सम्भाषणम्
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam
सम्भाषणम्
एतत् सम्भाषणं पठतु –
शिष्टाचारः
रोहितः - हे मित्र ! नमस्ते।
शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।
रोहितः - धन्यवादः । सर्वं कुशलं वा ?
शिवः - आम्, कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरे ?
रोहितः - अहम् अपि कुशलम् । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।
शिवः - बहु सन्तोषः भवन्तं दृष्टवा। उपविशतु। चायं पिबावः।
रोहितः - अस्तु। धन्यवादः।
शिवः - किञ्चित् अल्पाहारं अपि कुर्वः। किं स्वीकरोति भवान् ?
रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?
शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।
रोहितः - अहो ! मह्यं बहु रोचते।
(अल्पाहारः आगच्छति)
शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?
रोहितः - मास्तु पर्याप्तम् ।
(चायम् आगच्छति)
शिवः - चायं स्वीकरोतु।
रोहितः - अपि च ? अद्यतने काले कः विशेषः ?
(मित्रयोः वार्तालापः वर्तते)
रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।
शिवः - तथा एव कुर्वः।
रोहितः - नमस्कारः।
शिवः - नमस्कारः।
--- --- --- --- हरिः ओम्, सुप्रभातम् ।
नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।
धन्यवादः । सर्वं कुशलं वा ?
आम्, कुशलम् । भवान् कथम् अस्ति ।
अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।
किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।
व्याकरणग्रन्थम् पठितुम् इच्छामि अहम् ।
चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।
बहु धन्यवादाः महोदय ।
उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।
क्षम्यताम्, मास्तु ।
अहं स्वीकरोमि । भवान् अपि किञ्चित् स्वीकरोतु ।
अस्तु, धन्यवादः ।
स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।
(पानीयं पिबति ।)
किञ्चित् अधिकम् आवश्यकं वा ?
न, पर्याप्तम् ।
(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)
चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?
चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।
अस्तु । पुनः आगच्छतु । नमस्कारः ।
अभ्यासः
१) कोष्टके अधोलिखित शब्दानाम् अन्वेषणं करोतु
हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Puzzle created by Sameer Talar |
उत्तराणि Answers [Link to answer on page 50]