साधयति, सेधयति
विषयः— साधयति, सेधयति
प्रश्नः
"तपः तापसं सेधयति" उत "तपः तापसं साधयति" ? कः प्रयोगः साधु: ? उत्तरम्
उत्तरम्
"तपः तापसं सेधयति" इत्येव साधुः प्रयोगः | पारलौकिकार्थे 'सेधयति' इत्येव णिजन्तरूपम् |
- षिधु संराद्धौ इति धातोः णिच्-प्रत्यये परे साधयति इति भवेत् उत सेधयति इति शङ्कायां सत्यां समाधानमिदं - साधयति, सेधयति इति उभयथा प्रयोगः वर्तते |
- षिधु-धातोः इत्संज्ञालोपानन्तरं षिध् इति अवशिष्यते | धात्वादेः षः सः (६.१.६४) इति सूत्रेण धातोः आदेः षस्य सकारादेशः | अनेन सिध् इति लौकिकधातुः प्राप्यते |
- प्रेरणार्थे णिचि परे सिध् + णिच् | णकारचकारयोः इत्संज्ञालोपानन्तरं सिध् + इ |
- णिच्-प्रत्ययस्य आर्धधातुकत्वात् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन सूत्रेण अङ्गस्य उपधायां स्थितस्य इकारस्य गुणः भूत्वा सिध् + इ → सेध् + इ | (अतः नुतनधातुः सेधि भवति स्म |)
- किन्तु यदा क्रियायाः फलं परलोके न भवति अपि तु अस्मिन् एव लोके, तदा सिध्यतेरपारलौकिके (६.१.४९) इति सूत्रेण अपारलौकिके अर्थे सकारोत्तरवर्ति-एकारस्य आकारादेशः | सेध् + इ → साध् + इ → साधि इति नुतनधातुः (आतिदेशिकधातुः) निष्पन्न: | सनाद्यन्ता धातवः (३.१.३२) इत्यनेन तस्य धातुसंज्ञा |
- सिध्यतेरपारलौकिके (६.१.४९) इत्यस्य अनुवृत्ति-सहितसूत्रम्— अपारलौकिके सिध्यतेः एचः अत् णौ |
- लट्लकारे प्रथमपुरुषैकवचने - साधि + शप् + तिप् → साधे + अ + ति → साधयति | अपारलौकिकार्थे 'साधयति ' इति णिजन्तरूपम् |
- 'सः अन्नं साधयति' इत्यस्मिन् वाक्ये क्रियायाः फलम् अस्मिन् एव लोके अतः णिजन्तधातोः अपारलौकिकार्थे प्रयोगः, न तु पारलौकिकार्थे | अतः सकारोत्तरवर्ती एचः आत्वं, येन आकारः दृश्यते 'साधयति' इत्यस्मिन् पदे |
- पारलौकिके अर्थे तु आत्वं न भवति सकारोत्तरवर्ति-एकारस्य स्थाने | अतः णिचः संयोजनेन सेधि इतत्येव धातुः तिष्ठति | सिध् + इ → सेध् + इ → सेधि इति आतिदेशिकधातुः |
- लट्लकारे प्रथमपुरुषैकवचने - सेधि + शप् + तिप् → सेधे + अ + ति → सेधयति | पारलौकिकार्थे 'सेधयति' इत्येव णिजन्तरूपम् |
- 'तपः तापसं सेधयति' इत्यस्मिन् वाक्ये क्रियायाः फलं परलोके, अतः पारलौकिकार्थे णिजन्तस्य प्रयोगः | तदर्थं सेधि इत्येव धातुः, अपि च 'सेधयति' एव साधुः प्रयोगः |
- साधयति सेधयति च इति रूपद्वयमपि भवति षिधु-धातोः णिजन्तप्रसङ्गे | अर्थभेदम् अनुसृत्य रूपभेदः जायते वाक्येषु |