प्रियविश्वाय/प्रियविश्वस्मै

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/priyavisvayapriyavisvasmai
Jump to navigation Jump to search

विषयः— प्रियविश्वाय/प्रियविश्वस्मै


प्रश्नः

"प्रियविश्वाय फलं देहि" उत "प्रियविश्वस्मै फलं देहि"? कः प्रयोगः साधुः?


उत्तरम्

"प्रियविश्वाय फलं देहि" इत्येव साधुः प्रयोगः |


- प्रियाः विश्वे यस्य सः प्रियविश्वः इति बहुव्रीहिसमासः | अस्य शब्दस्य प्रियविश्वाय, प्रियविश्वात्, प्रियविश्वे इत्यादीनि रूपाणि भवन्ति |

- समासाभावे विश्वशब्दस्य सर्वनामत्वात् विश्वस्मै, विस्वस्मात्, विश्वस्मिन् इत्यादयः प्रयोगाः भवन्ति |

- तस्मात् प्रियविश्व इति समस्तपदस्यापि प्रियविश्वस्मै, प्रियविश्वस्मात्, प्रियविश्वस्मिन् इत्यादीनि रूपाणि भवेयुः इति संशये सति समाधानमिदम् |

- सर्वादीनि सर्वनामानि (१.१.२७) इति सूत्रेण सर्वादिगणे विद्यमानानां सर्वेषामपि सर्वनामसंज्ञा भवति |

- पाणिनेः गणपाठे सर्वादिगणः नाम्ना कश्चन गणो वर्तते यस्मिन् विश्वशब्दः अपि वर्तते |

- अनेन सूत्रेण तदन्तस्यापि इयं सर्वनामसंज्ञा गृह्यते | इत्युक्ते सर्वादिशब्दः यस्य अन्ते अस्ति, तस्यापि सर्वनामसंज्ञा भवति |

- किन्तु अस्य अपवादे, बहुव्रीहिसमासे सर्वादीनि सर्वनामसंज्ञकानि न भवन्ति न बहुव्रीहौ (१.१.२९) इत्यनेन सूत्रेण |

- अतः प्रियविश्व इति बहुव्रीहिसमासे कृते सर्वनामसंज्ञानिमित्तकार्याणि न भवन्ति | तेन प्रियविश्वाय इत्येव साधुः |

- सर्वादिगणे सर्व, विश्व, उभ, उभय, कतर, कतम, अन्य, अन्यतर, इतर ... तद्‌, यद्‌, एतद्‌ ... एक, द्वि ... पूर्व, दक्षिण, उत्तर इत्यादयः ३५ शब्दाः अपि अन्तर्भूताः | एतेषां सर्वेषां सर्वनामसंज्ञा नास्ति बहुव्रीहौ |