प्रत्येकस्य/प्रत्येकम्
विषयः— प्रत्येकस्य/प्रत्येकम्
प्रश्नः
"प्रत्येकस्य वाक्यस्य अन्ते पूर्णविरामः भवति।" उत "प्रत्येकं वाक्यस्य अन्ते पूर्णविरामः भवति।" द्वयोर्मध्ये कस्साधुः? उत्तरम् उत्तरम्
उत्तरम्
"प्रत्येकं वाक्यस्य अन्ते पूर्णविरामः भवति।" इत्येव साधुः प्रयोगः | प्रत्येकम् - एकम् एकं प्रति इति वीप्सार्थे अव्ययीभावः समासः। अव्ययीभावसमासस्य अन्यानि उदहरणानि - अधिहरि, यथाशक्ति, उपकृष्णम् |
प्रत्येकम् - एकम् एकं प्रति इति वीप्सार्थे अव्ययीभावः समासः। अव्ययीभावसमासस्य अन्यानि उदहरणानि - अधिहरि, यथाशक्ति, उपकृष्णम् |
अव्ययीभावसमासस्य अव्ययत्वात् सर्वासु विभक्तिषु सर्वेषु च वचनेषु समानं रूपं भवति । अव्ययीभावस्य अव्ययत्वेऽपि नपुंसकलिङ्गे लोके वर्तमानत्वात् पाणिनिनापि नपुंसकलिङ्गम् अनुशासितम् "अव्ययीभावश्च" इति सूत्रेण। तस्मात् अव्ययीभावसमासः नपुंसकलिङ्गे भवति ।
परन्तु अव्ययीभावसमासः यदि अदन्तः तर्हि तत्र व्यवस्था भिद्यते | 'अ' अन्ते यस्य सः अदन्तः इति बहुव्रीहिसमासः |
अधुना अदन्तस्य उदाहरणाय, प्रत्येकम् इति अव्ययीभावसमासं पश्यामः। एकं एकं प्रति इति प्रत्येकम् | 'प्रत्येक' प्रातिपदिकम् अदन्तः च |
प्रत्येकम् इत्यस्य प्रथमाविभक्तौ, द्वितीयाविभक्तौ, चतुर्थीविभक्तौ, षष्ठीविभकतौ च त्रिष्वपि वचनेषु "प्रत्येकम्" इत्येव प्रयोगः।
तृतीयाविभक्तौ प्रत्येकेन, प्रत्येकम् इति द्विधा भवति "तृतीयासप्तम्योर्बहुलम्" इति सूत्रेण |
यथा "प्रत्येकेन बालकेन कार्यं कारय|" अथवा "प्रत्येकं बालकेन कार्यं कारय।"
पञ्चमीविभक्तौ प्रत्येकस्मात् इति भवति "नाव्ययीभावादतोऽम्त्वपञ्चम्याः" इति सूत्रेण|
यथा "प्रत्येकस्मात् बालकात् पुस्तकं स्वीकुरु|"
सप्तमीविभक्तौ प्रत्येकस्मिन् , प्रत्येकम् इति द्विधा भवति "तृतीयासप्तम्योर्बहुलम्" इति सूत्रेण |
यथा "प्रत्येकस्मिन् बालके बुद्धिः अस्ति |" अथवा "प्रत्येकं बालके बुद्धिः अस्ति |"
अन्यासु विभक्तिषु "प्रत्येकम्" इत्येव प्रयोगः |
प्रथमाविभक्तौ - प्रत्येकं बालकः शालाम् आगच्छतु |
द्वितीयाविभक्तौ - प्रत्येकं बालकं प्रश्नं पृच्छ।
चतुर्थीविभक्तौ - प्रत्येकं बालकाय मोदकं देहि।
षष्ठीविभक्तौ - प्रत्येकं बालकस्य वचनं श्रुणु।
अतः "प्रत्येकस्य वाक्यस्य" इति न प्रयोक्तव्यम् अपि तु "प्रत्येकं वाक्यस्य" इति प्रयोक्तव्यम् ।अतः "प्रत्येकस्य वाक्यस्य" इति न प्रयोक्तव्यम् अपि तु "प्रत्येकं वाक्यस्य" इति प्रयोक्तव्यम् ।