यदि-तर्हि

From Samskrita Vyakaranam
Jump to navigation Jump to search

विषयः—  यदि-तर्हि



प्रश्नः

"यदि कक्ष्या अस्ति चेत् आगच्छामि" इति प्रयोक्तव्यम् उत "यदि कक्ष्या अस्ति तर्हि आगच्छामि" इति प्रयोक्तव्यम् ? उत्तरम्‌


उत्तरम्‌

"पक्षान्तरे चेद्यदि च" (३-४-१२) इति अमरकोषवाक्येन यदि-चेत् उभयोः समानः अर्थः | तस्मात् 'यदि, चेत्' अनयोः एकस्मिन् वाक्ये प्रयोगः उक्तार्थस्यैव पुनः कथनं भवति | तदा पुनरुक्तिदोषः अपि | अतः यदि प्रयोगे चेत् प्रयोगः न स्यात् | यदि प्रयोगे तर्हि प्रयोगः कर्तव्यः |


साधु प्रयोगौ इमौ

- यदि कक्ष्या अस्ति तर्हि आगच्छामि |

- कक्ष्या अस्ति चेत् आगच्छामि |

एवमेव चेत्-तर्हि अनयोः प्रयोगोपि युज्यते यथा "चेत् कक्ष्या अस्ति तर्हि आगच्छामि" | "कक्ष्या अस्ति यदि आगच्छामि" इत्यपि शक्यते प्रयोक्तुम् |