03---dhaatuvijjaanam/1---dhaatuvijjaanam: Difference between revisions

From Samskrita Vyakaranam
03---dhaatuvijjaanam/1---dhaatuvijjaanam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(Font size)
Line 6: Line 6:

धातुभ्यः प्रत्ययाः यदा विधीयन्ते, तदा सर्वप्रथमम्‌ अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियेत | अनुबन्धः नाम यस्य इत्‌-संज्ञा-योग्यत्वं, सः | तर्हि इत्‌-संज्ञा-योग्यत्वं केषां भवति ? अस्य ज्ञानं भवति इत्‌-संज्ञा-विधायक-सूत्रैः | अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्‌-संज्ञा नाम्ना, येन सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं क्रियते | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ आरभ्य, अष्टमसूत्रपर्यन्तम्‌ ‌इत्‌-संज्ञा प्रकरणम्‌ इति | आहत्य तत्र षट्‌ इत्‌-संज्ञा-विधायकानि सूत्राणि सन्ति, एकं वार्तिकम्‌ अस्ति इत्‌-संज्ञा-विधायकम्‌, एकम्‌ इत्‌-संज्ञा-निषेधकं सूत्रम्‌ अस्ति, एकं लोप-विधायकं सूत्रम्‌ अस्ति | तत्रत्यैः षड्भिः सूत्रैः इत्‌-संज्ञा विधीयते; धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु — यत्र कुत्रापि इत्‌-संज्ञा भवति, तत्र एभिः एव सूत्रैः |

यदा वयम्‌ आपणतः शाकाधिकम्‌ आनयामः, तदा यथा आनयामः, तथैव तस्य उपयोगं न कुर्मः | कदलीफलम्‌ आनयामः चेत्‌ तस्य आवरणं निष्कासयामः, तदैव अन्तस्थं भागं खादामः | शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते | तथैव धातूनां, प्रत्ययानाम्‌, आगमानाम्‌, आदेशानां च विषये अस्ति |

प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अत्र, "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अनुबन्धानाम्‌ अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति | अस्मिन्‌ विषये एतावता अस्माभिः किञ्चित्‌ दृष्टम्‌; अग्रे गत्वा इतोऽपि बहुकिमपि द्रक्ष्यामः | अधुना तावत्‌ अवगम्यताम्‌— यथा वयं यदा आपणतः वस्तूनि आनयामः, तर्हि यथा तस्मिन्‌ एव रूपे तेषाम्‌ उपयोगं न कुर्मः, तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति | तेषां विकृतिं साधयित्वा उपयुञ्ज्महे |

एवमपि धेयं, लोके कतिचन पदार्थाः तादृशाः सन्ति, यथा आनयामः, तथैव प्रयोगं कुर्मः | धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू धातुः, भू सत्तायाम्‌— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा "अ" प्रत्ययः, तत्र अनुबन्धः नास्ति |

तर्हि अत्र मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किं अवशिष्यते इति प्रथमम्‌ अवगन्तव्यम्‌ | परं तस्मात्‌ धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन्‌ अपि अनुबन्धाः के, किं च अवशिष्यते | इति विज्ञानम्‌ अस्माकं भवेत्‌ | तदा एव प्रक्रिया अग्रे अनुवर्तते | वृत्तान्ते डुपचँष्‌ पाके इति मूलस्वरूपं, पचति इति क्रियापदम्‌ | तत्र सामान्यतया धातुः "पच्‌" इति वदामः; परन्तु मूलतया डुपचँष्‌ इति स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात्‌ उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्‌, वृत्‌ धातोः | त्रयाणाम्‌ अपि‌ अनुबन्धानाम्‌ इत्‌-संज्ञा भवति, परं लोपः भवति; पच्‌ इत्येव अवशिष्यते | ततः परम्‌ अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्‌ | तत्र तकारस्य इत्‌-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच्‌ + तव्य इति स्थितिः | एतादृश्यां स्थित्याम्‌ इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम्‌ इति रूपं निष्पद्येत |

अतः धातुपाठे अस्माकं प्रथमं कार्यं इत्‌ संज्ञा विधानं, निबन्ध-लोपः च | तदर्थम्‌ इत्‌-संज्ञा प्रकरणम्‌ अस्ति | तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित्‌ वक्तव्यम्‌ अस्ति विशेषः, तदा सर्वाणि सूत्राणि अवलोकयाम |

'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञां करोति इदं सूत्रम्‌ | उपदेशः नाम धातुः, प्रत्ययः, आदेशः, आगमो वा | अनुनासिकः अच्‌ नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | बृहद्धातुकुसुमाकरे पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते; प्राचीनकाले इदं विज्ञानं ज्ञायते स्म | अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन्‌ आधुनिकयुगे, स्वरविषये अस्माकं क्लेशः | तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेऽपि अनुनासिकचिह्नानि न दत्तानि | किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्‌ | नाम यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः '''उपदेशेऽजनुनासिक इत्''' इति सूर्त्रेण तस्य लोपः जातः | अद्य इदम्‌ इत्थम्‌ इति वक्तुं कश्चन अन्योपायः नास्ति; ऊहया एव बोध्यम्‌ | यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌ वर्णः अनुनासिकः अस्ति अतः '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण तस्य इत्‌-संज्ञा भवति; '''तस्य लोपः''' इत्यनेन लोपः; गम्‌ इति अवशिष्यते | ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | प्रक्रियायां लोके च गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ '''उपदेशेऽजनुनासिक इत्''' इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |

(एतदपि धेयं यत्‌, यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं "unit” कृत्वा‌ अपरेण सूत्रेण इत्‌-संज्ञा क्रियेत; यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकम्‌ unit अस्ति अतः अपरेण सूत्रेण इत्‌-संज्ञा साध्येत |)

तर्हि प्रथमं कार्यम्‌ इत्‌-संज्ञा इति | तदर्थं सप्त सूत्राणि सन्ति; तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते; त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु; अपि च एकं सूत्रं निषेधकं सूत्रम्|

'''इत्संज्ञाप्रकरणम्‌'''

चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—

१. '''उपदेशेऽजनुनासिक इत्''' (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्‌-वर्णः अनुनासिकः चेत्‌, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |

२. '''हलन्त्यम्‌''' (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |

३. '''न विभक्तौ तुस्माः''' (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | '''विभक्तिश्च''' (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य अपवादः | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |

४. '''आदिर्ञिटुडवः''' (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |

'''*इँर इत्संज्ञा वाच्या''' ['''नेटि''' (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |

त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—
'''इत्संज्ञाप्रकरणम्‌'''

१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—

२. '''चुटू''' (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी चुटू इतौ''' |

३. '''लशक्वतद्धिते''' (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते''' |

'''इत्‌-लोप-विधिः'''

एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |
२. '''हलन्त्यम्‌''' (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |

'''तस्य लोपः''' (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |

'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |
३. '''न विभक्तौ तुस्माः''' (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | '''विभक्तिश्च''' (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य अपवादः | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |

'''अनुवृत्तिः'''

एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |
४. '''आदिर्ञिटुडवः''' (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |

'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |
'''*इँर इत्संज्ञा वाच्या''' ['''नेटि''' (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |

'''हलन्त्यम्‌''' (१.३.३) इत्यस्मिन्‌ सूत्रे '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' अन्त्यं हल्‌ '''इत्‌'''” इति वाक्यम्‌ |

'''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | '''हलन्त्यम्‌''' इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' विभक्तौ '''अन्त्याः हलः''' तुस्माः न '''इतः'''" इति वाक्यम्‌ |
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—

'''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "'''उपदेशे धातोः''' आदयः ञिटुडवः '''इतः'''” इति वाक्यम्‌ |

१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |

'''षः प्रत्ययस्य''' (१.३.६) इत्यस्मिन्‌ '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः”, '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "'''उपदेशे''' प्रत्ययस्य '''आदिः''' षः '''इत्'''" इति वाक्यम्‌ |

'''चुटू''' (१.३.७) इत्यस्मिन्‌ '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "'''उपदेशे प्रत्ययस्य''' '''आदिः''' चुटू '''इतौ'''" इति वाक्यम्‌ |

'''लशक्वतद्धिते''' (१.३.८) इत्यस्मिन्‌ पुनः '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "'''उपदेशे''' '''प्रत्ययस्य''' '''आदिः''' ल, श, कु अतद्धिते '''इत्‌'''" इति वाक्यम्‌ |
२. '''चुटू''' (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी चुटू इतौ''' |

'''तस्य लोपः''' (१.३.९) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः अतः "तस्य '''इतः''' लोपः" इति वाक्यम्‌ |

'''अभ्यासः'''
३. '''लशक्वतद्धिते''' (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते''' |

धातवः—

डुपचँष्‌ = "डु" '''आदिर्ञिटुडवः''' इत्यनेन इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः '''उपदेशेऽजनुनासिक इत्''' इत्यनेन इत्‌-संज्ञा, '''तस्य लोपः''' इत्येनेन सर्वेषां लोपः → पच्‌ इति धातुः
'''इत्‌-लोप-विधिः'''

लिखँ = '''उपदेशेऽजनुनासिक इत्''' इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः
एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |

डुकृञ्‌ =

ञिमिदाँ =
'''तस्य लोपः''' (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |

गम्‌ऌँ =

दृशिँर्
'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |

जीवँ

'''अनुवृत्तिः'''
युजिँर्

प्रत्ययाः—
एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |

णिच्‌

षाकन्‌‌ =
'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |

जुस्‌ =

टा =
'''हलन्त्यम्‌''' (१.३.३) इत्यस्मिन्‌ सूत्रे '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' अन्त्यं हल्‌ '''इत्‌'''” इति वाक्यम्‌ |

शप्‌ =

ङस्‌ =
'''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | '''हलन्त्यम्‌''' इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' विभक्तौ '''अन्त्याः हलः''' तुस्माः न '''इतः'''" इति वाक्यम्‌ |

श्ना =

क्त =
'''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "'''उपदेशे धातोः''' आदयः ञिटुडवः '''इतः'''” इति वाक्यम्‌ |

ष्वुञ्‌ =

ण्वुल्‌ =
'''षः प्रत्ययस्य''' (१.३.६) इत्यस्मिन्‌ '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः”, '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "'''उपदेशे''' प्रत्ययस्य '''आदिः''' षः '''इत्'''" इति वाक्यम्‌ |

ख्युन्‌ =

श्यन्‌ =
'''चुटू''' (१.३.७) इत्यस्मिन्‌ '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "'''उपदेशे प्रत्ययस्य''' '''आदिः''' चुटू '''इतौ'''" इति वाक्यम्‌ |

ल्युट्‌ =

तृच्‌ =
'''लशक्वतद्धिते''' (१.३.८) इत्यस्मिन्‌ पुनः '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "'''उपदेशे''' '''प्रत्ययस्य''' '''आदिः''' ल, श, कु अतद्धिते '''इत्‌'''" इति वाक्यम्‌ |

ष्वुन्‌ =

क्तिन्‌ =
'''तस्य लोपः''' (१.३.९) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः अतः "तस्य '''इतः''' लोपः" इति वाक्यम्‌ |

तव्यत्‌ =

'''अभ्यासः'''
शानच्‌ =

अनीयर्‍ =
धातवः—

शतृँ =
डुपचँष्‌ = "डु" '''आदिर्ञिटुडवः''' इत्यनेन इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः '''उपदेशेऽजनुनासिक इत्''' इत्यनेन इत्‌-संज्ञा, '''तस्य लोपः''' इत्येनेन सर्वेषां लोपः → पच्‌ इति धातुः

णिनिँ =
लिखँ = '''उपदेशेऽजनुनासिक इत्''' इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः

क्लुकँन्‌ =
डुकृञ्‌ =

अवधेयम्‌— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते |
ञिमिदाँ =

गम्‌ऌँ =

दृशिँर्

जीवँ

युजिँर्

प्रत्ययाः—

णिच्‌

षाकन्‌‌ =

जुस्‌ =

टा =

शप्‌ =

ङस्‌ =

श्ना =

क्त =

ष्वुञ्‌ =

ण्वुल्‌ =

ख्युन्‌ =

श्यन्‌ =

ल्युट्‌ =

तृच्‌ =

ष्वुन्‌ =

क्तिन्‌ =

तव्यत्‌ =

शानच्‌ =

अनीयर्‍ =

शतृँ =

णिनिँ =

क्लुकँन्‌ =

अवधेयम्‌— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते |

Swarup – April 2013 (Updated Sept 2016)
Swarup – April 2013 (Updated Sept 2016)

= परिशिष्टम्‌ =
= परिशिष्टम्‌ =
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—

Revision as of 03:56, 10 May 2021

ध्वनिमुद्रणम्‌
dhAtuvigyAnam-1_2013-04-22

धातुभ्यः प्रत्ययाः यदा विधीयन्ते, तदा सर्वप्रथमम्‌ अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियेत | अनुबन्धः नाम यस्य इत्‌-संज्ञा-योग्यत्वं, सः | तर्हि इत्‌-संज्ञा-योग्यत्वं केषां भवति ? अस्य ज्ञानं भवति इत्‌-संज्ञा-विधायक-सूत्रैः | अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्‌-संज्ञा नाम्ना, येन सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं क्रियते | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ आरभ्य, अष्टमसूत्रपर्यन्तम्‌ ‌इत्‌-संज्ञा प्रकरणम्‌ इति | आहत्य तत्र षट्‌ इत्‌-संज्ञा-विधायकानि सूत्राणि सन्ति, एकं वार्तिकम्‌ अस्ति इत्‌-संज्ञा-विधायकम्‌, एकम्‌ इत्‌-संज्ञा-निषेधकं सूत्रम्‌ अस्ति, एकं लोप-विधायकं सूत्रम्‌ अस्ति | तत्रत्यैः षड्भिः सूत्रैः इत्‌-संज्ञा विधीयते; धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु — यत्र कुत्रापि इत्‌-संज्ञा भवति, तत्र एभिः एव सूत्रैः |

यदा वयम्‌ आपणतः शाकाधिकम्‌ आनयामः, तदा यथा आनयामः, तथैव तस्य उपयोगं न कुर्मः | कदलीफलम्‌ आनयामः चेत्‌ तस्य आवरणं निष्कासयामः, तदैव अन्तस्थं भागं खादामः | शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते | तथैव धातूनां, प्रत्ययानाम्‌, आगमानाम्‌, आदेशानां च विषये अस्ति |

प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अत्र, "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अनुबन्धानाम्‌ अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति | अस्मिन्‌ विषये एतावता अस्माभिः किञ्चित्‌ दृष्टम्‌; अग्रे गत्वा इतोऽपि बहुकिमपि द्रक्ष्यामः | अधुना तावत्‌ अवगम्यताम्‌— यथा वयं यदा आपणतः वस्तूनि आनयामः, तर्हि यथा तस्मिन्‌ एव रूपे तेषाम्‌ उपयोगं न कुर्मः, तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति | तेषां विकृतिं साधयित्वा उपयुञ्ज्महे |

एवमपि धेयं, लोके कतिचन पदार्थाः तादृशाः सन्ति, यथा आनयामः, तथैव प्रयोगं कुर्मः | धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू धातुः, भू सत्तायाम्‌— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा "अ" प्रत्ययः, तत्र अनुबन्धः नास्ति |

तर्हि अत्र मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किं अवशिष्यते इति प्रथमम्‌ अवगन्तव्यम्‌ | परं तस्मात्‌ धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन्‌ अपि अनुबन्धाः के, किं च अवशिष्यते | इति विज्ञानम्‌ अस्माकं भवेत्‌ | तदा एव प्रक्रिया अग्रे अनुवर्तते | वृत्तान्ते डुपचँष्‌ पाके इति मूलस्वरूपं, पचति इति क्रियापदम्‌ | तत्र सामान्यतया धातुः "पच्‌" इति वदामः; परन्तु मूलतया डुपचँष्‌ इति स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात्‌ उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्‌, वृत्‌ धातोः | त्रयाणाम्‌ अपि‌ अनुबन्धानाम्‌ इत्‌-संज्ञा भवति, परं लोपः भवति; पच्‌ इत्येव अवशिष्यते | ततः परम्‌ अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्‌ | तत्र तकारस्य इत्‌-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच्‌ + तव्य इति स्थितिः | एतादृश्यां स्थित्याम्‌ इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम्‌ इति रूपं निष्पद्येत |

अतः धातुपाठे अस्माकं प्रथमं कार्यं इत्‌ संज्ञा विधानं, निबन्ध-लोपः च | तदर्थम्‌ इत्‌-संज्ञा प्रकरणम्‌ अस्ति | तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित्‌ वक्तव्यम्‌ अस्ति विशेषः, तदा सर्वाणि सूत्राणि अवलोकयाम |

उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञां करोति इदं सूत्रम्‌ | उपदेशः नाम धातुः, प्रत्ययः, आदेशः, आगमो वा | अनुनासिकः अच्‌ नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | बृहद्धातुकुसुमाकरे पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते; प्राचीनकाले इदं विज्ञानं ज्ञायते स्म | अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन्‌ आधुनिकयुगे, स्वरविषये अस्माकं क्लेशः | तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेऽपि अनुनासिकचिह्नानि न दत्तानि | किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्‌ | नाम यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः | अद्य इदम्‌ इत्थम्‌ इति वक्तुं कश्चन अन्योपायः नास्ति; ऊहया एव बोध्यम्‌ | यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌ वर्णः अनुनासिकः अस्ति अतः उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्‌-संज्ञा भवति; तस्य लोपः इत्यनेन लोपः; गम्‌ इति अवशिष्यते | ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | प्रक्रियायां लोके च गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |

(एतदपि धेयं यत्‌, यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं "unit” कृत्वा‌ अपरेण सूत्रेण इत्‌-संज्ञा क्रियेत; यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकम्‌ unit अस्ति अतः अपरेण सूत्रेण इत्‌-संज्ञा साध्येत |)

तर्हि प्रथमं कार्यम्‌ इत्‌-संज्ञा इति | तदर्थं सप्त सूत्राणि सन्ति; तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते; त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु; अपि च एकं सूत्रं निषेधकं सूत्रम्|

इत्संज्ञाप्रकरणम्‌

चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—

१. उपदेशेऽजनुनासिक इत् (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्‌-वर्णः अनुनासिकः चेत्‌, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— उपदेशे अच्‌ अनुनासिकः इत् |

२. हलन्त्यम्‌ (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम्‌ हल्‌ इत् |

३. न विभक्तौ तुस्माः (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | विभक्तिश्च (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं हलन्त्यम्‌ इत्यस्य अपवादः | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः |

४. आदिर्ञिटुडवः (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः |

*इँर इत्संज्ञा वाच्या [नेटि (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |

त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—

१. षः प्रत्ययस्य (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् |

२. चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |

३. लशक्वतद्धिते (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते |

इत्‌-लोप-विधिः

एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |

तस्य लोपः (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |

उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः |

अनुवृत्तिः

एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |

उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |

हलन्त्यम्‌ (१.३.३) इत्यस्मिन्‌ सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे अन्त्यं हल्‌ इत्‌” इति वाक्यम्‌ |

न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | हलन्त्यम्‌ इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः" इति वाक्यम्‌ |

आदिर्ञिटुडवः (१.३.५) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "उपदेशे धातोः आदयः ञिटुडवः इतः” इति वाक्यम्‌ |

षः प्रत्ययस्य (१.३.६) इत्यस्मिन्‌ आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "उपदेशे प्रत्ययस्य आदिः षः इत्" इति वाक्यम्‌ |

चुटू (१.३.७) इत्यस्मिन्‌ षः प्रत्ययस्य इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "उपदेशे प्रत्ययस्य आदिः चुटू इतौ" इति वाक्यम्‌ |

लशक्वतद्धिते (१.३.८) इत्यस्मिन्‌ पुनः षः प्रत्ययस्य इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "उपदेशे प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्‌" इति वाक्यम्‌ |

तस्य लोपः (१.३.९) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः अतः "तस्य इतः लोपः" इति वाक्यम्‌ |

अभ्यासः

धातवः—

डुपचँष्‌ = "डु" आदिर्ञिटुडवः इत्यनेन इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्‌-संज्ञा, तस्य लोपः इत्येनेन सर्वेषां लोपः → पच्‌ इति धातुः

लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः

डुकृञ्‌ =

ञिमिदाँ =

गम्‌ऌँ =

दृशिँर्

जीवँ

युजिँर्

प्रत्ययाः—

णिच्‌

षाकन्‌‌ =

जुस्‌ =

टा =

शप्‌ =

ङस्‌ =

श्ना =

क्त =

ष्वुञ्‌ =

ण्वुल्‌ =

ख्युन्‌ =

श्यन्‌ =

ल्युट्‌ =

तृच्‌ =

ष्वुन्‌ =

क्तिन्‌ =

तव्यत्‌ =

शानच्‌ =

अनीयर्‍ =

शतृँ =

णिनिँ =

क्लुकँन्‌ =

अवधेयम्‌— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते |

Swarup – April 2013 (Updated Sept 2016)

परिशिष्टम्‌

अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<[[1]]>].