निर्माय/निर्मीय
12---vyAvahArikii-shikShikA/nirmayanirmiya
विषयः— निर्माय/निर्मीय
प्रश्नः
"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?
उत्तरम्
"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |
- निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |
- लकारपकारयोः इत्संज्ञायां लोपे च कृते निर् + मा + य |
- "घुमास्थागापाजहातिसां हलि" इति सूत्रेण ईत्वं भवति स्म -> निर् + मी + य |
- किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य इत्येव तिष्ठति |
अतः निर्माय इत्येव साधुः न तु निर्मीय।
उदा--
तथेति गिरिशादिष्टो मयः पर-पुरं-जयः
पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम्