02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

From Samskrita Vyakaranam
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary

(12 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:1 - गुणः, सूत्रसहिता दृष्टिः}}
{| class="wikitable"
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
|'''ध्वनिमुद्रणानि'''

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/09_guNaH---sUtra-sahita-dRuShTiH_2015-11-11.mp3 guNaH---sUtra-sahita-dRuShTiH_2015-11-11]

Line 11: Line 12:

एतावता अस्माभिः दृष्टं यत्‌ भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति | केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम्‌ इत्यपि अस्माभिः दृष्टम्‌ | कानिचन उदाहरणानि अपि निरूपितानि आसन्‌ | इदानीं पुनः गुणविषये विचारयाम-- अस्मिन्‌ पर्याये सूत्रसहिता चर्चा करिष्यते |

पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्‌ | तत्र संस्कृतभाषायाः संपूर्णं मानचित्रं लभ्यते | एकैकं पदं कथं निर्मितम्‌ इति अनेन ग्रन्थेन ज्ञायते | इदं मानचित्रं सूत्ररूपेण विरचितम्‌ | तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम्‌ इच्छति, पाणिनीय-सूत्राधारेण प्रदर्शनीयं भवति | व्याकरणलोके सूत्रं प्रमाणम्‌ |

अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्‌ | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |

पूर्वम्‌ अस्माभिः दृष्टं यत्‌ भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |

अधुना प्रथमं नियमम्‌ अवलोकयाम, भू-धातोः माध्यमेन—

"भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |”

Line 25: Line 30:
यथा भू → भो, जि → जे, सृ → सर्‍
यथा भू → भो, जि → जे, सृ → सर्‍

अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?

इति चेत्‌, “भू + शप्‌ + ति → भवति" इति उदाहरणं पश्याम |

'''गुणस्य चिन्तनक्रमः'''

'''गुणस्य चिन्तनक्रमः'''

आहत्य प्रक्रिया एतादृशी—
आहत्य प्रक्रिया एतादृशी—
Line 37: Line 43:
भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌ → '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययस्य सार्वधातुक-संज्ञा → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति → वर्णमेलने → भवति

अधुना सोपानेन परिशीलयिष्यामः—
अधुना सोपानेन परिशीलयिष्यामः—

१. प्रथमतया शप्‌-प्रत्ययः अवगन्तव्यः | शप्‌-प्रत्यये शकारः न तिष्ठति, अपि तु अपगच्छति किल | किमर्थम्‌ इति जानीमः | '''लशक्वतद्धिते''' (१.३.८) इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्‌-संज्ञा, तदा '''तस्य लोपः''' (१.३.९) इत्यनेन इत्‌-संज्ञकस्य शकारस्य लोपः | इदानीम्‌ एतत्‌ अवगच्छतु— यस्मिन्‌ प्रत्यये शकारः इत्‌-संज्ञकः वर्णः अस्ति, सः प्रत्ययः 'शित्' इति उच्यते | शित्‌ = यस्मिन्‌ शकारः इत्‌, सः प्रत्ययः "शित्" | शकारः इत्‌ यस्य सः, शित्‌ इति बहुव्रीहिसमासः | शप्‌ विकरण-प्रत्यये शकारस्य इत्‌-संज्ञा अस्ति, अतः शप्‌-प्रत्ययः "शित्" इति उच्यते |

२. '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३)

'''तिङ्‌शित्‌ सार्वधातुकम्‌''' इति संज्ञा-सूत्रम्‌ | अनेन यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | सार्वधातुकम्‌ एका संज्ञा, एकं नाम तावत्‌ एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |

तर्हि, शप्‌ प्रत्ययः शित्‌ इति उपरि उक्तम्‌ | यः शित् सः‌ सार्वधातुकः इति अत्र उक्तम्‌‌, अतः शप्‌-प्रत्ययः सार्वधातुक-संज्ञां प्राप्नोति |

सारांशः = अनेन सूत्रेण शप्‌-प्रत्ययः सार्वधातुकः इति अवगच्छामः |

Line 58: Line 66:
'''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) = धातोः विहितः तिङ्‌-शित्‌ प्रत्ययः सार्वधातुकसंज्ञको भवति | श्‌ इत्‌ यस्य सः शित्‌, बहुव्रीहिः | तिङ्‌ च शित्‌ च तयोः समाहारद्वन्द्वः तिङ्‌शित्‌ | तिङ्‌शित्‌ प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' |

३. शप्‌ प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |

शकारस्य इत्‌-संज्ञा, लोपश्च इत्युक्तम्‌ | पकारस्य '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन इत्‌-संज्ञकस्य पकारस्य लोपः |

भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌

''अत्र 'अ' तु शप्‌ आसीत्‌; अधुना केवलम्‌ "अ" दृश्यते; तथापि शकारपकारयोः प्रभावः अस्ति एव | अकारः शपः प्रतिनिधिः |''

Line 76: Line 87:
५. भू + अ + ति
५. भू + अ + ति

यत्र इत्‌-संज्ञां कृत्वा लोपः साध्यते, तत्र यस्य लोपः जातः, सः इत्‌-संज्ञावान्‌ | इत्‌-संज्ञावान्‌ इति कारणेन तस्य प्रभावः तिष्ठति | कुत्र तिष्ठति ? बहुव्रीहिसमासेन यस्य इत्‌-संज्ञकवर्णः, तस्मिन्‌ प्रभावः | यथा शप्‌-प्रत्यये शकारपकारयोः इत्‌-संज्ञां कृत्वा लोपः | इत्‌-संज्ञावान्‌ शकारः यस्य सः शित्‌ | शप्‌-प्रत्ययस्य इत्‌-संज्ञावान्‌ शकारः, अतः शप्‌-प्रत्ययः शित्‌ | शप्‌ शित्‌ अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययः सार्वधातुक-संज्ञकः | एतस्मात् कारणात्‌ नूतन-सूत्रस्य कार्यं भवति—

'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) |

'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) |

अस्य सूत्रस्य अर्थः एवम्‌— इगन्त-धातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत्‌, तर्हि इगन्तस्य अङ्गस्य इक्‌-वर्णस्य गुणः भवति |

Line 98: Line 110:
६. परिभाषासूत्राणि
६. परिभाषासूत्राणि

पाणिनिः सूत्राणां लघुत्वम्‌ इच्छति | तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारक-सन्देशः अपेक्ष्यते, तस्य वारं वारम्‌ आवृत्तेः स्थाने परिभाषासूत्रम्‌ पाणिनिना विरच्यते | इमानि सूत्राणि कस्यचित्‌ सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति |

यथा '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि |

'''इको गुणवृद्धी''' (१.१.३) इति सूत्रेण ''''इ‌क्‌'''<nowiki/>' स्थानी भवति यत्र स्थानी नोक्तम्‌ |

Line 106: Line 121:

'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तं, विधिः प्रथमान्तं, तदन्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात्‌ '''स्वम्‌''', '''रूपम्‌''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्‌— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च) |

विधिः इत्युक्ते कार्यम्‌ | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रे विधिः अस्ति गुणकार्यं; गुणः विधीयते | कस्य गुणः ? इक्‌-वर्णस्य | तर्हि '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रे अत्र 'येन' इत्युके इक्‌-वर्णेन | इक्‌-वर्णेन गुणकार्यं विधीयते | येन इक्‌-वर्णेन गुणकार्यं विधीयते, तदन्तस्य (इगन्तस्य) शब्दस्य अपि गुणकार्यं विधीयते |

'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात्‌ '''षष्ठी''', '''स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) |

६. भो + अ + ति
६. भो + अ + ति

सन्धिप्रकरणे एकं सूत्रम्‌ अस्ति— '''एचोऽयवायावः''' (६.१.७७) | यान्तवान्तसन्धिः इति लोके उच्यते | अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चे‌त्‌, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्‌, तर्हि ओकारस्य स्थाने "अव्‌"-आदेशः भवति |

भो + अ + ति → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति |

Line 126: Line 144:

७. भ्‌ + अव्‌ + अ + ति
७. भ्‌ + अव्‌ + अ + ति

भ्‌ + अव्‌ + अ + ति → वर्णानां मेलने → "'''भवति'''" इति अस्ति |

Line 135: Line 154:

८. भ्वादिगणे यत्र यत्र इगन्तधातुः, तत्र तत्र एतादृशः क्रमः |

यथा जि जये इति धातुः |
यथा जि जये इति धातुः |

|जि + शप्‌ + ति
|जि + शप्‌ + ति
Line 160: Line 181:

अग्रे स्रु गतौ, क्षि क्षये, हृञ्‌ हरणे इत्येषां विषये चिन्त्यताम् |

Swarup – August 2012 (updated November 2015)

<nowiki>---------------------------------</nowiki>

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]

'''[https://static.miraheze.org/samskritavyakaranamwiki/f/f0/1_-_guNaH%2C_sUtrasahitA_dRuShTiH.pdf 1_-_guNaH,_sUtrasahitA_dRuShTiH.pdf]'''
To join a class, or for any questions feel free to contact Swarup [[[MailTo::dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]]].

Swarup – August 2012 (updated November 2015)
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjRjY2RiZmY1Yjg1MTQ2ZTI '''File: 1 - guNaH, sUtrasahitA dRuShTiH.pdf''']

Latest revision as of 00:37, 7 June 2021

ध्वनिमुद्रणानि
१) guNaH---sUtra-sahita-dRuShTiH_2015-11-11
२) guNaH---sUtra-sahita-dRuShTiH--2_sArvadhAtukArdhadhAtukayoH_2015-11-18
३) ३) guNaH---dRuShTiH--3_sArvadhAtukArdhadhAtukayoH_+_yena-vidhistadantasya_+_alontyasya_+_ecoyavAyAvaH_2015-11-25

एतावता अस्माभिः दृष्टं यत्‌ भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति | केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम्‌ इत्यपि अस्माभिः दृष्टम्‌ | कानिचन उदाहरणानि अपि निरूपितानि आसन्‌ | इदानीं पुनः गुणविषये विचारयाम-- अस्मिन्‌ पर्याये सूत्रसहिता चर्चा करिष्यते |

पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्‌ | तत्र संस्कृतभाषायाः संपूर्णं मानचित्रं लभ्यते | एकैकं पदं कथं निर्मितम्‌ इति अनेन ग्रन्थेन ज्ञायते | इदं मानचित्रं सूत्ररूपेण विरचितम्‌ | तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम्‌ इच्छति, पाणिनीय-सूत्राधारेण प्रदर्शनीयं भवति | व्याकरणलोके सूत्रं प्रमाणम्‌ |

अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्‌ | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |

पूर्वम्‌ अस्माभिः दृष्टं यत्‌ भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |

अधुना प्रथमं नियमम्‌ अवलोकयाम, भू-धातोः माध्यमेन—

"भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |”

यथा भू → भो, जि → जे, सृ → सर्‍

अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?

इति चेत्‌, “भू + शप्‌ + ति → भवति" इति उदाहरणं पश्याम |

गुणस्य चिन्तनक्रमः

आहत्य प्रक्रिया एतादृशी—

भू + शप्‌ + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌ → तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन शप्‌-प्रत्ययस्य सार्वधातुक-संज्ञा → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति → वर्णमेलने → भवति

अधुना सोपानेन परिशीलयिष्यामः—

१. प्रथमतया शप्‌-प्रत्ययः अवगन्तव्यः | शप्‌-प्रत्यये शकारः न तिष्ठति, अपि तु अपगच्छति किल | किमर्थम्‌ इति जानीमः | लशक्वतद्धिते (१.३.८) इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्‌-संज्ञा, तदा तस्य लोपः (१.३.९) इत्यनेन इत्‌-संज्ञकस्य शकारस्य लोपः | इदानीम्‌ एतत्‌ अवगच्छतु— यस्मिन्‌ प्रत्यये शकारः इत्‌-संज्ञकः वर्णः अस्ति, सः प्रत्ययः 'शित्' इति उच्यते | शित्‌ = यस्मिन्‌ शकारः इत्‌, सः प्रत्ययः "शित्" | शकारः इत्‌ यस्य सः, शित्‌ इति बहुव्रीहिसमासः | शप्‌ विकरण-प्रत्यये शकारस्य इत्‌-संज्ञा अस्ति, अतः शप्‌-प्रत्ययः "शित्" इति उच्यते |

२. तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३)

तिङ्‌शित्‌ सार्वधातुकम्‌ इति संज्ञा-सूत्रम्‌ | अनेन यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | सार्वधातुकम्‌ एका संज्ञा, एकं नाम तावत्‌ एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |

तर्हि, शप्‌ प्रत्ययः शित्‌ इति उपरि उक्तम्‌ | यः शित् सः‌ सार्वधातुकः इति अत्र उक्तम्‌‌, अतः शप्‌-प्रत्ययः सार्वधातुक-संज्ञां प्राप्नोति |

सारांशः = अनेन सूत्रेण शप्‌-प्रत्ययः सार्वधातुकः इति अवगच्छामः |

पूर्णः सूत्रार्थः अत्र उक्तः—

तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) = धातोः विहितः तिङ्‌-शित्‌ प्रत्ययः सार्वधातुकसंज्ञको भवति | श्‌ इत्‌ यस्य सः शित्‌, बहुव्रीहिः | तिङ्‌ च शित्‌ च तयोः समाहारद्वन्द्वः तिङ्‌शित्‌ | तिङ्‌शित्‌ प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ |

३. शप्‌ प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |

शकारस्य इत्‌-संज्ञा, लोपश्च इत्युक्तम्‌ | पकारस्य हलन्त्यम्‌ (१.३.३) इति सूत्रेण इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन इत्‌-संज्ञकस्य पकारस्य लोपः |

भू + शप्‌ + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌

अत्र 'अ' तु शप्‌ आसीत्‌; अधुना केवलम्‌ "अ" दृश्यते; तथापि शकारपकारयोः प्रभावः अस्ति एव | अकारः शपः प्रतिनिधिः |

४. भू-धातुः अजन्तः (स्वरान्तः) धातुः, नाम अन्तिमवर्णः स्वरः इति | अच्‌-प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः | अतः अच्‌ इति कश्चन सङ्क्षेपः स्वराणां कृते | तथा हि अपरः प्रत्याहारः इक्‌ | इ, ई, उ, ऊ, ऋ, ॠ, ऌ, इत्येषां प्रत्याहारः इक्‌ इति उच्यते | भू-धातोः अन्तिमवर्णः ऊकारः, अतः भू-धातुः इगन्तः धातुः | इक्‌ अन्ते यस्य सः इगन्तः |

यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ वा, सः धातुः इगन्त-धातुः |

५. भू + अ + ति

यत्र इत्‌-संज्ञां कृत्वा लोपः साध्यते, तत्र यस्य लोपः जातः, सः इत्‌-संज्ञावान्‌ | इत्‌-संज्ञावान्‌ इति कारणेन तस्य प्रभावः तिष्ठति | कुत्र तिष्ठति ? बहुव्रीहिसमासेन यस्य इत्‌-संज्ञकवर्णः, तस्मिन्‌ प्रभावः | यथा शप्‌-प्रत्यये शकारपकारयोः इत्‌-संज्ञां कृत्वा लोपः | इत्‌-संज्ञावान्‌ शकारः यस्य सः शित्‌ | शप्‌-प्रत्ययस्य इत्‌-संज्ञावान्‌ शकारः, अतः शप्‌-प्रत्ययः शित्‌ | शप्‌ शित्‌ अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन शप्‌-प्रत्ययः सार्वधातुक-संज्ञकः | एतस्मात् कारणात्‌ नूतन-सूत्रस्य कार्यं भवति—

सार्वधातुकार्धधातुकयोः (७.३.८४) |

अस्य सूत्रस्य अर्थः एवम्‌— इगन्त-धातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत्‌, तर्हि इगन्तस्य अङ्गस्य इक्‌-वर्णस्य गुणः भवति |

पूर्णः सूत्रार्थः अत्र उक्तः—

सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इक्‌ स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |

अधुना भू + अ + ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम | प्रसक्तिः इत्युक्ते प्रसङ्गः | भू-धातुः इगन्तधातुः | 'अ' शपः प्रतिनिधिः; शप्‌ शित्‌ अस्ति अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण तस्य सार्वधातुक-संज्ञा |

इगन्तः भू-धातुः पूर्वम्‌ अस्ति; परम्‌ अस्ति सार्वधातुक-संज्ञक-'अ' प्रत्ययः | अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः | सूत्रस्य निकषाः पूरिताः | अधुना अनेन सूत्रेण किं कार्यं सिध्यति ? अङ्गस्य अन्तिमवर्णः यः इक्‌, तस्य गुणादेशः | भू-धातौ यः ऊकारः, तस्य गुणादेशः | अतः भू → भो | भो + अ + ति इति स्थितिः |

६. परिभाषासूत्राणि

पाणिनिः सूत्राणां लघुत्वम्‌ इच्छति | तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारक-सन्देशः अपेक्ष्यते, तस्य वारं वारम्‌ आवृत्तेः स्थाने परिभाषासूत्रम्‌ पाणिनिना विरच्यते | इमानि सूत्राणि कस्यचित्‌ सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति |

यथा सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि |

इको गुणवृद्धी (१.१.३) इति सूत्रेण 'इ‌क्‌' स्थानी भवति यत्र स्थानी नोक्तम्‌ |

येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तं, विधिः प्रथमान्तं, तदन्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात्‌ स्वम्‌, रूपम्‌ इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्‌— येन विधिः तदन्तस्य स्वस्य रूपस्य (च) |

विधिः इत्युक्ते कार्यम्‌ | सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रे विधिः अस्ति गुणकार्यं; गुणः विधीयते | कस्य गुणः ? इक्‌-वर्णस्य | तर्हि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रे अत्र 'येन' इत्युके इक्‌-वर्णेन | इक्‌-वर्णेन गुणकार्यं विधीयते | येन इक्‌-वर्णेन गुणकार्यं विधीयते, तदन्तस्य (इगन्तस्य) शब्दस्य अपि गुणकार्यं विधीयते |

अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात्‌ षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |

६. भो + अ + ति

सन्धिप्रकरणे एकं सूत्रम्‌ अस्ति— एचोऽयवायावः (६.१.७७) | यान्तवान्तसन्धिः इति लोके उच्यते | अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चे‌त्‌, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्‌, तर्हि ओकारस्य स्थाने "अव्‌"-आदेशः भवति |

भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति |

पूर्णः सूत्रार्थः अत्र उक्तः—

एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एचः अयवायावः अचि संहितायाम्‌ |

७. भ्‌ + अव्‌ + अ + ति

भ्‌ + अव्‌ + अ + ति → वर्णानां मेलने → "भवति" इति अस्ति |

आहत्य प्रक्रिया एतादृशी—

भू + शप्‌ + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌ → तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन शप्‌-प्रत्ययस्य सार्वधातुक-संज्ञा → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति → वर्णमेलने → भवति |

८. भ्वादिगणे यत्र यत्र इगन्तधातुः, तत्र तत्र एतादृशः क्रमः |

यथा जि जये इति धातुः |

जि + शप्‌ + ति लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)
जि + अ + ति तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४)
जे + अ + ति एचोऽयवायावः (६.१.७७) [एकारस्य स्थाने अय्‌-आदेशः]
ज्‌ + अय्‌ + अ + ति वर्णानां मेलने
जयति इति तिङन्तपदं निष्पन्नम्‌ |

अग्रे स्रु गतौ, क्षि क्षये, हृञ्‌ हरणे इत्येषां विषये चिन्त्यताम् |

1_-_guNaH,_sUtrasahitA_dRuShTiH.pdf