ग्रहीतुम् /गृहितुम्
विषयः — ग्रहीतुम् /गृहितुम्
प्रश्नः
"बालकः कन्दुकं ग्रहीतुम् उद्युक्तः" उत "बालकः कन्दुकं गृहितुम् उद्युक्तः" ? कः प्रयोगः साधुः ?
उत्तरम्
"बालकः कन्दुकं ग्रहीतुम् उद्युक्तः" इत्येव साधुः प्रयोगः |
- ग्रह् धातोः तुमुन् प्रत्यये परे ग्रह् + तुमुन्
- उकार-नकारयोः इत्सज्ञालोपानन्तरं ग्रह् + तुम् | उपदेशेऽजनुनासिक इत् , हलन्त्यम् - इत्यनयोः उकार-नकारयोः इत्सज्ञा | तस्य लोपः इत्यनेन इत्सज्ञालोपः |
- इडागमे ग्रहोलिटि दीर्घः इत्यनेन इटः दीर्घे ग्रह + ई + तुम्-> ग्रहीतुम् इति भवति न तु ग्रहितुम् इति |
- गृहीत्वा इत्यादिषु तु सम्प्रसारणेन गृहीत्वा इति भवति | तुमुन्प्रत्यये परे सम्प्रसारणाभावः (तुमुन् न कित् न वा ङित् इति कारणेन) | सम्प्रसारणाभावात् ग्रहीतुम् इत्येव भवति |
परिशिष्टम्
धातुः -> ग्रह् । तथापि कुत्रचित् गृह् इति दृश्यते (तन्नाम सम्प्रसारणभूतं रूपं पश्यामः , सम्प्रसारणसज्ञाविधेयकं सूत्रं तु इग्यणः सम्प्रसारणम् ) । कदा ग्रह् , कदा गृह् इत्येव प्रश्नः प्रायः बाधते । तदर्थम् अधः किञ्चिद् निरूप्यते ।
- ङिति परे / किति परे च सम्प्रसारणं (गृह् इति ) भवति । (६।१।१६ ग्रहिज्या...... ) । किति => क्त्वा , क्तवतु , क्तः इत्यादयः ।
- अन्यच्च , सार्वधातुकलकारेष्वपि सम्प्रसारणम् यतः ङित्वद्भादेशः वर्तते । (तत् कथम् ? सार्वधातुकमपित् इति सूत्रम्) । श्ना इति अपित् सार्वधातुकम् अतः ङित्वत् । तस्मात् गृह्णाति इत्यादीनि रूपाणि ।
सम्भाषणोपयोगिनां मुख्यभूतानां धातूनां सूची अधः वर्तते (धातुसङ्कीर्तनं त्वत्र --> ६।१।१५ , ६।१।१६)
- प्रच्छ् --> पृच्छ् (पृष्ट्वा , प्रष्टुम् )
- वह् --> उह् (निर्वहति किन्तु निरूह्यते [कर्मणि])
- वस् --> उष् (वसति , वस्तुम् किन्तु उषित्वा )
- ग्रह् --> गृह् (गृह्णाति / ग्रहीतुम् ) ६।१।१६ इति सूत्रे न सर्वे सम्प्रसारणिधातव उल्लिखिताः ।
६।१।१६ इति सूत्रे न सर्वे सम्प्रसारणिधातव उल्लिखिताः ।
अन्यच्च , श्रु इति परिचितो धातुरेव । अस्यापि शृणोति इति रूपं दृष्ट्वा आशङ्कामहे यत् अस्य धातोरपि ग्र्ह्-धातुवद् रूपाणि भवेयुः किन्तु श्रु इति न सम्प्रसारणिधातुः (न चात्र सम्प्रसारणम्) । अयं विशेषः , केवलं सार्वधातुकलकारेषु (शतृरूपेषु च) शृ इति धात्वादेशः । (३।१।७४ श्रुवः शृ च) ।
(परिशिष्टं मनीषमहोदयेन विरचितम्)(परिशिष्टं मनीषमहोदयेन विरचितम्)