02---asmAkaM-mUla-yantrANi/2a---nimittam: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi/2a---nimittam
Jump to navigation Jump to search
Content added Content deleted
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(content copied)
Line 1: Line 1:
'निमित्तम्‌' इति विषये कश्चन विचारः | अनेन पाणिनीयसूत्र-सन्दर्भे विभक्तीनाम्‌ अर्थः पुनः इतोऽपि स्पष्टः स्यात्‌ |
<please replace this with content from corresponding Google Sites page>


यदा वदामः यत्‌ सूत्रे किञ्चन पदं/कश्चन वर्णः/कश्चन प्रत्याहारः —


'''१)''' <u>सप्तमीविभक्तौ अस्ति</u> | तदा पूर्वकार्यम्‌ इति उच्यते | नाम यत्‌ पदं सप्तमीविभक्तौ, तत्‌ परम्‌ (अनन्तरम्‌) अस्ति अपि च तत्‌ कार्यस्य निमित्तम्‌ (कारणं); निमित्तस्य अभावे कार्यं न भविष्यति |


'''इको यणचि''' (६.१.७७) | अचि सप्तमीविभक्तौ | अच्‌-वर्णः परं, कार्यं पूर्वम्‌ | कश्चन अच्‌-वर्णः परं नास्ति चेत्‌, कार्यं न भविष्यति |


यदि + अपि → यद्यपि |


अत्र "अपि" इत्यस्य अकारः परं नास्ति चेत्‌, इकारस्य स्थाने यकारः भविष्यति किम्‌ ? नैव | अतः सः अकारः कार्यस्य निमित्तम्‌ | कार्यात्‌ परम्‌ अच्‌-वर्णः नास्ति चेत्‌, कार्यं (इ → य्‌) न भवति |


यदि | अत्र केवलं 'यदि' इति पदम्‌ अस्ति चेत्‌, इ → य्‌ इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे'यदि' यथावत्‌ तिष्ठति |


'''२)''' <u>पञ्चमीविभक्तौ अस्ति</u> | तदा परकार्यम्‌ इति उच्यते | नाम यत्‌ पदं पञ्चमीविभक्तौ, तत्‌ पूर्वम्‌ अस्ति; अपि च तत्‌ कार्यस्य निमित्तम्‌ (कारणं); निमित्तस्य अभावे कार्यं न भविष्यति |


'''रषाभ्यां नो णः समानपदे''' (८.४.१) | एकस्मिन्‌ पदे, पूर्वं रेफः अथवा षकारः अस्ति चेत्‌, अपि च तस्मिन्‌ एव पदे, परं नकारः अस्ति चेत्‌, तर्हि नकारस्य स्थाने णकारादेशः भवति | रः च षः च रषौ इतरेतर-द्वन्द्वसमासः, ताभ्यां रषाभ्याम्‌ | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम्‌ |


राम + इन → रामेन → '''रषाभ्यां नो णः समानपदे''' (८.४.१)* → रामेण


अत्र रामस्य रेफः पूर्वं नास्ति चेत्‌, नकारस्य स्थाने णकारादेशः भविष्यति किम्‌ ? नैव | अतः सः रेफः कार्यस्य निमित्तम्‌ | कार्यात्‌ पूर्वं रेफः षकारः च नास्ति चेत्‌, कार्यं (न्‌ → ण्‌) न भवति |


देव + इन → देवेन | अत्र देव-शब्दे रेफः नास्ति | अस्यां दशायां नकारस्य स्थाने णकारः भवति वा ? न भवति किल | निमित्तस्य अभावे 'देवेन' यथावत्‌ तिष्ठति |


<nowiki>*</nowiki>'''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन रेफ-नाकरयोः मध्ये स्वराः सन्ति चेदपि णत्वं भवति | अट्‌-प्रत्याहारे ये वर्णाः, कवर्गीयाः वर्णाः, पवर्गीयाः वर्णाः, 'आ' इति उपसर्गः, अनुस्वारः— रेफ-नाकरयोः मध्ये एते सन्ति चेदपि णत्वं भवति |


'''३)''' <u>तृतीयाविभक्तौ अस्ति</u> | तदा योगः इति उच्यते | योगः इत्युक्ते सम्बन्धः | 'सम्बन्धः' इत्यनेन निमित्तं पूर्वम्‌ अपि भवितुम्‌ अर्हति, परम्‌ अपि भवितुम्‌ अर्हति | अतः सप्तमी, पञ्चमी इत्यनयोः मेलनम्‌ इति चिन्त्यताम्‌ | नाम पूर्वकार्यम्‌ अपि अर्हति, परकार्यम्‌ अपि अर्हति |


अत्र यत्‌ पदं तृतीयाविभक्तौ, तत्‌ कार्यस्य निमित्तम्‌ इत्युक्तौ कार्यस्य कारणं; तस्य अभावे कार्यं न भविष्यति |


'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः | योगः ('सम्बन्धः') इत्यनेन निमित्तं (शकारः चवर्गः च) पूर्वम्‌ अपि भवितुम्‌ अर्हति, परम्‌ अपि भवितुम्‌ अर्हति | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्‌ |


अन्यत्‌ + च → अन्य + त्‌-स्थाने च्‌ + च → अन्यच्च | अत्र निमित्तं (चकारः) परं, कार्यं (त्‌-स्थाने च्‌) पूर्वम्‌ |


अन्यत्‌ | अत्र केवलम्‌ 'अन्यत्‌' इति पदम्‌ अस्ति चेत्‌, त्‌ → च्‌ इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे 'अन्यत्‌' यथावत्‌ तिष्ठति |

यज्‌ + नः → यज्‌ + न्‌-स्थाने ञ्‌ + अः → यज्ञः | अत्र निमित्तं (जकारः) पूर्वं, कार्यं (न्‌-स्थाने ञ्‌) परम्‌ |


नः | अत्र केवलं 'नः' इति पदम्‌ अस्ति चेत्‌, न्‌ → ञ्‌ इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे 'नः' यथावत्‌ तिष्ठति |


निमित्तं सप्तमीविभक्तौ चेत्‌ पूर्वकार्यं; निमित्तं पञ्चमीविभक्तौ चेत्‌ परकार्यं; निमित्तं तृतीयाविभक्तौ चेत्‌ कार्यं पूर्वं परं च | त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः | नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी |

Swarup – October 2015


<nowiki>---------------------------------</nowiki>

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]

To join a class, or for any questions feel free to contact Swarup [[MailTo::dinbandhu@sprynet.com|[<dinbandhu@sprynet.com>]]].

Revision as of 04:06, 8 May 2021

'निमित्तम्‌' इति विषये कश्चन विचारः | अनेन पाणिनीयसूत्र-सन्दर्भे विभक्तीनाम्‌ अर्थः पुनः इतोऽपि स्पष्टः स्यात्‌ |


यदा वदामः यत्‌ सूत्रे किञ्चन पदं/कश्चन वर्णः/कश्चन प्रत्याहारः —


१) सप्तमीविभक्तौ अस्ति | तदा पूर्वकार्यम्‌ इति उच्यते | नाम यत्‌ पदं सप्तमीविभक्तौ, तत्‌ परम्‌ (अनन्तरम्‌) अस्ति अपि च तत्‌ कार्यस्य निमित्तम्‌ (कारणं); निमित्तस्य अभावे कार्यं न भविष्यति |


इको यणचि (६.१.७७) | अचि सप्तमीविभक्तौ | अच्‌-वर्णः परं, कार्यं पूर्वम्‌ | कश्चन अच्‌-वर्णः परं नास्ति चेत्‌, कार्यं न भविष्यति |


यदि + अपि → यद्यपि |


अत्र "अपि" इत्यस्य अकारः परं नास्ति चेत्‌, इकारस्य स्थाने यकारः भविष्यति किम्‌ ? नैव | अतः सः अकारः कार्यस्य निमित्तम्‌ | कार्यात्‌ परम्‌ अच्‌-वर्णः नास्ति चेत्‌, कार्यं (इ → य्‌) न भवति |


यदि | अत्र केवलं 'यदि' इति पदम्‌ अस्ति चेत्‌, इ → य्‌ इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे'यदि' यथावत्‌ तिष्ठति |


२) पञ्चमीविभक्तौ अस्ति | तदा परकार्यम्‌ इति उच्यते | नाम यत्‌ पदं पञ्चमीविभक्तौ, तत्‌ पूर्वम्‌ अस्ति; अपि च तत्‌ कार्यस्य निमित्तम्‌ (कारणं); निमित्तस्य अभावे कार्यं न भविष्यति |


रषाभ्यां नो णः समानपदे (८.४.१) | एकस्मिन्‌ पदे, पूर्वं रेफः अथवा षकारः अस्ति चेत्‌, अपि च तस्मिन्‌ एव पदे, परं नकारः अस्ति चेत्‌, तर्हि नकारस्य स्थाने णकारादेशः भवति | रः च षः च रषौ इतरेतर-द्वन्द्वसमासः, ताभ्यां रषाभ्याम्‌ | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम्‌ |


राम + इन → रामेन → रषाभ्यां नो णः समानपदे (८.४.१)* → रामेण


अत्र रामस्य रेफः पूर्वं नास्ति चेत्‌, नकारस्य स्थाने णकारादेशः भविष्यति किम्‌ ? नैव | अतः सः रेफः कार्यस्य निमित्तम्‌ | कार्यात्‌ पूर्वं रेफः षकारः च नास्ति चेत्‌, कार्यं (न्‌ → ण्‌) न भवति |


देव + इन → देवेन | अत्र देव-शब्दे रेफः नास्ति | अस्यां दशायां नकारस्य स्थाने णकारः भवति वा ? न भवति किल | निमित्तस्य अभावे 'देवेन' यथावत्‌ तिष्ठति |


*अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) इत्यनेन रेफ-नाकरयोः मध्ये स्वराः सन्ति चेदपि णत्वं भवति | अट्‌-प्रत्याहारे ये वर्णाः, कवर्गीयाः वर्णाः, पवर्गीयाः वर्णाः, 'आ' इति उपसर्गः, अनुस्वारः— रेफ-नाकरयोः मध्ये एते सन्ति चेदपि णत्वं भवति |


३) तृतीयाविभक्तौ अस्ति | तदा योगः इति उच्यते | योगः इत्युक्ते सम्बन्धः | 'सम्बन्धः' इत्यनेन निमित्तं पूर्वम्‌ अपि भवितुम्‌ अर्हति, परम्‌ अपि भवितुम्‌ अर्हति | अतः सप्तमी, पञ्चमी इत्यनयोः मेलनम्‌ इति चिन्त्यताम्‌ | नाम पूर्वकार्यम्‌ अपि अर्हति, परकार्यम्‌ अपि अर्हति |


अत्र यत्‌ पदं तृतीयाविभक्तौ, तत्‌ कार्यस्य निमित्तम्‌ इत्युक्तौ कार्यस्य कारणं; तस्य अभावे कार्यं न भविष्यति |


स्तोः श्चुना श्चुः (८.४.४०) = सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः | योगः ('सम्बन्धः') इत्यनेन निमित्तं (शकारः चवर्गः च) पूर्वम्‌ अपि भवितुम्‌ अर्हति, परम्‌ अपि भवितुम्‌ अर्हति | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्‌ |


अन्यत्‌ + च → अन्य + त्‌-स्थाने च्‌ + च → अन्यच्च | अत्र निमित्तं (चकारः) परं, कार्यं (त्‌-स्थाने च्‌) पूर्वम्‌ |


अन्यत्‌ | अत्र केवलम्‌ 'अन्यत्‌' इति पदम्‌ अस्ति चेत्‌, त्‌ → च्‌ इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे 'अन्यत्‌' यथावत्‌ तिष्ठति |

यज्‌ + नः → यज्‌ + न्‌-स्थाने ञ्‌ + अः → यज्ञः | अत्र निमित्तं (जकारः) पूर्वं, कार्यं (न्‌-स्थाने ञ्‌) परम्‌ |


नः | अत्र केवलं 'नः' इति पदम्‌ अस्ति चेत्‌, न्‌ → ञ्‌ इति कार्यं भवति वा ? न भवति किल | निमित्तस्य अभावे 'नः' यथावत्‌ तिष्ठति |


निमित्तं सप्तमीविभक्तौ चेत्‌ पूर्वकार्यं; निमित्तं पञ्चमीविभक्तौ चेत्‌ परकार्यं; निमित्तं तृतीयाविभक्तौ चेत्‌ कार्यं पूर्वं परं च | त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः | नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी |

Swarup – October 2015


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [[<dinbandhu@sprynet.com>]].