तुमुन् प्रत्ययः
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH
तुमुन् प्रत्ययः
तुमुन् प्रत्ययः
एतत् संभाषणम् पठत अवगच्छत च –
पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?
पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |
पुत्रः - – जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?
पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |
पुत्रः – बहिः क्रिडासाधनानि किमर्थं सन्ति ?
पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति ।
पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।
पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।
अवधेयम् ---
कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –
रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |
अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|
अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |
यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |
“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।
तुमुन्नन्तरूपाणि ---
वर्तमानकालः | तुमुन्नन्तरुपम् | |
---|---|---|
१. | पतति | पतितुम् |
२. | हसति | हसितुम् |
३. | धावति | धावितुम् |
४. | पठति | पठितुम् |
५. | भवति | भवितुम् |
६. | चलति | चलितुम् |
७. | नयति | नेतुम् |
८. | लिखति | लेखितुम् |
९. | मिलति | मेलितुम् |
१०. | क्रीणाति | क्रेतुम् |
११. | शृणोति | श्रोतुम् |
१२. | नयति | नेतुम् |
१३. | करोति | कर्तुम् |
१४. | गॄह्णाति | ग्रहीतुम् |
१५. | पृच्छति | प्रष्टुम् |
१६. | पश्यति | द्रष्टुम् |
१७. | पिबति | पातुम् |
१८. | ददाति | दातुम् |
१९. | उत्तिष्ठति | उत्थातुम् |
२०. | उपविशति | उपवेष्टुम् |
पठत अवगच्छत च -
' इच्छते , शक्नोति च ' प्रयोगे तुमुन्
रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।
माला पठनम् इच्छति। ———> माला पठितुम् इच्छति।
राघवः पानम् इच्छति। ———> राघवः पातुम् इच्छति।
गीता हसनम् इच्छति। ———> गीता हसितुम् इच्छति।
रिषभः क्रीडनम् इच्छति। ———> रिषभः क्रीडितुम् इच्छति।
लता (गानम्) गातुं शक्नोति।
राधा ( नर्तनम्) नर्तितुं शक्नोति।
बालकः ( धावनम्) धावितुं शक्नोति।
धनिकः ( दानम्) दातुं शक्नोति।
शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति।
अभ्यासः
1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।
१. राजेशः ______ इच्छति (कथनम्) ।
२. रमेशः ______ इच्छति (गमनम्) ।
३. शिशुः ______ इच्छति (खादनम्) ।
४. बालकः ______ इच्छति (चलनम्) ।
५. कर्मकारः कर्मं______ इच्छति (करणम्) ।
६. अहं ______ विद्यालयं गच्छामि । (पठनार्थम्)
७. देवदत्तः ______ गच्छति । (शयनार्थम्)
७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)
८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)
९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)
१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्)
2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।
१. गोविन्दः तत्र ______ शक्नोति । (स्था)
२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)
३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)
४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)
५. सर्पः बिलं ______ शक्नोति । (प्रविश्)