12---vyAvahArikii-shikShikA
12---vyAvahArikii-shikShikA
12 - व्यावहारिकी शिक्षिका
अस्मिन् पुटे अतीव व्यावहारिकव्याकरणसम्बद्ध-विषयेषु लघु-लेखाः स्थाप्यन्ते | पठनेन पाठकस्य भाषा इतोऽपि परिष्कृता भवतु इति लक्ष्यम् | रक्षा-भगिनी पत्राणि लिखित्वा अस्माकं विभिन्नवर्गाणां गुग्ल् ग्रुप्स् मध्ये प्रेषयति; भगिनी अस्माकं प्रगतव्याकरणवर्गे विद्यार्थिनी | मूलविषयाः विभिन्नेभ्यः स्रोतेभ्यः आयान्ति— आरम्भे सर्वे विषयाः शिवकुमारीभगिन्या दत्ताः, तया च महत् साहाय्यं कृतं प्रत्येकस्मिन् पत्रे | शिवकुमारी-भगिन्या राष्ट्रियसंस्कृतविद्यापीठे अधीतम्, आचार्य, व्याकरणं; राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, विद्यावारिधिः (Ph.D) अपि तत एव | भगिन्याः साहाय्यार्थं च अस्माकं पूर्णकृतज्ञता | अग्रे गच्छता कालेन अपरेषामपि विचारेभ्यः विषयाः आगताः, अस्माकं मनसि कदाचित् भवति स्म, बहु वारं च शुद्धिकौमुदी, भाषापाकः एतादृशेभ्यः पुस्तकेभ्यः अपि मूलविषयाः आयान्ति अतः हेगडे-महोदयस्यापि अस्मिन् महत् साहाय्यम् | अस्माकं लेखनशैली अत्र किन्तु किञ्चित् भिन्ना; इतोऽपि सूत्राधारितं चिन्तनं परिशीलनञ्च | अस्माकं पाठकेषु कस्यचित् प्रश्नः अथवा नूतनविषयस्य लेखनार्थं सूचना अस्ति चेत् कृपया पत्रं प्रेषयतु अत्र <[[1]]> - अनेन वयं अनुगृहीताः भवामः |