द्वः) with a measly two cows (द्विगुः) (i.e. a poor man); in my household there is never any money to spend (अव्ययीभावः). My good man, please do something (तत्पुरुष कर्म धारय) so that I can be a rich man (बहुव्रीहिः).
१. संस्कृतभाषायां वाक्यार्थं शब्दक्रमस्य महत्त्वं नास्ति | कारणं ज्ञायते एव—शब्दाः विभक्तिसहिताः, अतः तेषां क्रियया सह सम्बन्धः निश्चितः | "राजा धेनुं हस्तेन निर्धनाय गोष्ठात् गङ्गातीरे ददाति" इत्यस्मिन् वाक्ये, शब्दक्रमो यत्किमपि भवतु नाम, अर्थोऽवगम्यते अस्माभिः |
२. परन्तु समासे तथा नास्ति | समासे विभक्तयः लुप्यन्ते; विभक्त्यभावे अपरेण माध्यमेन अर्थो बुध्यते | समस्तपदे अन्तर्भूतानाम् अङ्गानां क्रमोऽत्यन्तं महत्त्वपूर्णः | अङ्गक्रमेण एषां परस्परः सम्बन्धः कः इति ज्ञायते | एक एव अपवादोऽस्ति द्वन्द्वसमासः—तत्र अङ्गक्रमस्य विकारेण अर्थो न परिवर्तते | रामश्यामदिलिपाः गच्छन्ति; श्यामदिलिपरामाः गच्छन्ति |
तत्पुरुषसमासः [सामान्यः (सप्तविधा), कर्मधारयः (नवविधा), द्विगुः (त्रिविधा), नञ्प्रभृतयः (पञ्चविधा)]
३. तत्पुरुषसमासे अन्तिमपदस्य कश्चन सम्बन्धो वर्तते समस्तपदात् बहिः, क्रियया सह | अन्तिमपदात् प्राक् यावन्ति पदानि सन्ति, तेषां सम्बन्धो वर्तते केवलं समस्तपदस्य अन्तः | यथा "सः नीलपक्षिणं पश्यति", पक्षिन्-शब्दस्य गुरुत्वं भवति पदात् बहिः; नीलशब्दस्य गुरुत्वं केवलं पदस्य अन्तः | नीलपदस्य सम्बन्धो वर्तते पक्षिन्-पदेन सह; समस्तपदात् बहिः क्रियया सह अन्वयो नैव विद्यते | अतः समस्तपदात् बहिः अन्तिमपदस्य महत्त्वम् | “I took the horsecart” इत्यस्मिन् वाक्ये अहं शकटं स्व्यकरवम् | “I took the carthorse” इत्यस्मिन् वाक्ये अहं अश्वमेवानयं, न तु शकटम् |
४. तत्पुरुषस्य परिशीलनम् अन्तात् आरभ्यतां यतः अन्तिमपदं प्रमुखम् | दीर्घसमस्तपदं चेदपि चिन्ता नास्त्येव, यदि तथा कुर्मः | जनकतनयास्नानपुण्योदकम् | अत्र उदकम् (जलम्) प्रमुखम् | कीदृशोदकम् इति अस्माभिर्बोध्यम् | पुण्यम् उदकम् | कथं पुण्यम् ? स्नानेन | कस्य स्नानेन ? जनकस्य तनयायाः | तर्हि जनकस्य तनयायाः स्नानेन पुण्यम् उदकम् इति विग्रहवाक्यम् |
५. समासस्य रूपम् | अन्तिमपदस्य स्वस्य सामान्यविभक्तिसहितं रूपं भवति; तद्वर्जयित्वा अवशिष्टानां पदानां प्रातिपदिकरूपम् अथवा प्रातिपदिकस्य विकृतरूपम् (यथा राजन् इत्यस्य “राज”), इति साधारणनियमः | एषाम् अवशिष्टपदानां विभक्तिः वचनं च अवगम्यते वाक्यस्य सन्दर्भेन |
६. कर्मधारयसमासस्य लक्षणं सामानाधिकरण्यम् |
समानम् अधिकरणं इत्यस्य भावः सामानाधिकरण्यम् इति | नाम समासे पदद्वयम् अस्ति चेत्, तयोः समानः आधारः अस्ति चेत् तर्हि सामानाधिकरण्यम् अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम् अपि अपेक्ष्यते, एकार्थबोधकत्वम् अपि अपेक्ष्यते |
दशरथमहाराजो महाहस्तिनं महावने हन्ति |
दशरथो महान् राजा महान्तं हस्तिनं महति वने हन्ति |
दशरथः, महान्, राजा | महान्तं हस्तिनम् | महत् वनम् |
दशरथः, महान्, राजा एषां शब्दानां समान-विभक्तिकत्वम् अपि अस्ति (प्रथमाविभक्तिः), एकार्थबोधकत्वम् अपि अस्ति (राजा) |
७. तत्पुरुषसमासस्य लक्षणम् असामानाधिकरण्यम् |
रामस्य दूतः → रामदूतः |
निद्रया बाधितः → निद्राबाधितः |
८. कर्मधारयसमासः तत्पुरुषसमासश्च विशेष्यं विशेषणं वा |
समासः विग्रहः
(तृतीया तत्पुरुषः) नृपोक्त नृपेण उक्त = विशेषणम्
(षष्ठी तत्पुरुषः) नृपवचनम् नृपस्य वचनम् = विशेष्यम्
(कर्मधारय) तुङ्गवृक्षः तुङ्गो वृक्षः = विशेष्यम्
(कर्मधारय) वृक्षतुङ्ग वृक्ष इव तुङ्ग = विशेषणम्
९. क्तान्तसहित-समस्तपदानि
क्तान्तरूपं पूर्वसदस्यः चेत्, प्रायः कर्मधारयः, विशेष्यं च | हतपुत्रः (हतः पुत्रः), क्रुद्धब्राह्मणः (क्रुद्धो ब्राह्मणः) | क्रुद्धब्राह्मणो हतपुत्रं पश्यति |
क्तान्तरूपं परसदस्यः चेत्, प्रायः तत्पुरुषः, विशेषणं च | रामहत (रावणः) [रामेण हतः (रावणः), शिष्यपठितानि (पुस्तकानि) [शिष्यैः पठितानि (पुस्तकानि)] |
१०. गर्भसमस्तपदानि
क्रुद्धब्राह्मणः नृपहतपुत्रं पश्यति | तत्पुरुषगर्भ-कर्मधारयसमासः |
शिष्यपठितपुस्तकानि न कदापि पठ्यन्तेऽन्यैः जनैः | तत्पुरुषगर्भ-कर्मधारयसमासः |
समासे अन्तिमयुक्तेः स्वभावः पूर्णसमासस्य स्वभावः |
११. समासे पुंवद्भावः यत्र सामानाधिकरण्यं विद्यते |
शुद्धभाषा इति साधु रूपम् | शुद्धाभाषा इति दोषाय |
किमर्थमिति अत्र उच्यते—
समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम् अधिकरणं इत्यस्य भावः सामानाधिकरण्यम् | नाम समासे पदद्वयम् अस्ति चेत्, तयोः समानः आधारः अस्ति चेत् तर्हि सामानाधिकरण्यम् अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम् अपि अपेक्ष्यते, एकार्थबोधकत्वम् अपि अपेक्ष्यते |
उत्तमा + बालिका → उत्तमबालिका
अस्मिन् उदाहरणे समान-विभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम् | तथा च द्वयोः अपि अर्थः सा बालिका— अतः एकार्थबोधकत्वम् अपि अस्ति | समान-विभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति— अतः सामानाधिकरण्यम् अस्ति | सामानाधिकरण्यम् अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |
समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |
तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते ? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |
उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम् अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम् इत्युक्ते समान-विभक्तिकत्वम् एव न | एकार्थबोधकत्वम् अपि आवश्यकम् | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |
अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्, समान-विभक्तिकत्वम् भवेत् किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |
शुद्धभाषा इति पदे सामानाधिकरण्यम् अस्ति, अतः पुंवद्भावः |
अधुना वस्तुतः कर्मधारयसमासः नवविधः | अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति ? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्, पंवद्भावो भवति किम् ?
उत्तरत्वेन सामानाधिकरण्यम् इति तु अपेक्षितमेव; इदमपि संयोजनीयम् अस्ति यत् भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान् येन सह, भाषितपुंस्कः |
यथा विद्या एव धनं, विद्याधनम् | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्, यद्यपि विद्या इति शब्दे टाप् इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्, ततः परं टाप्-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्-प्रत्ययान्तमेव भवति |
पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव |
सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |
त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत् भवति | सुन्दरी नदी → सुन्दरनदी |
बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे, अपरस्मिन् अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम् अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम् अस्ति |
कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम् | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम् अस्ति चेत्, पुंवद्भावो भवति | यथा शीतम् उष्णं, शीतोष्णम् | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |
आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |
अपरेषु स्थलेषु कर्मधारयसमासः भवति— मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |
अतः यत्र सामानाधिकरण्यम् अस्ति (अनेन एकार्थबोधकत्वम् अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम् अस्ति, तत्र पुंवद्भावः |
१२. समासे पूर्वपदं विशेष्यम्, अन्तिमपदं सकर्मकक्तान्तं वर्जयित्वा विशेषणं चेत्, प्रायः उपमानपूर्वपद-कर्मधारयसमासः | यथा मेघश्यामः → मेघः इव श्यामः | एषु समासेषु तुलना, उपमा क्रियते अतः विग्रहवाक्ये इव इति शब्दः श्रूयते |
वृक्षतुङ्गः → वृक्षः इव तुङ्गः (तुङ्ग इत्युक्ते उन्नत)
काककृष्णः → काकः इव कृष्णः
१३. विशेषरूपाणि
a) पूर्वपदं नकारान्तपदं चेत्, प्रातिपदिकस्य विकृतिर्भवति | नकारस्य लोपो भवति |