आरभणीयम्/आरम्भणीयम्

From Samskrita Vyakaranam
Jump to navigation Jump to search

विषयः''''''''''—''''''''''''' आरभणीयम् / आरम्भणीयम्

प्रश्नः

"विलम्बेन विना सत्कार्यम्‌ आरभणीयम्" उत "विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" -- अनयोः कः प्रयोगः साधुः ?

उत्तरम्

"विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" इत्येव साधुः प्रयोगः |

- रभ राभस्ये इति भ्वादिगणीयः सकर्मकः, आत्मनेपदी, अनिट् धातुः | अनुबन्धलोपानन्तरं रभ् इति लौकिकधातुः निष्पद्यते |

- आङ्‌-उपसर्गपूर्वकः रभ्-धातोः लटि आरभते, लोटि आरभताम्, लङि आरभत, विधिलिङि आरभेत इत्यादीनि रूपाणि दृश्यन्ते |

- अनीयर्-प्रत्ययान्तविवक्षायां कदाचित् आरभणीयम् इति प्रयोगः श्रूयते | अयं मकाररहितः अनीयर्-प्रत्ययान्तप्रयोगः वस्तुतः दोषयुक्तः |

- रभ्-धातुतः अनीयर्-प्रत्यये विहिते रभेरशब्लिटोः (७.१.६३) इत्यनेन नुमागमः, तस्माच्च आरम्भणीयम् इति मकारघटितम् अनीयर्-प्रत्ययान्तं रूपं सिध्यति |

- रभेरशब्लिटोः इत्यनेन रभ्-अङ्गस्य शब्लिड्वर्जिते अजादौ प्रत्यये परे नुमागमो भवति | रभ् इत्यनेन उपसर्गपूर्वकस्य आरभ्-अङ्गस्यापि ग्रहणम् |

- शप् च लिट् च शब्लिट् इति द्वन्द्वसमासः | शब्लिट्-वर्जितः नाम यः प्रत्ययः शप् नास्ति, लिट्-विवक्षायां नास्ति सः, शब्लिट्-अतिरिक्तः |

- आरभ्-अङ्गात् विहितः प्रत्ययः न शप् न वा लिट् किन्तु आजादिः चेत् रभेरशब्लिटोः इत्यनेन रभ्-धातोः नुमागमः भवति |

- मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुमागमः रभ्-धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | आरभ् + अनीयर् आरभ् + नुम् + अनीय आरन्‌भ् + अनीय |

- आरन्‌भ् + अनीय इत्यस्यां दशायां नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य स्थाने अनुस्वारादेशः आरंभ् + अनीय |

- आरंभ् + अनीय आरंभनीय इत्यस्यां दशायां अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वम्, आरंभनीय आरंभणीय |

- अन्ते आरंभणीय इत्यस्मिन् अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने मकारादेशः, आरंभणीय आरम्भणीय इति अनीयर्-प्रत्ययान्तं रूपं निष्पन्नम् |

- आहत्य, आरभ् + अनीयर् आरभ् + नुम् + अनीय आरन्‌भ् + अनीय आरंभ् + अनीय आरंभणीय → आरम्भणीय |

- अनीयर्-स्थाने समानार्थके तव्यत्-प्रत्यये विहिते, तव्यत्-प्रत्ययः अजादिः नास्ति इत्यतः रभेरशब्लिटोः इत्यनेन नुमागमः न भवति | आरभ् + तव्यत् → आरभ् + तव्य → आरब्धव्य |

- तथैव लट् इत्यादिषु सार्वधातुकलकारेषु शप्-प्रत्यये विहिते, रभेरशब्लिटोः इत्यनेन नुमागमः न भवति | यथा लटि, आरभ् + ते आरभ् + शप् + ते आरभते |