ज्ञातुकामः , गन्तुकामः इत्यादयः

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/jnatukamahgantukamahityadayah
Jump to navigation Jump to search

विषयः--ज्ञातुकामः , गन्तुकामः  इत्यादयः


प्रश्नः

ज्ञातुकामः, गन्तुकामः इत्यादिषु प्रयोगेषु कथं वा तुमुन्-प्रत्ययस्य मकारलोपः ?


उत्तरम्

- ज्ञातुकामः बहुव्रीहिसमासः, 'ज्ञातुम् इच्छा अस्य' इति विग्रहवाक्यम्‌ | ज्ञातुकामः, जिज्ञासुः इति समानार्थकशब्दौ |

- ज्ञातुकामः, गन्तुकामः इत्यादयः प्रयोगाः असकृत् श्रूयन्ते | तुमुनः मकारलोपः दृश्यते | अस्य कारणम् इदम् |

- सम्तुमुनोः कामे इत्यनेन वार्तिकेन सम्-तुमुनोः कामे परे मकारस्य लोपो भवति |

- गन्तुं कामः (इच्छा) अस्य इति गन्तुकामः | सम्तुमुनोः कामे इत्यनेन वार्तिकेन मलोपे गन्तुम् + कामः -> गन्तुकामः इति भवति |

- ज्ञातुं कामः (इच्छा) अस्य इति ज्ञातुकामः | सम्तुमुनोः कामे इत्यनेन वार्तिकेन मलोपे ज्ञातुम् + कामः -> ज्ञातुकामः इति भवति |

- मनस्-शब्दे परे अपि तुमुनः मलोपः भवति मनसि चेति वक्तव्यम् इत्यनेन वार्तिकेन गन्तम् + मनः -> गन्तुमनः |

- गन्तुं मनः (इच्छा) अस्य इति गन्तुमनः | मनस् इति शब्दस्य इच्छार्थे तुमुन्नन्तरूपेण प्रयोगः बहुधा वर्तते |

- गन्तुमनस् इत्यस्य प्रातिपदिकस्य नपुंसकलिङ्गे गन्तुमनः, पुंलिङ्गे गन्तुमनाः इति रूपम् |