9---anye-vyAkaraNa-sambaddha-viShayAH/13---iiyasun-ishthan
09 - अन्ये व्याकरण-सम्बद्ध-विषयाः >
ध्वनिमुद्रणानि -
१) iiyasun-iShThan---prayoga-kShetraM-ca-tadantavyutpatti-prakriyA_2019-07-06 २) iiyasun-iShThan----tadantavyutpatti-prakriyA---shAstriiyAvalokanam_2019-07-13
ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - कनिष्ठः, कनीयान् ध्वनिमुद्रणानि - युवन् + इष्ठन् → युवाल्पयोः कनन्यतरस्याम् (५.३.६४) इत्यनेन युवन्-शब्दस्य स्थाने विकल्पेन कन्-आदेशः → कन् +इष्ठ → कन् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → कन् +इष्ठ → कनिष्ठ | कनिष्ठः | ध्वनिमुद्रणानि - युवन् + ईयसुन् → युवाल्पयोः कनन्यतरस्याम् (५.३.६४) इत्यनेन युवन्-शब्दस्य स्थाने विकल्पेन कन्-आदेशः → कन् +ईयस् → कन् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → कन् +ईयस् → कनीयस् | कनीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - यविष्ठः, यवीयान् ध्वनिमुद्रणानि - कन्-आदेशस्य विपक्षे— ध्वनिमुद्रणानि - युवन् + इष्ठन् → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन युवन्-शब्दस्य वन्-भागस्य लोपः, तस्मात् प्राक् च स्थितस्य उकारस्य गुणः → यो +इष्ठ → एचोऽयवायावः (६.१.७७) इत्यनेन अव्-आदेशः → यविष्ठ | यविष्ठः | ध्वनिमुद्रणानि - युवन् + ईयसुन् → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन युवन्-शब्दस्य वन्-भागस्य लोपः, तस्मात् प्राक् च स्थितस्य उकारस्य गुणः → यो +ईयस् → एचोऽयवायावः (६.१.७७) इत्यनेन अव्-आदेशः → यवीयस् | यवीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - विन्मतोर्लुक् (५.३.६५) = विन्, मतुप् अनयोः लोपो भवति इष्ठन्, ईयसुन् इति प्रत्यययोः परयोः | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - स्रजिष्ठः, स्रजीयान् ध्वनिमुद्रणानि - सर्वे इमे स्रग्विणः, अयमेषामतिशयेन स्रग्वी, स्रजिष्ठः | ध्वनिमुद्रणानि - उभौ इमौ स्रग्विणौ, अयमनयोरतिशयेन स्रग्वी, स्रजीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - स्रग्विन् + इष्ठन् → विन्मतोर्लुक् (५.३.६५) इत्यनेन विन्-भागस्य लुक् (लोपः) → स्रज् + इष्ठ → स्रज् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → स्रज् + इष्ठ → स्रजिष्ठ | ध्वनिमुद्रणानि - स्रग्विन् + ईयसुन् → विन्मतोर्लुक् (५.३.६५) इत्यनेन विन्-भागस्य लुक् (लोपः) → स्रज् + ईयस् → स्रज् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → स्रज् + ईयस् → स्रजीयस् | स्रजीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - त्वचिष्ठः, त्वचीयान् ध्वनिमुद्रणानि - सर्वे इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान्, त्वचिष्ठः | ध्वनिमुद्रणानि - उभौ इमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान्, त्वचीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - त्वग्वान् + इष्ठन् → विन्मतोर्लुक् ( ५.३.६५) इत्यनेन मतुप्-लुक् (लोपः) → त्वच् + इष्ठ → त्वच् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → त्वच् + इष्ठ → त्वचिष्ठ | ध्वनिमुद्रणानि - त्वग्वान् + ईयसुन् → विन्मतोर्लुक् ( ५.३.६५) इत्यनेन मतुप्-लुक् (लोपः) → त्वच् + ईयस् → त्वच् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → त्वच् + ईयस् → त्वचीयस् | त्वचीयान् | ध्वनिमुद्रणानि - इदं सूत्रं विन्मतोर्लुक् (५.३.६५) ज्ञापकमस्ति यत् विन्नन्तशब्दस्य मतुबन्तशब्दस्य च तुलनात्मकार्थे इष्ठन्, ईयसुन् इत्यनयोः व्यवहारः भवति | यथा बुद्धिमान् इत्यस्य मतुप्-लुक् बुद्धि + इष्ठ → बुद्धि अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → बुद्ध् + इष्ठ → बुद्धिष्ठ | धनवान् अपि तथैव कल्पनीयम् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - तुरिष्ठेमेयःसु (६.४.१५४) = शब्दस्य तृ-भागलोपो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - करिष्ठ, विजयिष्ठ, वहिष्ठ ध्वनिमुद्रणानि - कर्तृ + इष्ठन् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः → कर् + इष्ठ → करिष्ठ | ध्वनिमुद्रणानि - विजेतृ + इष्ठन् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः → विजे + इष्ठ → एचोऽयवायावः (६.१.७७) इत्यनेन अय्-आदेशः → विजयिष्ठ | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - वह् + तृच् → वोढृ → वोढृ + इष्ठन् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः (मूले 'तृ' आसीत्) → वह् + इष्ठ → वहिष्ठ | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - दोहीयसी ध्वनिमुद्रणानि - दुह् + तृच् → दोग्धृ → स्त्रियां दोग्ध्री → दोग्ध्री + ईयसुन् → भस्याढे तद्धिते पुंवद्भावो वक्तव्यः इत्यनेन वार्त्तिकेन पुंवद्भावः, ङीप्-निवृत्तिः → दोग्धृ + ईयस् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः (मूले 'तृ' आसीत्) → दोह् + ईयस् → दोहीयस् → दोहीयस् + स्त्रियां ङीप् → दोहीयसी | दोहीयसी धेनुः, या धेनुः बहु दुग्धं ददाति | ध्वनिमुद्रणानि - स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) = स्थूल, दूर, युवन्, ह्रस्व, क्षिप्र, क्षुद्र इत्येषाम् अङ्गानां यणादिपर-भागः, तस्य भागस्य लोपो भवति अपि च तस्मात् भागात् पूर्वं स्थितस्य शब्दस्वरूपस्य इकः गुणो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | ‘यणादिपर-भागः’ इत्युक्तौ य्, र्, ल्, व् एषु अन्यतमः अपि च तदनन्तरं यावत् अस्ति | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - स्थूल + इष्ठन् → स्थो + इष्ठ → स्थविष्ठ | स्थविष्ठः, स्थवीयान् | ध्वनिमुद्रणानि - दूर + इष्ठन् → दो + इष्ठ → दविष्ठ | दविष्ठः, दवीयान् | ध्वनिमुद्रणानि - युवन् + इष्ठन् → यो + इष्ठ → यविष्ठ | यविष्ठः, यवीयान् | ध्वनिमुद्रणानि - ह्रस्व + इष्ठन् → ह्रस् + इष्ठ → ह्रसिष्ठ | ह्रसिष्ठः, ह्रसीयान् | ध्वनिमुद्रणानि - क्षिप्र + इष्ठन् → क्षेप् + इष्ठ → क्षेपिष्ठ | क्षेपिष्ठः, क्षेपीयान् | ध्वनिमुद्रणानि - क्षुद्र + इष्ठन् → क्षोद् + इष्ठ → क्षोदिष्ठ | क्षोदिष्ठः, क्षोदीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहि-गर्वर्षित्रब्द्राघिवृन्दाः (६.४.१५७) = प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक इत्येषां स्थाने यथासंख्यम् प्र, स्थ, स्फ, वर्, बंह्, गर्, वर्ष्, त्रप्, द्राघ्, वृन्द एते आदेशाः भवन्ति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - प्रिय + इष्ठन् → प्र + इष्ठ → प्रेष्ठ | प्रेष्ठः, प्रेयान् | ध्वनिमुद्रणानि - स्थिर + इष्ठन् → स्थ + इष्ठ → स्थेष्ठ | स्थेष्ठः, स्थेयान् | ध्वनिमुद्रणानि - स्फिर + इष्ठन् → स्फ + इष्ठ → स्फेष्ठ | स्फेष्ठः, स्फेयान् | ध्वनिमुद्रणानि - उरु + इष्ठन् → वर् + इष्ठ → वरिष्ठ | वरिष्ठः, वरीयान् | ध्वनिमुद्रणानि - बहुल + इष्ठन् → बंह् + इष्ठ → बंहिष्ठ | बंहिष्ठः, बंहीयान् | ध्वनिमुद्रणानि - गुरु + इष्ठन् → गर् + इष्ठ → गरिष्ठ | गरिष्ठः, गरीयान् | ध्वनिमुद्रणानि - वृद्ध + इष्ठन् → वर्ष् + इष्ठ → वर्षिष्ठ | वर्षिष्ठः, वर्षीयान् | ध्वनिमुद्रणानि - तृप्र + इष्ठन् → त्रप् + इष्ठ → त्रपिष्ठ | त्रपिष्ठः, त्रपीयान् | ध्वनिमुद्रणानि - दीर्घ + इष्ठन् → द्राघ् + इष्ठ → द्राघिष्ठ | द्राघिष्ठः, द्राघीयान् | ध्वनिमुद्रणानि - वृन्दारक + इष्ठन् → वृन्द + इष्ठ → वृन्दिष्ठ → वृन्दिष्ठः, वृन्दीयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - (उपरितने सूत्रे 'बंहि’, 'द्राघि' अनयोः इकारः केवलम् उच्चारणार्थः |) ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - बहोर्लोपो भू च बहोः (६.४.१५८) = बहु-शब्दस्य स्थाने भू-आदेशो भवति अपि च परयोः इमनिच्, ईयसुन् अनयोः इ, ई च लोपो भवति | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - बहु + ईयसुन् → भू +यस् → भूयस् | भूयान् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - इष्ठस्य यिट् च (६.४.१५९) = बहु-शब्दस्य स्थाने भू-आदेशो भवति अपि च इष्ठन्-प्रत्ययस्य यिट्-आगमो भवति | काशिकावृत्तिः— बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति | भूयिष्ठः | लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - बहु + इष्ठन् → भू + यिष्ठ → भूयिष्ठ | भूयिष्ठः | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - र ऋतो हलादेर्लघोः (६.४.१६१) = हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - पृथु + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → प्रथु + इष्ठ → प्रथु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → प्रथ् + इष्ठ → प्रथिष्ठ | प्रथिष्ठः, प्रथीयान् | ध्वनिमुद्रणानि - मृदु + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → म्रदु + इष्ठ → म्रदु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → म्रद् + इष्ठ → म्रदिष्ठ | म्रदिष्ठः, म्रदीयान् ध्वनिमुद्रणानि - भृश + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → भ्रश + इष्ठ → भ्रश अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → भ्रश् + इष्ठ → भ्रशिष्ठ | भ्रशिष्ठः, भ्रशीयान् ध्वनिमुद्रणानि - कृश + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → क्रश + इष्ठ → क्रश अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → क्रश् + इष्ठ → क्रशिष्ठ | क्रशिष्ठः, क्रशीयान् ध्वनिमुद्रणानि - दृढ + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → द्रढ + इष्ठ → द्रढ अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → द्रढ् + इष्ठ → द्रढिष्ठ | द्रढिष्ठः, द्रढीयान् ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - विभाषर्जोश्छन्दसि (६.४.१६२) = ऋजु-अङ्गस्य ऋकारस्य स्थाने र-आदेशो भवति वेदे, विकल्पेन, इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | ध्वनिमुद्रणानि - ऋजु + इष्ठन् → विभाषर्जोश्छन्दसि (६.४.१६२) इत्यनेन ऋजु-अङ्गस्य ऋकारस्य स्थाने र-आदेशः → रजु + इष्ठ → रजु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → रज् + इष्ठ → रजिष्ठ | रजिष्ठः | रजिष्ठमिति पन्थानम् | ध्वनिमुद्रणानि - कार्यस्य विपक्षे— ध्वनिमुद्रणानि - ऋजु + इष्ठन् → ऋजु + इष्ठ → ऋजु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → ऋज् + इष्ठ → ऋजिष्ठ | ऋजिष्ठः | त्वमृजिष्ठः | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - परिशिष्टम् ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - इष्ठन्, ईयसुन् इति द्वौ अपि प्रत्ययौ सर्वनामस्थानसंज्ञक-भिन्न-अजादी, अपि च तयोः विधायकसूत्रं भवति (४.१.२) - (५.४.१५१) इति मध्ये, अतः अनयोः परयोः, पूर्वभागस्य यचि भम् (१.४.१८) इति सूत्रेण भ-संज्ञा भवति | तदर्थं सामान्यम् अङ्गकार्यद्वयं भवति टेः (६.४.१५५), प्रकृत्यैकाच् (६.४.१६३) इति द्वाभ्यां सूत्राभ्याम्, अपि च एकं विशिष्टम् अङ्गकार्यं भवति तुरिष्ठेमेयःसु (६.४.१५४) इति सूत्रेण | कार्यत्रयमपि उपरि वर्णितम् अस्ति; ये शास्त्रीयरीत्या अवगन्तुमिच्छन्ति, ते अधःस्थसूत्राणि परिशीलयेयुः | उपरि केवलम् 'एकाच् चेत्', ‘अनेकाच् चेत्' इत्युक्तं; वस्तुतः स च शब्दः भसंज्ञकः अपि भवेत् | (यस्मात् अपि शब्दात् इष्ठन्, ईयसुन् इति द्वौ प्रत्ययौ विधीयेते, सः शब्दः भसंज्ञकः अस्त्येव; किमर्थमिति अग्रे पठति चेत् स्पष्टं स्यात् |) ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - अचोऽन्त्यादि टि (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत् टि-संज्ञकं स्यात् | अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः | अचः षष्ठ्यन्तम्, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - टेः (६.४.१५५) =भसंज्ञकशब्दस्वरूपस्य टि-भागस्य लोपो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | टेः षष्ट्यन्तम्, एकपदमिदं सूत्रम् | अल्लोपोऽनः (६.४.१३४) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | तुरिष्ठेमेयःसु (६.४.१५४) इत्यस्मात् इष्ठेमेयःसु इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भस्य अङ्गस्य टेः लोपः इष्ठेमेयःसु | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - प्रकृत्यैकाच् (६.४.१६३) = एकाच्-भसंज्ञकशब्दस्वरूपस्य प्रकृतिभावो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | प्रकृत्या तृतीयान्तम्, एकाच् प्रथमान्तं, द्विपदमिदं सूत्रम् | तुरिष्ठेमेयःसु (६.४.१५४) इत्यस्मात् इष्ठेमेयःसु इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— एकाच् भम् अङ्गं प्रकृत्या इष्ठेमेयःसु | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - यचि भम् (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने यचि भम् | ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - (स्वौजसमौट् (४.१.२) इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् (५.४.१५१) पर्यन्तम् इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते |) ध्वनिमुद्रणानि -ध्वनिमुद्रणानि - तुरिष्ठेमेयःसु (६.४.१५४) = भसंज्ञकशब्दस्वरूपस्य तृ-भागलोपो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | तुः षष्ठ्यन्तम्, इष्ठेमेयस्सु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इष्ठश्च इमा (उमनिच्) च ईयान् (ईयसुन्) च तेषमितरेतरद्वन्द्वः इष्ठेमेयांसः, तेषु इष्ठेमेयस्सु | ढे लोपोऽकद्र्वाः (६.४.१४७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— भस्य अङ्गस्य तुः लोपः इष्ठेमेयःसु | ध्वनिमुद्रणानि - Swarup – July 2019 ध्वनिमुद्रणानि - |
- १३ - ईयसुन्, इष्ठन्.pdf (75k) Swarup Bhai, Jul 22, 2019, 9:35 PM v.1 ↓