चेत् , नो चेत्

Revision as of 01:49, 29 May 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Home

चेत् , नो चेत्  

* चेत्

“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |

उदा - समयः अस्ति चेत् अहं आगच्छामि |

         (यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)

“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |

उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |


अभ्यासः 

१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।

उदा - कार्यालयस्य विरामः भवति ।

         कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।

1. गृहे कोपि नास्ति ।

……………………………………………………….. |

   2. .कोषे धनम् नास्ति ।

       ………………………………………………………… |  

   3.गृहम् अतिथि: आगच्छति ।

       …………………………………………………………|  

   4.बालकाः कोलाहलम् कुर्वन्ति ।

      …………………………………………………………… |

   5.नगरयानानि न सञ्चरन्ति।

     ……………………………………………………………।

  6.स्यूतः नष्टः भवति ।

    ………………………………………………………………।

  7.अधिकारी तर्जयति ।

     ………………………………………………………………।

  8.चोराः आगच्छन्ति ।

    ……………………………………………………………….।

9. पाके रुचिः न भवति ।

    …………………………………………………………………।

10. रात्रौ निद्रा न आगच्छति ।

  …………………………………………………………………।


२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।

उदा-

भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।

भवान् शिग्रम् आगच्छन्तु ।नो चेत् पिता तर्जयति ।

1. औषधम् स्वीकरोतु । ………………।ज्वरः वर्धते ।

2. इच्छा अस्ति ………………….भोजनम् करोतु ।

3. यदि अध्यापकः अस्ति ……………।कक्ष्यायाम् उपविशामि।

4. भवान् मधुरम् खादति| ………………………| दन्ताः नश्यन्ति ।

5. यदि भवन् असत्यम् वदति ………………।कः भवति विश्वासम् करोति ।

6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।

7. सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?

8. सुरेशः आगच्छति …………………माम् आह्वयतु ।

9. यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।

10. उपविश्य पठतु ।……………………उत्थाय वा पठतु ।