गमयति, गामयति
विषयः— गमयति, गामयति
प्रश्नः
"पिता पुत्रं शालां गमयति" उत "पिता पुत्रं शालां गामयति” ? कः प्रयोगः साधुः ?
पठ्-धातुः इव पठ् -> पाठयति (वद् -> वादयति, पच् -> पाचयति) इति गामयति यदि स्यात् किमर्थम् ? तथा यदि न स्यात् किमर्थम् ?
उत्तरम्
"पिता पुत्रं शालां गमयति" इत्येव साधुः प्रयोगः |
- गम्-धातोः प्रेरणार्थे णिचि परे गम् + णिच् | इत्संज्ञालोपोत्तरम् गम् + इ इति भवति |
- अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः भवति स्म यथासामान्यं णिजन्तप्रकरणे उपधायाम् अत् अस्ति चेत् |
- तदा गम् + इ -> गामि इति अङ्गम् भवति स्म | किन्तु गम्-धातोः तादृशी व्यवस्था नास्ति |
- जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च इत्यनेन गणसूत्रेण अमन्त-धातूनाम् मितादेशः |
- गम्-धातुः अमन्तधातुः | तस्य जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च इत्यनेन गणसूत्रेण मित् इति अतिदेशः क्रियते |
- गम्-धातोः मित्वात् मितां ह्रस्वः (६.४.९२) इति सूत्रेण णौ परे गम् धातोः उपधायाम् स्तिथः स्वरः ह्रस्वः | गम् + इ -> गमि इत्येव भवति।
- लट्लकारे प्रथमपुरुषैकवचने शप्-विकरणप्रत्यये विहिते गमि + शप् + तिप् -> गमि + अ + ति -> गमे + अ + ति -> गमय + ति -> गमयति |
- अतः "पिता पुत्रं शालां गमयति" इत्येव साधुः प्रयोगः ।