सप्तरात्रिः/सप्तरात्रम्

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/saptarAtriH-saptarAtram
Jump to navigation Jump to search

विषयः— सप्तरात्रिः/सप्तरात्रम्


प्रश्नः

"सप्तरात्रिम् आचरिष्यामः" उत "सप्तरात्रम् आचरिष्यामः"? अनयोर्वाक्ययोः किं साधु इति पश्याम |


उत्तरम्

"सप्तरात्रम् आचरिष्यामः" इत्येव साधुः प्रयोगः |सप्तरात्रम् - सप्तानां रात्रीणां समाहारः इति विग्रहवाक्यं द्विगुसमासः च ।


सप्तरात्रम् - सप्तानां रात्रीणां समाहारः इति विग्रहवाक्यं द्विगुसमासः च ।

'अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः' इत्यनेन सूत्रेण समासन्तः अच् प्रत्ययः विहितः भवति | सप्तरात्रि + अच् -> सप्तरात्रि + अ अनुभन्धलोपानन्तरम् |

'अ' पूर्वस्य सप्तरात्रि-शद्बस्य भसंज्ञा भवति 'यचि भम्‌' सूत्रेण | 'यस्येति च' इत्यनेन भसंज्ञकस्य इकारस्य लोपः | तेन सप्तरात्र् + अ -> सप्तरात्र इति |

समाहारद्विगुः सामान्यतया नपुंसकलिङ्गे भवति 'स नपुंसकम्' इति सूत्रात् | तथैव एकवचने भवति 'द्विगुरेकवचनम्' सूत्रात् ।

परन्तु 'रात्राह्नाहाः पुंसि' इति सूत्रेण पुंलिङ्गे एव रात्र्यन्ततत्पुरुषस्य प्रयोगः भवेत् इति पाणिनीयसूत्रम् | तेन सप्तरात्रः इति पुंसि भवति | पुनः अस्य सूत्रस्य बाधकं 'सङ्ख्यापूर्वं रात्रं क्लीबम्' इति लिङ्गानुशासनवचनम् | तेन सङ्ख्यापूर्वः रात्रिशब्दः नपुंसि एव प्रयोक्तव्यः इति सिध्यति । अतः सप्तरात्रम् इति प्रयोग एव साधुः ।