४४. चेत् , नो चेत्
चेत् , नो चेत्
“चेत्” इति अव्ययम् ।
चेत् = If.
The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.
उदाहरणम् -
अस्ति चेत् = If it is
नो चेत् = If not
यथा ---
गीतापुस्तकं गृहे अस्ति चेत् पठामि।
आपणे आलुकम् अस्ति चेत् आनयतु।
अभ्यासं करोति चेत् छात्रः उत्तीर्णः भवति।
“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |
उदा - समयः अस्ति चेत् अहम् आगच्छामि |
(यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)
“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |
उदा - यदि समयः अस्ति चेत् तर्हि अहम् आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |
अभ्यासः
१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखतु।
उदा - कार्यालयस्य विरामः भवति ।
कार्यालयात् विरामः भवति चेत् गृहं गच्छामि ।
1. गृहे कोपि नास्ति ।
…………………………………………………………|
2.कोषे धनं नास्ति ।
………………………………………………………… |
3.गृहे अतिथिः आगच्छति ।
……………………………………………………………|
4.बालकाः कोलाहलं कुर्वन्ति ।
……………………………………………………………|
5.नगरयानानि न सञ्चरन्ति।
……………………………………………………………।
6.स्यूतः नष्टः भवति ।
………………………………………………………………।
7.अधिकारी तर्जयति ।
………………………………………………………………।
8.चोराः आगच्छन्ति ।
………………………………………………………………।
9. पाके रुचिः न भवति ।
………………………………………………………………।
10. रात्रौ निद्रा न आगच्छति ।
……………………………………………………………….।
अभ्यासः
२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।
उदा-
भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।
भवान् शीघ्रम् आगच्छतु । नो चेत् पिता तर्जयति ।
1. औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।
2. इच्छा अस्ति ।………………….भोजनं करोतु ।
3. अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।
4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।
5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।
6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।
7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?
8. सुरेशः आगच्छति …………………माम् आह्वयतु ।
9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।
10. उपविश्य पठतु ।……………………उत्थाय पठतु ।
चेत् , नो चेत् PPTX with audio
चेत् , नो चेत् PPTX without audio
PAGE 44