परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 4:
<big>कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां '''ज्ञोऽविदर्थस्य करणे''' ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य '''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे यः षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | षष्ठी विभक्तिः तु '''षष्ठी शेषे''' ( २.३.५०) इत्यनेनैव सूत्रेण सम्भवति तर्हि किमर्थं पाणिनिना पुनः एतानि अष्टसूत्राणि कृत्वा षष्ठी उच्यते इति चेत् समासनिषेधार्थमेव |</big>
 
 
<big>यद्यपि शेषत्वेन विवक्षिते</big> '''<big>षष्ठी शेषे</big>''' <big>( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति | यैः सूत्रैः प्रतिपदविधाना षष्ठी जायते तेषां विवरणम् अग्रे दीयते —</big>
 
 
<big>'''१) ज्ञोऽविदर्थस्य करणे''' (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''ज्ञः अविदर्थस्य करणे शेषे षष्ठी''' '''|'''</big>
Line 27 ⟶ 25:
<big>यथा - एधोदकस्य उपस्करणम् | अर्थात् इन्धनं जलस्य शोधकं ( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + दकम् = एधोदकम् ( fuel and water ) इति शब्दः निष्पन्नः भवति |</big>
 
 
<big>द्वितीयः मार्गः अस्ति - एधः इति शब्दः अकारान्तः पुंलिङ्गे अस्ति, fuel, इन्धनम् इत्येव अर्थः | उदकं तु जलम् इति एव अर्थः अस्ति | एधश्च उदकं चेति द्वन्द्वसमासः | एध + उदकम् = एधोदकम् |</big>
 
 
 
Line 40 ⟶ 36:
 
<big>यथा - रोगस्य चौरस्य रुजा | रोगकर्तृकं चौरसंबन्धपीडा इत्यर्थः | रोगस्य द्वारा चौरस्य पीडा भवति इत्यर्थः | रुजा इत्यस्य अर्थः पीडा इति | रुजा इति शब्दः रुज् इति धातुतः निष्पन्नः अस्ति | रुजा इति शब्दः भावार्थे विहितः इत्यतः कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः, अतः रुजा इति शब्दे यः रुज् इति धातुः अस्ति सः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः | रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः भावप्रत्ययान्तः अस्ति | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति |</big>
 
 
<big>रुजा इति भावार्थे अस्ति इत्यतः कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये कर्मणः शेषत्वेन विवक्षिते षष्ठी जायते '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | चौरस्य रोगस्य रुजा इति वाक्ये चौरस्य इति शब्दे या षष्ठी सा प्रतिपदविधाना षष्ठी इत्यतः तस्य समासः न जायते |</big>
 
 
<big>भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः अनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक-कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
 
<big>'''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः, सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | ज्वरः, सन्तापः इति द्वौ शब्दौ भावार्थे विहितौ इत्यतः तयोः कर्म, कर्ता च अनुक्तः भवति | चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौर-शब्दस्य षष्ठीविभक्तिः जायते '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण | '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण एव अज्वरेः इति उक्त्वात् ज्वरशब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्धयते | '''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकेन स्पष्टीक्रियते यत् न केवलं ज्वर् शब्दः अपि तु सन्तापः इत्यस्य अपि ग्रहणं स्यात् प्रकृतसूत्रे | अतः सन्तापः इति शब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्ध्यते अनेन वार्तिकेन | अतः चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु चौरस्य इति पदे कर्मकारकस्य अविवक्षायां षष्ठी जाता '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण इति कृत्वा समासः अपि जायते | अनेन चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
 
<big>यदि चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु कर्मणः विवक्षा अस्ति तर्हि '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण अनुक्तस्य कर्मणः षष्ठी जायते | कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>