निद्रितवान्/निद्राणवान्

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/nidritavannidranavan
Jump to navigation Jump to search

विषयः—  निद्रितवान्/निद्राणवान्


प्रश्नः

सः निद्राणवान् इति प्रयोक्तव्यम् उत सः निद्रितवान् ?


उत्तरम्

निद्राणवान् इत्येव साधुः प्रयिगः भवति ।नि-उपसर्गपूर्वकः द्रा-धातोः तन्द्रा अर्थः । अस्मात् धातोः कर्तर्थे भूतकाले क्तवतु प्रत्यये योजिते निद्रा + क्तवतु इति |इत्संज्ञानां लोपानन्तरं निद्रा + तवत् | द्रा-धातुः अनिट् | तस्य अनिट्त्वात् इडागमो न भवति इत्यनेन निद्रा + तवत् इत्येव भवति |द्रा-धातोः अन्ते आकाराः अतः अस्य धातोः आकारान्तत्वम्  | द्रा-धातोः आदौ संयोगश्च अतः अस्य संयोगादित्वम् |हलोsनन्तराः संयोगः इत्यनेन सूत्रेण संयोगः नाम द्वयोः व्यञ्जनयोः साक्षात्‌ मेलनम् | मध्ये स्वरः न भवति | यथा द् + र् + आ |द्रा-धातुः यणवान् च | यण् अर्थात् यण् प्रत्याहारः | य व र ल इति वर्णाः तस्मिन् अन्तर्भूताः | द्रा-धातौ यण् प्रत्याहारस्य एकः सदस्यः रकारः अन्तर्भूतः |अतः द्रा-धातोः यणवत्त्वम् च |द्रा-धातोः आकारान्तत्वात् संयोगादित्वात् यणवत्त्वाच्च संयोगादेर्धातोर्यण्वतः इति सूत्रेण निष्ठातस्य नः | नाम क्तवतुप्रत्यये विद्यमानस्य तकारस्य स्थाने नकारादेशः|क्तक्तवतू निष्ठा इति सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा | निष्ठाप्रत्ययस्य यः तकारः तस्य तकारस्य स्थाने नकारः संयोगादेर्धातोर्यण्वतः सूत्रेण |अस्मात् सूत्रात् निद्रा + नवत् इति भवति | निद्रा + तवत् -> निद्रा + नवत् |


रषाभ्यां नो णः समानपदे इति सूत्रेण नस्य णत्वे कृते निद्रा + णवत् इति भवति | निद्रा + नवत् -> निद्रा + णवत् |तदा निद्राणवत् इति क्तवतुप्रत्ययान्तं प्रातिपदिकं सिद्धम् | अस्य पुंलिङ्गे प्रथपुरुषैकवचने निद्राणवान् इति रूपम् ।निद्रितवान् इति प्रयोगः व्याकरणदिशा असाधुः | तथैव निद्रितः अपि असाधुः प्रयोगः | निद्राणवान्, निद्राणः इत्येव साधू भवतः|


सोपानानि:

निद्रा + तवत्  --->  (संयोगादेर्धातोर्यण्वतः)निद्रा + नवत्  --->  (रषाभ्यां नो णः समानपदे)निद्रा + णवत्  --->  निद्राणवत्