चेत् , नो चेत्
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
चेत् , नो चेत्
* चेत्
“यदि तर्हि” एति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |
उदा - समयः अस्ति चेत् अहं आगच्छामि |
(यदि समयः अस्ति तर्हि अहं आगच्छामि इत्यर्थः |)
“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् वाक्ये “चेत् “इति न प्रयोक्तव्यम् |
उदा-यदि समयः अस्ति चेत् तर्हि अहं आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |
अभ्यासः
१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तत् सन्दर्भे भवन्तः किम् कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखन्तु।
उदा - कार्यालयस्य विरामः भवति ।
कर्यालयस्य विरामः भवति चेत् गृहम् गच्छामि ।
1. गृहे कोपि नास्ति ।
……………………………………………………….. |
2. .कोषे धनम् नास्ति ।
………………………………………………………… |
3.गृहम् अतिथि: आगच्छति ।
…………………………………………………………|
4.बालकाः कोलाहलम् कुर्वन्ति ।
…………………………………………………………… |
5.नगरयानानि न सञ्चरन्ति।
……………………………………………………………।
6.स्यूतः नष्टः भवति ।
………………………………………………………………।
7.अधिकारी तर्जयति ।
………………………………………………………………।
8.चोराः आगच्छन्ति ।
……………………………………………………………….।
9. पाके रुचिः न भवति ।
…………………………………………………………………।
10. रात्रौ निद्रा न आगच्छति ।
…………………………………………………………………।
२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयन्तु।
उदा-
भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।
भवान् शिग्रम् आगच्छन्तु । नो चेत् पिता तर्जयति ।
1. औषधम् स्वीकरोतु । ………………ज्वरः वर्धते ।
2. इच्छा अस्ति |………………….भोजनम् करोतु ।
3. अध्यापकः अस्ति ……… कक्ष्यायाम् उपविशामि।
4. भवान् मधुरम् खादति| ……… दन्ताः नश्यन्ति ।
5. भवान् असत्यम् वदति ।…………कः भवति विश्वासम् करोति ।
6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।
7. सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत?
8. सुरेशः आगच्छति …………………माम् आह्वयतु ।
9. दैवम् अनुकूलकरम् नास्ति …………… कः किम् कुर्यात् ।
10. उपविश्य पठतु ।……………………उत्थाय पठतु ।