03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

From Samskrita Vyakaranam
03---dhaatuvijjaanam/2---dhaatuvijjaanam
Jump to navigation Jump to search
Content added Content deleted
(Content copied)
No edit summary
Line 1: Line 1:
{|
{| class="wikitable"
!ध्वनिमुद्रणानि
!<big>ध्वनिमुद्रणानि</big>
|-
|-
|'''2016'''
|'''<big>2016</big>'''
|-
|-
|1. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/17_it-sangyA-punassmaraNam__satva-natva-vidhiH_2016-03-16.mp3 it-sangyA-punassmaraNam_+_satva-natva-vidhiH_2016-03-16]
|<big>1. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/17_it-sangyA-punassmaraNam__satva-natva-vidhiH_2016-03-16.mp3 it-sangyA-punassmaraNam_+_satva-natva-vidhiH_2016-03-16]</big>
|-
|-
|2. https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/18_natvam--__natvam--__numagamah--_2016-03-23.mp3
|<big>2. https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/18_natvam--__natvam--__numagamah--_2016-03-23.mp3</big>
|-
|-
|3. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/19_numagamah--_______2016-03-30.mp3 numAgamaH--इदितो नुम्‌ धातोः_+_नश्चापदान्तस्य झलि_+_अनुस्वारस्य ययि परसवर्णः_+_तपरस्तत्कालस्य_2016-03-30]
|<big>3. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/19_numagamah--_______2016-03-30.mp3 numAgamaH--इदितो नुम्‌ धातोः_+_नश्चापदान्तस्य झलि_+_अनुस्वारस्य ययि परसवर्णः_+_तपरस्तत्कालस्य_2016-03-30]</big>
|-
|-
|4. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/20_taparakaranam__upadhadirghah--__laukika-dhatu-siddhi-abhyasah_2016-04-06.mp3 taparakaraNaM_+_upadhAdIrghaH--उपधायां च_+_laukika-dhAtu-siddhi-abhyAsaH_2016-04-06]
|<big>4. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/20_taparakaranam__upadhadirghah--__laukika-dhatu-siddhi-abhyasah_2016-04-06.mp3 taparakaraNaM_+_upadhAdIrghaH--उपधायां च_+_laukika-dhAtu-siddhi-abhyAsaH_2016-04-06]</big>
|-
|-
|'''2014'''
|'''<big>2014</big>'''
|-
|-
|5.  [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/11_Dhatu-vigyanam_2_satvam-natvam-numagamah_2014-11-11.mp3 dhAtu-vigyAnam_2_satvaM-natvaM-numAgamaH_2014-11-11]
|<big>5.  [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/11_Dhatu-vigyanam_2_satvam-natvam-numagamah_2014-11-11.mp3 dhAtu-vigyAnam_2_satvaM-natvaM-numAgamaH_2014-11-11]</big>
|-
|-
|6. [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/12_Dhatu-vigyanam_2_numagamah__upadhadirghah__abhyasah_2014-11-18.mp3 dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18]  
|<big>6. [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/12_Dhatu-vigyanam_2_numagamah__upadhadirghah__abhyasah_2014-11-18.mp3 dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18]  </big>
|}
|}



मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम्‌ | धातुविज्ञानम्‌ - १ इति पाठे अस्माभिः दृष्टं यत्‌ अनुबन्धानां निष्कासनम्‌ इति प्रथमं कार्यम्‌ | इत्‌-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम्‌ | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्‌ | सम्भवति चेत्‌, इदं कार्यं कुर्मः; नो चेत्‌ धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन्‌ करपत्रे अवलोकयाम |
<big>मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम्‌ | धातुविज्ञानम्‌ - १ इति पाठे अस्माभिः दृष्टं यत्‌ अनुबन्धानां निष्कासनम्‌ इति प्रथमं कार्यम्‌ | इत्‌-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम्‌ | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्‌ | सम्भवति चेत्‌, इदं कार्यं कुर्मः; नो चेत्‌ धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन्‌ करपत्रे अवलोकयाम |</big>


=== <big>१. सत्वम्‌</big> ===
=== <big>१. सत्वम्‌</big> ===


<big>'''धात्वादेः षः सः''' (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे |'''</big>


<big>वृत्तान्ते ष्वदँ आस्वादने इति धातुः | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च | ष्वदँ → ष्वद्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद्‌ → स्वद्‌ |</big>


<big>अन्यत्‌ उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम्‌ इत्‌-संज्ञकवर्णानां निष्कासनम्‌ | ष्ठा-धातौ कोऽपि इत्‌-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात्‌ द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |</big>
'''धात्वादेः षः सः''' (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे |'''


<big>अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |</big>


<big>तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्‌, ञ्‌, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात्‌ उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम्‌ |</big>


<big>ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा '''धात्वादेः षः सः''' इत्यनेन ष्णा → स्णा | '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम्‌ इति ल्युटि |</big>
वृत्तान्ते ष्वदँ आस्वादने इति धातुः | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च | ष्वदँ → ष्वद्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद्‌ → स्वद्‌ |




<big>अधुना एतत्‌ सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत्‌ ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात्‌ लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत्‌ अयं '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति तु न परिभाषा, न वा वार्त्तिकम्‌; अस्य प्रवादस्य एतस्मिन्‌ विषये सामर्थ्यम्‌ अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम्‌ अवलम्ब्य प्रतिपादनं भवति चेत्‌ वरं स्यात्‌ | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—</big>


अन्यत्‌ उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम्‌ इत्‌-संज्ञकवर्णानां निष्कासनम्‌ | ष्ठा-धातौ कोऽपि इत्‌-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात्‌ द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |


<big>ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |</big>


<big>प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत्‌ औपदेशिकधातुः एव अपेक्षते चेत्‌, ष्टुत्वस्य अवसरो भवति | '''धात्वादेः षः सः''' (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्‌, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |</big>

अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |



तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्‌, ञ्‌, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात्‌ उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम्‌ |



ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा '''धात्वादेः षः सः''' इत्यनेन ष्णा → स्णा | '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम्‌ इति ल्युटि |

अधुना एतत्‌ सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत्‌ ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात्‌ लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत्‌ अयं '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति तु न परिभाषा, न वा वार्त्तिकम्‌; अस्य प्रवादस्य एतस्मिन्‌ विषये सामर्थ्यम्‌ अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम्‌ अवलम्ब्य प्रतिपादनं भवति चेत्‌ वरं स्यात्‌ | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—

ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |



प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत्‌ औपदेशिकधातुः एव अपेक्षते चेत्‌, ष्टुत्वस्य अवसरो भवति | '''धात्वादेः षः सः''' (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्‌, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |


=== <big>२. नत्वम्‌</big> ===
=== <big>२. नत्वम्‌</big> ===
'''णो नः''' (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्‌, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः, '''धात्वादेः षः सः''' (६.१.६३) इत्यस्मात्‌ '''धात्वादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः''' '''णः नः''' '''उपदेशे''' |

णटँ नृत्तौ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णटँ → णट्‌‌ | '''णो नः''' (६.१.६४) इत्यनेन णट्‌ → नट्‌ इति लौकिकः धातुः | नटति लटि, नाटकः ण्वुलि, नटनम्‌ ल्युटि |

अस्य महत्त्वं किम्‌ इति चेत्‌, कार्यं कुत्रचित्‌ अस्मिन्‌ अवलम्ब्यते | यथा णत्व-विषये—



'''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) = उपसर्गस्थात्‌ निमित्तात्‌ परस्य णोपदेशस्य धातोः नस्य णः स्यात्‌ समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम्‌ (नमति), नश्‌ (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | तदा '''णो नः''' (६.१.६४) इत्यनेन, लोके नकारादयः भवन्ति | यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते— यथा परि + नी — तत्र यतोहि उपसर्गः पृथक्‌ पदम्‌ अस्ति, अतः '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति णत्वविधायकसूत्रेण णत्वं न स्यात्‌ | किन्तु '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इति सूत्रेण यत्र णोपदेश-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति |




<big>'''णो नः''' (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्‌, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः, '''धात्वादेः षः सः''' (६.१.६३) इत्यस्मात्‌ '''धात्वादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः''' '''णः नः''' '''उपदेशे''' |</big>


<big>णटँ नृत्तौ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णटँ → णट्‌‌ | '''णो नः''' (६.१.६४) इत्यनेन णट्‌ → नट्‌ इति लौकिकः धातुः | नटति लटि, नाटकः ण्वुलि, नटनम्‌ ल्युटि |</big>
यथा समासे—


<big>अस्य महत्त्वं किम्‌ इति चेत्‌, कार्यं कुत्रचित्‌ अस्मिन्‌ अवलम्ब्यते | यथा णत्व-विषये—<br /></big>
प्र + नी + ल्युट्‌ → प्र + नयनम्‌ → प्रणयनम्‌


<big>'''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) = उपसर्गस्थात्‌ निमित्तात्‌ परस्य णोपदेशस्य धातोः नस्य णः स्यात्‌ समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम्‌ (नमति), नश्‌ (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | तदा '''णो नः''' (६.१.६४) इत्यनेन, लोके नकारादयः भवन्ति | यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते— यथा परि + नी — तत्र यतोहि उपसर्गः पृथक्‌ पदम्‌ अस्ति, अतः '''रषाभ्यां नो णः समानपदे''' (८.४.१) इति णत्वविधायकसूत्रेण णत्वं न स्यात्‌ | किन्तु '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इति सूत्रेण यत्र णोपदेश-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति |<br /></big>
परि + नामः → परिणामः


<big>यथा समासे—</big>
परि + नी + ण्वुल्‌ → परिणायकः


<big>प्र + नी + ल्युट्‌ → प्र + नयनम्‌ → प्रणयनम्‌</big>
परि + नम्‌ + क्तिन्‌ → परिणतिः


परि + नह्‌ + क्तपरिणद्धम्‌
<big>परि + नामःपरिणामः</big>


परि + नम्‌ + घञ्‌परिणामः
<big>परि + नी + ण्वुल्‌परिणायकः</big>


<big>परि + नम्‌ + क्तिन्‌ → परिणतिः</big>


<big>परि + नह्‌ + क्त → परिणद्धम्‌</big>


<big>परि + नम्‌ + घञ्‌ → परिणामः<br /></big>
असमासे—


<big>असमासे—</big>
समासः सुबन्तानां भवति, न तु तिङन्तानाम्‌ | अतः यत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति |


<big>समासः सुबन्तानां भवति, न तु तिङन्तानाम्‌ | अतः यत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति |</big>
प्र + नदति → प्रणदति


<big>प्र + नदति → प्रणदति</big>
णदँ-धातुः → अनुबन्धलोपानन्तरं '''णो नः''' (६.१.६४) इत्यनेन णत्वविधानम्‌ → नद्‌ → नद्‌ + शप्‌ + ति → नदति → प्र + नदति → '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात्‌ निमित्तात्‌ णोपदेशस्य णत्वम्‌ → प्रणदति


<big>णदँ-धातुः → अनुबन्धलोपानन्तरं '''णो नः''' (६.१.६४) इत्यनेन णत्वविधानम्‌ → नद्‌ → नद्‌ + शप्‌ + ति → नदति → प्र + नदति → '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात्‌ निमित्तात्‌ णोपदेशस्य णत्वम्‌ → प्रणदति</big>
अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यदीनि रूपाणि |


वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्‌, णशँ, णहँ | एवम्‌ एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्‌, नाद्‌, नाथ्‌, नाध्‌, नन्द्‌, नक्क्‌, नॄ, नृत्‌ च | अतः प्रनर्दति, प्रनर्दितुम्‌, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, परन्तु णत्वं न भवति |


<big>अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यदीनि रूपाणि |</big>
धेयं यत्‌ '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति '''उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌''' |


''''अट्कुप्वाङ्‌नुम्व्यवाये अपि'''<nowiki/>' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ |


<big>वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्‌, णशँ, णहँ | एवम्‌ एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्‌, नाद्‌, नाथ्‌, नाध्‌, नन्द्‌, नक्क्‌, नॄ, नृत्‌ च | अतः प्रनर्दति, प्रनर्दितुम्‌, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, परन्तु णत्वं न भवति |</big>
यथा—


प्र + नि + नदति → प्रणिनदति


<big>धेयं यत्‌ '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति '''उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌''' |</big>
अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम्‌ | यतोहि मध्ये स्थितः नकारः '''अट्कुप्वाङ्‌नुमः''' (अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌) इत्येषु नास्ति |


<big>''''अट्कुप्वाङ्‌नुम्व्यवाये अपि'''<nowiki/>' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ |</big>
(प्रणिनदति इति पदे नि-उपसर्गे स्थितस्य नकारस्य णत्वं भवति ८.४.१७ इति सूत्रेण | तस्य च व्याख्या अत्र नावश्यकी |)


अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अधुना नुमागमः (अधः दृश्यताम्‌) निद्‌ → निन्द्‌‌ इति लौकिक-धातुः |


=== <big>३. नुमागमः</big> ===
<big>यथा—</big>


<big>प्र + नि + नदति → प्रणिनदति</big>


<big>अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम्‌ | यतोहि मध्ये स्थितः नकारः '''अट्कुप्वाङ्‌नुमः''' (अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌) इत्येषु नास्ति |</big>


<big>(प्रणिनदति इति पदे नि-उपसर्गे स्थितस्य नकारस्य णत्वं भवति ८.४.१७ इति सूत्रेण | तस्य च व्याख्या अत्र नावश्यकी |)</big>
'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः* | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितः धातोः नुम्‌''' |


<big>अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अधुना नुमागमः (अधः दृश्यताम्‌) निद्‌ → निन्द्‌‌ इति लौकिक-धातुः |</big>


=== <big>३. नुमागमः </big> ===
<big>'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः* | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितः धातोः नुम्‌''' |<br /></big>


तर्हि यः धातुः इदित्‌ अस्ति, तस्य नुमागमः भवति इति इदं सूत्रं सूचयति | बहवः इदितः धातवः सन्ति; यत्र कुत्रापि धातौ ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, तस्मिन्‌ धातौ नुम्‌-आगमः भवति एव | सः धातुः इदित्‌ अस्ति, अतः नुमागमः |
<big>तर्हि यः धातुः इदित्‌ अस्ति, तस्य नुमागमः भवति इति इदं सूत्रं सूचयति | बहवः इदितः धातवः सन्ति; यत्र कुत्रापि धातौ ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, तस्मिन्‌ धातौ नुम्‌-आगमः भवति एव | सः धातुः इदित्‌ अस्ति, अतः नुमागमः |</big>


यथा णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अयं धातुः इदित्‌, नाम ह्रस्वः इकारः इत्‌-संज्ञकः यस्य सः | निद्‌-धातोः इत्‌ इत्‌ अस्ति इति कारणेन नुमागमः | अधुना निद्‌ धातौ नुम्‌ कुत्र आयाति ? नुम्‌-आगमः मित्‌, अतः अयं नकारः धातोः अन्तिमस्वरात्‌ परे आयाति इति अग्रिमं सूत्रं वक्ति |
<big>यथा णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अयं धातुः इदित्‌, नाम ह्रस्वः इकारः इत्‌-संज्ञकः यस्य सः | निद्‌-धातोः इत्‌ इत्‌ अस्ति इति कारणेन नुमागमः | अधुना निद्‌ धातौ नुम्‌ कुत्र आयाति ? नुम्‌-आगमः मित्‌, अतः अयं नकारः धातोः अन्तिमस्वरात्‌ परे आयाति इति अग्रिमं सूत्रं वक्ति |</big>


नुँम्‌ इति आगमे '''हलन्त्यम्‌''' (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उकारस्य इत्‌‍-संज्ञा, न्‌ इति अवशिष्यते |
<big>नुँम्‌ इति आगमे '''हलन्त्यम्‌''' (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन उकारस्य इत्‌‍-संज्ञा, न्‌ इति अवशिष्यते |</big>


'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यस्मात्‌ '''अन्तः''' इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र '''अचः''' एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | '''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌''' (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; '''षष्ठी स्थानेयोगा''' (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— '''मित्‌ अचः अन्त्यात्‌ परः अन्तः''' |


<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यस्मात्‌ '''अन्तः''' इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र '''अचः''' एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | '''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌''' (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; '''षष्ठी स्थानेयोगा''' (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— '''मित्‌ अचः अन्त्यात्‌ परः अन्तः''' |</big>
अस्मिन्‌ सूत्रे नुमागमः "यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, '''लशक्वतद्धिते''' (१.३.८) इत्यनेन 'इ' अवशिष्यते] → '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न्‌ + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान्‌ + इ → ज्ञानानि | यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, अकारः उपधायां नाभविष्यत्‌, '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |




<big>अस्मिन्‌ सूत्रे नुमागमः "यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, '''लशक्वतद्धिते''' (१.३.८) इत्यनेन 'इ' अवशिष्यते] → '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न्‌ + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान्‌ + इ → ज्ञानानि | यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, अकारः उपधायां नाभविष्यत्‌, '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |<br /></big>


(प्रश्नः— अत्रोक्तं "ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत्‌ सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌ किल; कथं वा 'शि' इति जातम्‌ ? उत्तरम्‌ अस्ति यत्‌ मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)
<big>(प्रश्नः— अत्रोक्तं "ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत्‌ सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌ किल; कथं वा 'शि' इति जातम्‌ ? उत्तरम्‌ अस्ति यत्‌ मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)</big>


तर्हि नुम्‌-आगमः मित्‌ अस्ति (मकारः इत्‌ यस्य सः), अतः नुम्‌ अचः अन्त्यात्‌ परः आयाति |


<big>तर्हि नुम्‌-आगमः मित्‌ अस्ति (मकारः इत्‌ यस्य सः), अतः नुम्‌ अचः अन्त्यात्‌ परः आयाति |</big>
णिदिँ → निद्‌-धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्‌, अतः तस्मात्‌ परे नुम्‌ आयाति | तर्हि नि-न्‌-द्‌ इति स्थितिः, निन्द्‌ इति धातुः निष्पन्नः |


<big>णिदिँ → निद्‌-धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्‌, अतः तस्मात्‌ परे नुम्‌ आयाति | तर्हि नि-न्‌-द्‌ इति स्थितिः, निन्द्‌ इति धातुः निष्पन्नः |</big>
तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → '''त्रम्प्‌''' |


त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |


<big>तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → '''त्रम्प्‌''' |</big>


<big>त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |</big>
यथा—


<big><br />
वदिँ → वद्‌ → वन्द्‌ → वंद् → वन्द्‌
यथा—</big>


वदिँ → वद्‌ '''    उपदेशेऽजनुनासिक इत्'''
<big>वदिँ → वद्‌ वन्द्‌ → वंद् → वन्द्‌</big>


<big>वदिँ → वद्‌ '''    उपदेशेऽजनुनासिक इत्'''</big>
वद्‌ → वन्द्‌ '''    इदितो नुम्‌ धातोः'''


<big>वद्‌ → वन्द्‌ '''    इदितो नुम्‌ धातोः'''</big>
वन्द्‌ → वंद् '''    नश्चापदान्तस्य झलि'''


<big>वन्द्‌ → वंद् '''    नश्चापदान्तस्य झलि'''</big>
वंद्‌ → वन्द्‌ '''    अनुस्वारस्य ययि परसवर्णः'''


<big>वंद्‌ → वन्द्‌ '''    अनुस्वारस्य ययि परसवर्णः'''</big>
लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌


कपिँ → कप्‌ → कन्प्‌ → कंप्‌ → कम्प्‌


<big>लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌</big>
लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌


<big>कपिँ → कप्‌ → कन्प्‌ → कंप्‌ → कम्प्‌</big>


<big>लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌</big>


'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |<br /></big>




<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>


<big><br /></big>
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |


<big>'''परसवर्णः''' इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थाने‍ऽन्तरतमः''' (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थाने‍ऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्‌, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्‌, ञकारादेशः; टवर्गीयः अस्ति चेत्‌ णकारादेशः; पवर्गीयः अस्ति चेत्‌ मकारादेशः | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |</big>




'''परसवर्णः''' इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थाने‍ऽन्तरतमः''' (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थाने‍ऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्‌, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्‌, ञकारादेशः; टवर्गीयः अस्ति चेत्‌ णकारादेशः; पवर्गीयः अस्ति चेत्‌ मकारादेशः | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |


'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्‌-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम्‌ |
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्‌-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम्‌ |</big>


<big><br /></big>


<big>'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्'''‌ (८.३.२२) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |</big>


<big>गृहम्‌ + च → गृहं च</big>
'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्'''‌ (८.३.२२) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |


<big><br /></big>
गृहम्‌ + च → गृहं च


<big>'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ |</big>


<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य '''वा''' परसवर्णः ययि संहितायाम्‌''' |</big>


<big>सं + यमः → सय्ँयमः / संयमः</big>
'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ |


<big>सं + वत्सरः → सव्ँवत्सरः / संवत्सरः</big>
'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य '''वा''' परसवर्णः ययि संहितायाम्‌''' |


सं + यमःसय्‌ँयमः / संयमः
<big>सं + लापःसल्ँलापः / संलापः</big>


सं + वत्सरः → सव्‌ँवत्सरः / संवत्सरः


<big>अधुना अनुस्वारात्‌ परे रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |</big>
सं + लापः → सल्‌ँलापः / संलापः


अधुना अनुस्वारात्‌ परे रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |


धेयम्‌—‌ '''यय्'''-प्रत्याहारः सूचयति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |
<big>धेयम्‌—‌ '''यय्'''-प्रत्याहारः सूचयति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>


प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |


<big>प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |</big>
<nowiki>*</nowiki>'''तपरस्तत्कालस्य''' (१.१.७०) = तकारात्‌ परः यः, तकारः परः यस्मात्‌, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात्‌ सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्‌, तत्कालस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वं रूपं शब्दस्याशब्दसंज्ञा''' (१.१.६८) इत्यस्मात्‌ '''स्वं रूपम्‌''' इत्यनयोः अनुवृत्तिः | '''अणुदित्सवर्णस्य चाप्रत्ययः''' (१.१.६९) इत्यस्मात्‌ '''सवर्णस्य''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य''' |


वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात्‌ पूर्वं भवतु, तकारात्‌ परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | '''अदेङ्‌ गुणः''' (१.१.२) अस्य उदाहरणम्‌ | अनेन अकारः अत्‌ अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्‌-प्रत्याहारः तकारात्‌ परः अतः दीर्घ-वर्णानाम्‌ एव प्रतिनिधिः न तु प्लुतानाम्‌ |


<big><nowiki>*</nowiki>'''तपरस्तत्कालस्य''' (१.१.७०) = तकारात्‌ परः यः, तकारः परः यस्मात्‌, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात्‌ सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्‌, तत्कालस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वं रूपं शब्दस्याशब्दसंज्ञा''' (१.१.६८) इत्यस्मात्‌ '''स्वं रूपम्‌''' इत्यनयोः अनुवृत्तिः | '''अणुदित्सवर्णस्य चाप्रत्ययः''' (१.१.६९) इत्यस्मात्‌ '''सवर्णस्य''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य''' |</big>
यस्मात्‌ ह्रस्व-अचः परे तकारः संयुज्यते, सः अच्‌ केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत्‌ = ह्रस्वः इकारः, अत्‌ = ह्रस्वः अकारः, उत्‌ = ह्रस्वः उकारः | अतः ह्रस्वम्‌ अकारं बोधयितुम्‌ अत्‌ इति वदामः | नो चेत्‌ व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम्‌ "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत्‌ भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्‌" उच्चार्यते, तत्र निश्चयेन केवलं षट्‌ प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात्‌ सः तपरः | व्याकरणे "तपरकरणम्‌" इत्युच्यते |


षट्‌ प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्‌" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्‌ |


<big>वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात्‌ पूर्वं भवतु, तकारात्‌ परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | '''अदेङ्‌ गुणः''' (१.१.२) अस्य उदाहरणम्‌ | अनेन अकारः अत्‌ अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्‌-प्रत्याहारः तकारात्‌ परः अतः दीर्घ-वर्णानाम्‌ एव प्रतिनिधिः न तु प्लुतानाम्‌ |</big>
=== <big>४. उपधादीर्घः</big> ===




<big>यस्मात्‌ ह्रस्व-अचः परे तकारः संयुज्यते, सः अच्‌ केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत्‌ = ह्रस्वः इकारः, अत्‌ = ह्रस्वः अकारः, उत्‌ = ह्रस्वः उकारः | अतः ह्रस्वम्‌ अकारं बोधयितुम्‌ अत्‌ इति वदामः | नो चेत्‌ व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम्‌ "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत्‌ भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्‌" उच्चार्यते, तत्र निश्चयेन केवलं षट्‌ प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात्‌ सः तपरः | व्याकरणे "तपरकरणम्‌" इत्युच्यते |</big>


'''उपधायां च''' (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌ | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | इक्‌ = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः, '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' इत्येषाम्‌ अनुवृत्तिः, '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः र्वोः उपधायां च इकः दीर्घः हलि''' |


<big>षट्‌ प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्‌" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्‌ |</big>
कुर्दँ (कुर्द +ँ) → कुर्द्‌ '''    उपदेशेऽजनुनासिक इत्'''


===<big>४. उपधादीर्घः </big>===
कुर्द्‌ → कूर्द्‌ '''                उपधायां च'''
<big>'''उपधायां च''' (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌ | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | इक्‌ = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः, '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' इत्येषाम्‌ अनुवृत्तिः, '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः र्वोः उपधायां च इकः दीर्घः हलि''' |</big>


तथैव


<big>कुर्दँ (कुर्द +ँ) → कुर्द्‌ '''    उपदेशेऽजनुनासिक इत्'''</big>
खुर्दँ → खूर्द्‌, गुर्दँ → गूर्द्‌ |


<big>कुर्द्‌ → कूर्द्‌ '''                उपधायां च'''</big>


<big>तथैव</big>
'''अलोऽन्त्यात्पूर्व उपधा''' (१.१.६५) = वर्णानां‌ समुदाये यः अन्तिमः वर्णः, तस्मात्‌ पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अल्‌-प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः (अच्‌ + हल्‌ = अल्‌) | सूत्रं स्वयं सम्पूर्णम्— '''अन्त्यात्‌ अलः पूर्वः उपधा''' |


<big>खुर्दँ → खूर्द्‌, गुर्दँ → गूर्द्‌ |</big>
प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम "रात्‌ इफः" | इफः कश्चन प्रत्ययः | र + इफः = रेफः |


<big><br />'''अलोऽन्त्यात्पूर्व उपधा''' (१.१.६५) = वर्णानां‌ समुदाये यः अन्तिमः वर्णः, तस्मात्‌ पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अल्‌-प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः (अच्‌ + हल्‌ = अल्‌) | सूत्रं स्वयं सम्पूर्णम्— '''अन्त्यात्‌ अलः पूर्वः उपधा''' |</big>
अवधेयम्‌— '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति सूत्रेण सर्वेषाम्‌ अजन्तानां मूलधातूनाम्‌ अन्तिमस्य अचः इत्‌-संज्ञा न भवति | तदा एव इत्‌-संज्ञा भवति यदा सः अच्‌ अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्‌-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम्‌ अच्‌-वर्णानाम्‌ इत्‌-संज्ञा न भवति | परन्तु "'''हलन्त्यम्‌'''" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम्‌ अन्तिमस्य हलः इत्‌-संज्ञा भवति एव |


<big>प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम "रात्‌ इफः" | इफः कश्चन प्रत्ययः | र + इफः = रेफः |</big>


'''<big><u>अभ्यासः</u></big>'''


<big>अवधेयम्‌— '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति सूत्रेण सर्वेषाम्‌ अजन्तानां मूलधातूनाम्‌ अन्तिमस्य अचः इत्‌-संज्ञा न भवति | तदा एव इत्‌-संज्ञा भवति यदा सः अच्‌ अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्‌-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम्‌ अच्‌-वर्णानाम्‌ इत्‌-संज्ञा न भवति | परन्तु "'''हलन्त्यम्‌'''" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम्‌ अन्तिमस्य हलः इत्‌-संज्ञा भवति एव |</big>
अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्‌ |


<big><br />'''<u>अभ्यासः</u>'''</big>


<big>अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्‌ |</big>
अगिँ, घट्टँ, भ्रेजृँ, चन्चुँ, टिकृँ, शलँ, इण्, गुजिँ, शीङ्, द्रै, णमँ, छुरँ, णुदँ, शुभँ, षुरँ, कठिँ, विद्ऌँ, षिलँ, णिलँ, इलँ, क्लिशँ, णीलँ, ष्टकँ, खुर्द (खुर्दँ), पृषुँ, णखँ, रगेँ, प्लुङ्, षु, ध्रु, चक्कँ, बधँ, टुनदिँ, युच्छँ


<big><br />अगिँ, घट्टँ, भ्रेजृँ, चन्चुँ, टिकृँ, शलँ, इण्, गुजिँ, शीङ्, द्रै, णमँ, छुरँ, णुदँ, शुभँ, षुरँ, कठिँ, विद्ऌँ, षिलँ, णिलँ, इलँ, क्लिशँ, णीलँ, ष्टकँ, खुर्द (खुर्दँ), पृषुँ, णखँ, रगेँ, प्लुङ्, षु, ध्रु, चक्कँ, बधँ, टुनदिँ, युच्छँ</big>


<big><br /></big>
Swarup – April 2013 (updated Nov 2014 & March 2016)
<big>Swarup – April 2013 (updated Nov 2014 & March 2016)</big>
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]</big>


To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].
<big>To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com%7C dinbandhu@sprynet.com]]>].</big>

Revision as of 00:38, 10 May 2021

ध्वनिमुद्रणानि
2016
1. it-sangyA-punassmaraNam_+_satva-natva-vidhiH_2016-03-16
2. https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/18_natvam--__natvam--__numagamah--_2016-03-23.mp3
3. numAgamaH--इदितो नुम्‌ धातोः_+_नश्चापदान्तस्य झलि_+_अनुस्वारस्य ययि परसवर्णः_+_तपरस्तत्कालस्य_2016-03-30
4. taparakaraNaM_+_upadhAdIrghaH--उपधायां च_+_laukika-dhAtu-siddhi-abhyAsaH_2016-04-06
2014
5.  dhAtu-vigyAnam_2_satvaM-natvaM-numAgamaH_2014-11-11
6. dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18  


मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम्‌ | धातुविज्ञानम्‌ - १ इति पाठे अस्माभिः दृष्टं यत्‌ अनुबन्धानां निष्कासनम्‌ इति प्रथमं कार्यम्‌ | इत्‌-संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, नत्वं, नुमागमः, उपधादीर्घः—चेमानि सङ्गृहीततया द्वितीयं कार्यम्‌ | एषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्‌ | सम्भवति चेत्‌, इदं कार्यं कुर्मः; नो चेत्‌ धातुः प्रक्रियार्थं सिद्धः | तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन्‌ करपत्रे अवलोकयाम |

१. सत्वम्‌

धात्वादेः षः सः (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः षः सः उपदेशे |

वृत्तान्ते ष्वदँ आस्वादने इति धातुः | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन लोपश्च | ष्वदँ → ष्वद्‌ | धात्वादेः षः सः (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद्‌ → स्वद्‌ |

अन्यत्‌ उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम्‌ इत्‌-संज्ञकवर्णानां निष्कासनम्‌ | ष्ठा-धातौ कोऽपि इत्‌-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात्‌ द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः धात्वादेः षः सः (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |

अत्र कश्चन प्रसिद्धप्रवादो वर्तते— निमित्तापाये नैमित्तिकस्याप्यपायः | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा धात्वादेः षः सः (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | निमित्तापाये नैमित्तिकस्याप्यपायः— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |

तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्‌, ञ्‌, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात्‌ उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम्‌ |

ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा धात्वादेः षः सः इत्यनेन ष्णा → स्णा | निमित्तापाये नैमित्तिकस्याप्यपायः इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम्‌ इति ल्युटि |


अधुना एतत्‌ सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत्‌ ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात्‌ लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत्‌ अयं निमित्तापाये नैमित्तिकस्याप्यपायः इति तु न परिभाषा, न वा वार्त्तिकम्‌; अस्य प्रवादस्य एतस्मिन्‌ विषये सामर्थ्यम्‌ अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम्‌ अवलम्ब्य प्रतिपादनं भवति चेत्‌ वरं स्यात्‌ | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—


ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ ष्टुना ष्टुः (८.४.४१) च धात्वादेः षः सः (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च धात्वादेः षः सः (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम्‌ (८.२.१) इति सूत्रेण ष्टुना ष्टुः (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | धात्वादेः षः सः (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, ष्टुना ष्टुः (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे निमित्तापाये नैमित्तिकस्याप्यपायः इति प्रवादः अत्र दत्तः |

प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत्‌ औपदेशिकधातुः एव अपेक्षते चेत्‌, ष्टुत्वस्य अवसरो भवति | धात्वादेः षः सः (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्‌, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं ष्टुना ष्टुः (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |

२. नत्वम्‌

णो नः (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्‌, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः, धात्वादेः षः सः (६.१.६३) इत्यस्मात्‌ धात्वादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धात्वादेः णः नः उपदेशे |

णटँ नृत्तौ इति धातुः | प्रथमम्‌ उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपश्च | णटँ → णट्‌‌ | णो नः (६.१.६४) इत्यनेन णट्‌ → नट्‌ इति लौकिकः धातुः | नटति लटि, नाटकः ण्वुलि, नटनम्‌ ल्युटि |

अस्य महत्त्वं किम्‌ इति चेत्‌, कार्यं कुत्रचित्‌ अस्मिन्‌ अवलम्ब्यते | यथा णत्व-विषये—

उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) = उपसर्गस्थात्‌ निमित्तात्‌ परस्य णोपदेशस्य धातोः नस्य णः स्यात्‌ समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम्‌ (नमति), नश्‌ (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | तदा णो नः (६.१.६४) इत्यनेन, लोके नकारादयः भवन्ति | यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते— यथा परि + नी — तत्र यतोहि उपसर्गः पृथक्‌ पदम्‌ अस्ति, अतः रषाभ्यां नो णः समानपदे (८.४.१) इति णत्वविधायकसूत्रेण णत्वं न स्यात्‌ | किन्तु उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इति सूत्रेण यत्र णोपदेश-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति |

यथा समासे—

प्र + नी + ल्युट्‌ → प्र + नयनम्‌ → प्रणयनम्‌

परि + नामः → परिणामः

परि + नी + ण्वुल्‌ → परिणायकः

परि + नम्‌ + क्तिन्‌ → परिणतिः

परि + नह्‌ + क्त → परिणद्धम्‌

परि + नम्‌ + घञ्‌ → परिणामः

असमासे—

समासः सुबन्तानां भवति, न तु तिङन्तानाम्‌ | अतः यत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति |

प्र + नदति → प्रणदति

णदँ-धातुः → अनुबन्धलोपानन्तरं णो नः (६.१.६४) इत्यनेन णत्वविधानम्‌ → नद्‌ → नद्‌ + शप्‌ + ति → नदति → प्र + नदति → उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात्‌ निमित्तात्‌ णोपदेशस्य णत्वम्‌ → प्रणदति


अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यदीनि रूपाणि |


वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्‌, णशँ, णहँ | एवम्‌ एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्‌, नाद्‌, नाथ्‌, नाध्‌, नन्द्‌, नक्क्‌, नॄ, नृत्‌ च | अतः प्रनर्दति, प्रनर्दितुम्‌, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, परन्तु णत्वं न भवति |


धेयं यत्‌ उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌ |

'अट्कुप्वाङ्‌नुम्व्यवाये अपि' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ |


यथा—

प्र + नि + नदति → प्रणिनदति

अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम्‌ | यतोहि मध्ये स्थितः नकारः अट्कुप्वाङ्‌नुमः (अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌) इत्येषु नास्ति |

(प्रणिनदति इति पदे नि-उपसर्गे स्थितस्य नकारस्य णत्वं भवति ८.४.१७ इति सूत्रेण | तस्य च व्याख्या अत्र नावश्यकी |)

अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम्‌ उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद्‌ | णो नः (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अधुना नुमागमः (अधः दृश्यताम्‌) निद्‌ → निन्द्‌‌ इति लौकिक-धातुः |

३. नुमागमः

इदितो नुम्‌ धातोः (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः* | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— इदितः धातोः नुम्‌ |

तर्हि यः धातुः इदित्‌ अस्ति, तस्य नुमागमः भवति इति इदं सूत्रं सूचयति | बहवः इदितः धातवः सन्ति; यत्र कुत्रापि धातौ ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, तस्मिन्‌ धातौ नुम्‌-आगमः भवति एव | सः धातुः इदित्‌ अस्ति, अतः नुमागमः |

यथा णिदिँ → णिद्‌ | णो नः (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अयं धातुः इदित्‌, नाम ह्रस्वः इकारः इत्‌-संज्ञकः यस्य सः | निद्‌-धातोः इत्‌ इत्‌ अस्ति इति कारणेन नुमागमः | अधुना निद्‌ धातौ नुम्‌ कुत्र आयाति ? नुम्‌-आगमः मित्‌, अतः अयं नकारः धातोः अन्तिमस्वरात्‌ परे आयाति इति अग्रिमं सूत्रं वक्ति |

नुँम्‌ इति आगमे हलन्त्यम्‌ (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन उकारस्य इत्‌‍-संज्ञा, न्‌ इति अवशिष्यते |


मिदचोऽन्त्यात्परः (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात्‌ अन्तः इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌ (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित्‌ अचः अन्त्यात्‌ परः अन्तः |


अस्मिन्‌ सूत्रे नुमागमः "यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन 'इ' अवशिष्यते] → मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न्‌ + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान्‌ + इ → ज्ञानानि | यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, अकारः उपधायां नाभविष्यत्‌, सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |

(प्रश्नः— अत्रोक्तं "ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत्‌ सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌ किल; कथं वा 'शि' इति जातम्‌ ? उत्तरम्‌ अस्ति यत्‌ मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)


तर्हि नुम्‌-आगमः मित्‌ अस्ति (मकारः इत्‌ यस्य सः), अतः नुम्‌ अचः अन्त्यात्‌ परः आयाति |

णिदिँ → निद्‌-धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्‌, अतः तस्मात्‌ परे नुम्‌ आयाति | तर्हि नि-न्‌-द्‌ इति स्थितिः, निन्द्‌ इति धातुः निष्पन्नः |


तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → त्रम्प्‌ |

त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |


यथा—

वदिँ → वद्‌ → वन्द्‌ → वंद् → वन्द्‌

वदिँ → वद्‌     उपदेशेऽजनुनासिक इत्

वद्‌ → वन्द्‌     इदितो नुम्‌ धातोः

वन्द्‌ → वंद्     नश्चापदान्तस्य झलि

वंद्‌ → वन्द्‌     अनुस्वारस्य ययि परसवर्णः


लाछिँ → लाछ्‌ → लान्छ्‌ → लांछ्‌ → लाञ्छ्‌

कपिँ → कप्‌ → कन्प्‌ → कंप्‌ → कम्प्‌

लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌

नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |


परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थाने‍ऽन्तरतमः (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थाने‍ऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्‌, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्‌, ञकारादेशः; टवर्गीयः अस्ति चेत्‌ णकारादेशः; पवर्गीयः अस्ति चेत्‌ मकारादेशः | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्‌-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम्‌ |


मोऽनुस्वारः (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हलि सर्वेषाम्‌ (८.३.२२) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य मः अनुस्वारः हलि संहितायाम् |

गृहम्‌ + च → गृहं च


वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ |

अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्‌ |

सं + यमः → सय्ँयमः / संयमः

सं + वत्सरः → सव्ँवत्सरः / संवत्सरः

सं + लापः → सल्ँलापः / संलापः


अधुना अनुस्वारात्‌ परे रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |


धेयम्‌—‌ यय्-प्रत्याहारः सूचयति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |


प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः इदितो नुम्‌ धातोः इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |


*तपरस्तत्कालस्य (१.१.७०) = तकारात्‌ परः यः, तकारः परः यस्मात्‌, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात्‌ सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्‌, तत्कालस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वं रूपं शब्दस्याशब्दसंज्ञा (१.१.६८) इत्यस्मात्‌ स्वं रूपम्‌ इत्यनयोः अनुवृत्तिः | अणुदित्सवर्णस्य चाप्रत्ययः (१.१.६९) इत्यस्मात्‌ सवर्णस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य |


वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात्‌ पूर्वं भवतु, तकारात्‌ परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | अदेङ्‌ गुणः (१.१.२) अस्य उदाहरणम्‌ | अनेन अकारः अत्‌ अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्‌-प्रत्याहारः तकारात्‌ परः अतः दीर्घ-वर्णानाम्‌ एव प्रतिनिधिः न तु प्लुतानाम्‌ |


यस्मात्‌ ह्रस्व-अचः परे तकारः संयुज्यते, सः अच्‌ केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत्‌ = ह्रस्वः इकारः, अत्‌ = ह्रस्वः अकारः, उत्‌ = ह्रस्वः उकारः | अतः ह्रस्वम्‌ अकारं बोधयितुम्‌ अत्‌ इति वदामः | नो चेत्‌ व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम्‌ "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत्‌ भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्‌" उच्चार्यते, तत्र निश्चयेन केवलं षट्‌ प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात्‌ सः तपरः | व्याकरणे "तपरकरणम्‌" इत्युच्यते |


षट्‌ प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्‌" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्‌ |

४. उपधादीर्घः

उपधायां च (८.२.७८) = धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌ | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | इक्‌ = इ, उ, ऋ, ऌ | उपधायां सप्तम्यन्तं, चाव्ययम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः, र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात्‌ र्वोः, इकः, दीर्घः इत्येषाम्‌ अनुवृत्तिः, हलि च (८.२.७७) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धातोः र्वोः उपधायां च इकः दीर्घः हलि |


कुर्दँ (कुर्द +ँ) → कुर्द्‌     उपदेशेऽजनुनासिक इत्

कुर्द्‌ → कूर्द्‌                 उपधायां च

तथैव

खुर्दँ → खूर्द्‌, गुर्दँ → गूर्द्‌ |


अलोऽन्त्यात्पूर्व उपधा (१.१.६५) = वर्णानां‌ समुदाये यः अन्तिमः वर्णः, तस्मात्‌ पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अल्‌-प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः (अच्‌ + हल्‌ = अल्‌) | सूत्रं स्वयं सम्पूर्णम्— अन्त्यात्‌ अलः पूर्वः उपधा |

प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम "रात्‌ इफः" | इफः कश्चन प्रत्ययः | र + इफः = रेफः |


अवधेयम्‌— उपदेशेऽजनुनासिक इत् (१.३.२) इति सूत्रेण सर्वेषाम्‌ अजन्तानां मूलधातूनाम्‌ अन्तिमस्य अचः इत्‌-संज्ञा न भवति | तदा एव इत्‌-संज्ञा भवति यदा सः अच्‌ अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्‌-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम्‌ अच्‌-वर्णानाम्‌ इत्‌-संज्ञा न भवति | परन्तु "हलन्त्यम्‌" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम्‌ अन्तिमस्य हलः इत्‌-संज्ञा भवति एव |


अभ्यासः

अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्‌ |


अगिँ, घट्टँ, भ्रेजृँ, चन्चुँ, टिकृँ, शलँ, इण्, गुजिँ, शीङ्, द्रै, णमँ, छुरँ, णुदँ, शुभँ, षुरँ, कठिँ, विद्ऌँ, षिलँ, णिलँ, इलँ, क्लिशँ, णीलँ, ष्टकँ, खुर्द (खुर्दँ), पृषुँ, णखँ, रगेँ, प्लुङ्, षु, ध्रु, चक्कँ, बधँ, टुनदिँ, युच्छँ


Swarup – April 2013 (updated Nov 2014 & March 2016)

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<[dinbandhu@sprynet.com]>].