चित्-चन प्रयोगः

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/cit-canaprayogah
Jump to navigation Jump to search

विषयः- चित्-चन प्रयोगः


प्रश्नः

चित्‌-चनौ केषु अर्थेषु प्रयुज्येते ? तयोः प्रधानार्थः कः ? अन्ये गौणार्थाः के ?


उत्तरम्


- चित्-चनयोः चादिगणे विद्यमानत्वात् निपातसंज्ञा चादयोसत्त्वे  (१।४.५७) इति सूत्रेण |

- निपातसंज्ञकानां स्वरादिनिपातमव्ययम् (१.१.३७) इति सूत्रेण अव्ययसंज्ञा |

- चित्-चन इत्यनयोः अव्यययोः असाकल्य-विस्मय-उपमान-असम्मतिषु अर्थेषु प्रयोगः भवति |

- असाकल्यार्थे प्रायः किम्-वृत्तात् परः प्रयोगः | नाम किम्, कः, का इत्यादीनां प्रश्नवाचकेभ्यः परः आयाति चित् वा चन इति शब्दः | असाकल्यार्थे प्रयोगेन अनिश्चितता सूचिता |

- कश्चन, काचन, किञ्चन, कुत्रचन, कदाचन इत्यादीनि पदानि ज्ञेयानि  | उदाहरणानि - कश्चन बालकः अस्ति | किञ्चन गृहम् अस्ति | इत्यादीनि |

- कश्चित्, काचित्, किञ्चित्, कुत्रचित्, कदाचित् इत्यादीनि पदानि ज्ञेयानि | उदाहरणानि - कश्चित्  बालकः अस्ति | किञ्चित् गृहम् अस्ति | इत्यादीनि |

- समग्रेण अनेन अनयोरव्यययोः असाकल्यार्थे किम्-वृत्तात् परः प्रयोग इति अवगम्यते |

- अष्टाध्यायिनम् अतिरिच्य इतरेषु संस्कृतभाषाव्याकरणेषु प्रत्ययत्वेन अयं विहित इति अव्ययकोषकारः | कानि तानि व्याकरणानीति तु शोधनेनैव ज्ञायते |


अन्येषु अर्थेषु चित्-चनयोः प्रयोगस्य उदाहरणानि –

- विस्मये - "याचिता ये न कुप्यन्ति पुरुषाः केचनैव ते |" अर्थात् याचनानन्तरं येषां क्रोधः न जायते ते कीदृशाः जनाः इति विस्मयः |

- उपमायाम् - "अग्निश्चन भाति, अग्निश्चित् भाति |" अर्थात् अग्निरिव भातीत्यर्थः |

- असम्मतौ - "कुल्माषांश्चनाहर बुसांश्चनाहर |" कुल्माषः बुसः च धान्यविशेषौ | कुल्माषः बहुवचनस्य द्वितीयाविभक्तौ कुल्मषान्‌ + चन → कुल्मषांश्चन | + आहर (आनय) → कुल्माषांश्चनाहर | तथैव बुसः → बुसांश्चनाहर | अत्र कुल्माषानयनं वा बुसानयनं वा न इच्छति, द्वयोरानयने अपि असम्मतिः, वयं वदामः खलु यत्किमपि वा आनय इति, तादृशमिदम्‌ | अर्थात् कुल्माषं बुसं वा आहर, द्वयोराहरणे असम्मतिरिति सन्दर्भः |