२०. सम्भाषणम्

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam
Jump to navigation Jump to search

सम्भाषणम्

एतत् सम्भाषणं पठतु –

शिष्टाचारः

SishtAchara.jpg


रोहितः - हे मित्र ! नमस्ते।

शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।

रोहितः - धन्यवादः । सर्वं कुशलं वा ?

शिवः - आम् कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरम् ?

रोहितः - अहम् अपि कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।

शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।

रोहितः - अस्तु। धन्यवादः।

शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?

रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?

शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।

रोहितः - अहो ! मह्यं बहु रोचते।

(अल्पाहारः आगच्छति)

शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?

रोहितः - मास्तु पर्याप्तम् ।

(चायम् आगच्छति)

शिवः - चायं स्वीकरोतु।

रोहितः - अपि च ? अद्यतने काले कः विशेषः ?

(मित्रयोः वार्तालापः अनुवर्तते)

रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।

शिवः - तथा एव कुर्वः।

रोहितः - नमस्कारः।

शिवः - नमस्कारः।


अभ्यासः

१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।

हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः
यी णो ढै छु थि सु जै थौ दू
डो न्य लौ ठू षी षी बं टु थि
ञं वा दः हु क्ष मी फै थि णै
षी दः स्वा म्य श्म ची रौ रा
ङी टु थौ ता ची टि दं रि:
सु प्र भा म् म् खा
खा म् दू णिः लौ स्का म्
लौ ढै फी थि णै खा रः
खा जै कु ची चि न्ता मा स्तु थौ

सम्भाषणम् pdf

उत्तराणि Answers [Link to answer on page 50]


PAGE 20