धातुगणाः - सूत्रसहित-दृष्टिः

From Samskrita Vyakaranam
Revision as of 13:07, 28 June 2021 by Sharmila (talk | contribs)

02A----dhAtugaNAH---sUtra-sahita-dRuShTiH
Jump to navigation Jump to search

एतावता धातुगणाः अधीताः, मूलयन्त्राणि अपि ज्ञातानि | तत्र पाणिनीयसूत्रं कथं पठनीयम्‌ इति बुद्धम्‌ | अतः सम्प्रति सूत्रसहितदृष्ट्या धातुगणेषु यत् गुणकार्यं प्रवर्तते, तत्‌ पुनः परिशीलनीयम्‌ | कुत्र-कुत्र गुणकार्यं भवति, कुत्र न भवति किमर्थं च, इत्येतत्‌ सर्वं चिन्तनीयम्‌ | अग्रिमेषु चतुर्षु पाठेषु सूत्राणां द्वारा गुणपरिचयः इतोऽपि गभीरः | क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌ —

१) गुणः, सूत्रसहिता दृष्टिः

२) उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः

३) तुदादिगणे न गुणः

४) केषु गणेषु गुणः सम्भवति धात्वङ्गे ?