02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi: Difference between revisions
No edit summary |
No edit summary |

(8 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE:1 - माहेश्वराणि सूत्राणि}} |
{{DISPLAYTITLE:1 - माहेश्वराणि सूत्राणि}} |

{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;" |

![[File:Aiga-left-arrow-bg.jpg|35x35px|left|link=02---asmAkaM-mUla-yantrANi]] |

!'''[[02---asmAkaM-mUla-yantrANi|अस्माकं मूल-यन्त्राणि]]''' |

![[File:Aiga-right-arrow-bg.jpg|35x35px|right|link=02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam]] |

{| class="wikitable mw-collapsible mw-collapsed" |
{| class="wikitable mw-collapsible mw-collapsed" |

!ध्वनिमुद्रणम् |
!ध्वनिमुद्रणम् |

Line 17: | Line 13: | ||
सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु | आयोजनस्य आधारः '''प्रत्याहारः''' | |
सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु | आयोजनस्य आधारः '''प्रत्याहारः''' | |

'''प्रत्याहारः''' इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्-संज्ञक-वर्णः स्थितः | अयम् इत्-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन् सङ्ग्रहे इत्-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम् | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति | |

यथा— |

यथा— |

Line 41: | Line 36: | ||
अल् = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि) |
अल् = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि) |

अवधेयम्— |

अवधेयम्— |

Line 57: | Line 54: | ||
उच्चारणार्थं सर्वेषु एव हल्-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्", “ब" इत्युक्ते "ब्", एवं च सर्वे हल्-वर्णाः तथा | |
उच्चारणार्थं सर्वेषु एव हल्-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्", “ब" इत्युक्ते "ब्", एवं च सर्वे हल्-वर्णाः तथा | |

Line 62: | Line 61: | ||
अस्माकं सर्वेषां कृते अस्मिन् विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत् महान् लाभः | किन्तु कथं साधनीयम् ? तदर्थम् अस्माकं चित्रा-भगिन्या निर्मितम् एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम् [http://quizlet.com/_qyy8z अत्रास्ति] | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम् ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते | |

Line 67: | Line 67: | ||
'''[https://static.miraheze.org/samskritavyakaranamwiki/b/b5/%E0%A5%A6%E0%A5%A7_-_%E0%A4%AE%E0%A4%BE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF%2C_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%83_%E0%A4%9A.pdf ०१ - माहेश्वराणि सूत्राणि, प्रत्याहाराः च]''' |

Swarup – June 2013 |

{| style="margin-left: auto; margin-right: 0px;" |

![[02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi#top|''उपरि गम्यताम्'']] |

Latest revision as of 00:00, 24 February 2022
ध्वनिमुद्रणम् |

mAheshvarANi-sUtrANi_2015-10-07 |
ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन् सारल्यम् अस्ति, अपि च सौन्दर्यम् | अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छन्तु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—
अ इ उण् | ऋ ऌक् | ए ओङ् | ऐ औच् | ह य व रट् | लण् | ञ म ङ ण नम् | झ भञ् | घ ढ धष् | ज ब ग ड दश् | ख फ छ ठ थ च ट तव् | क पय् | श ष सर् | हल् |
उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम् एकं सूत्रम् |
सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु | आयोजनस्य आधारः प्रत्याहारः |
प्रत्याहारः इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्-संज्ञक-वर्णः स्थितः | अयम् इत्-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन् सङ्ग्रहे इत्-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम् | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |
यथा—
अण् = अ, इ, उ
ऋक् = ऋ, ऌ
अक् = अ, इ, उ, ऋ, ऌ
एङ् = ए, ओ
एच् = ए, ओ, ऐ, औ
झष् = झ, भ, घ, ढ, ध
जश् = ज, ब, ग, ड, द
अच् = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)
हल् = सर्वाणि व्यञ्जनानि
अल् = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)
अवधेयम्—
१. स्वराः
अ, इ, उ, ऋ = एषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-इकारः, अनुनासिक-अनुदात्त-ह्रस्व-उकारः, अननुनासिक-अनुदात्त-ह्रस्व-ऋकारः; तदा पुनः अनुनासिक-स्वरित-ह्रस्व-अकारः, इत्यादीनि रूपाणि |
ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)
ए, ओ, ऐ, औ = एषु प्रत्येकम् द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)
२. व्यञ्जनानि
उच्चारणार्थं सर्वेषु एव हल्-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्", “ब" इत्युक्ते "ब्", एवं च सर्वे हल्-वर्णाः तथा |
अभ्यासः
अस्माकं सर्वेषां कृते अस्मिन् विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत् महान् लाभः | किन्तु कथं साधनीयम् ? तदर्थम् अस्माकं चित्रा-भगिन्या निर्मितम् एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम् अत्रास्ति | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम् ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते |
०१ - माहेश्वराणि सूत्राणि, प्रत्याहाराः च
Swarup – June 2013