03.पाठ्यांशाः उत पाठ्यबिन्दवः

From Samskrita Vyakaranam
(Redirected from 03.पाठ्यांशाः उत पाठ्यबिन्दवः)
03. pAthyAmashAH uta pAthyabindavaH
Jump to navigation Jump to search


पाठ्यांशाः उत पाठ्यबिन्दवः


बहवः जनाः आङ्ग्लभाषायां विशेषसन्दर्भे प्रयुक्तानां पदानां संस्कृतभाषायाम् अनुवादं कृत्वा तेषां प्रयोगं कुर्वन्ति | उदाहरणार्थम् आङ्ग्लभाषायां 'point’ इति पदस्य ‘बिन्दुः’ इति अनुवादं कृत्वा वाक्येषु प्रयोगं कुर्वन्ति जनाः | संस्कृतभाषायां, हिन्दीभाषायां एवम् अन्यासु प्रादेशिकभाषासु अंशः / विषयः / लक्ष्यम्  इत्यादीनां शब्दानां स्थाने ‘बिन्दुः’ इति शब्दप्रयोगः दृश्यते अद्यत्वे गोष्ठ्यां, समाचारपत्रीकासु च | एतादृशाः प्रयोगाः अस्माभिः दृश्यन्ते -

  • पाठ्यबिन्दवः / शिबिरबिन्दवः
  • में अग्रिम बिन्दु की चर्चा अब करता हूँ (हिन्दी)|
  • अग्रीमः बिन्दुः महत्वपूर्णः अस्ति|


इमानि वाक्यानि सम्प्रति संस्कृतसम्भाषणवर्गेषु अपि च समाचारेषु श्रृणुमः |  एतेषां वाक्यानां श्रवणेन झटिति आङ्ग्लभाषाप्रयोगः मनसि बिम्बितो भवति |


आङ्ग्लभाषायां 'points’ न अपि तु 'holes' इति प्रयोगः यदि क्रियते तर्हि संस्कृते  पाठ्यछिद्राः इति प्रयोगः  करणीयः वा इति प्रश्नः उदेति ?

  • पाठ्यछिद्राः / शिबिरछिद्राः कस्मिन् पृष्ठे सन्ति?
  • में अग्रिम छिद्र की चर्चा अब करता हूँ (हिन्दी) |
  • अग्रीमं महत्वपूर्णं छिद्रं प्रति सरेम|


अर्थदृष्ट्या 'points' उत 'बिन्दवः' इत्यस्य ‘अंशाः’ इति अर्थः नास्ति | ‘अंशः’ इत्यस्य अर्थः भागः / प्रभागः इति | अतः पाठ्यांशः इति प्रवर्तमानः संस्कृतप्रयोगः साधुः एव इति मत्वा तथैव अस्माभिः करणीयः | अन्यभाषासु विद्यमानानां प्रयोगाणाम् अर्थः सर्वदा संस्कृतभाषायां तुल्यः भवेत् इति तु नास्ति | कदाचित् आङ्ग्लभाषायाः शब्दानाम् अनुवादः यदा क्रियते संस्कृतभाषायां तदा बहुत्र अर्थदृष्ट्या तुल्यार्थः न लभ्यते, अपि तु हास्यास्यपदस्वरूपम् उत विचारपरम्परायाः विरोधाभासरूपं प्राप्नोति | यथा -

* Breaking news -’भग्ना / खण्डिता वार्ता !’ अत्र हास्यास्पदं स्वरूपं प्राप्नोति | विवक्षितार्थः तु ‘ त्वरमाणा वार्ता ’ इति |

  • शैतान का नाम लो और शैतान हाज़िर इति उर्दूभाषयां प्रयोगः |
  • Think of the devil and the devil is here इति आङ्गलभाषायां प्रयोगः |
  • तुमचच नाव घेतलं आता. शंभर वर्ष आयुष्य लाभो तुम्हाला!(Welcome, we were just discussing about you now. May you live 100 years!) इति मराठीभाषायां प्रायोगः |
  • अरे! अपकेही विषय में बात हुई अभी | आप सौ वर्ष जीये! इति हिन्दीभाषायां प्रयोगः

* तुल्यप्रयोगः, समानभावः च इतरासु प्रादेशिकभाषासु वर्तते एव | उपरितनेषु वाक्येषु विरोधाभासः दृश्यते | अतः भाषान्तरं न उचितम् अत्र |


Description box इत्यस्य संस्कृते अनुवादः विवर्णिका इति- या विवरणं ददाति सा विवर्णिका | अत्र box पदस्य अनुवादः न आवश्यकः यतोहि विवर्णिका इति पदे संपूर्णः अर्थः समाहितः |


Pay and park कृते सशुल्क वाहनतलम्। अत्र शब्दशः भाषान्तरं न आवश्यकम्। यतोहि तुल्यः अर्थः प्राप्तः। धनं दत्वा वाहनं स्थापय -इति दीर्घः प्रयोगः संस्कृतप्रयोगः नास्ति।


What is in the name ! इति आङ्गलप्रयोगः वर्तते |

नामनि सर्वम् इति सनातनपरम्परायाः विश्वासः | नामकरणस्य विषये विसृतशास्त्रं चिन्तनं च विद्यते | रत्नाकरतः महर्षिः वाल्मीकिः पर्यन्तं रामशब्दस्य परिवर्तनं मरा मरा मरा इति उच्चारणमात्रेण कथं सञ्जातम् इति कथां सर्वे जानन्ति |


नाम्नः किं प्रयोजनम् ! इत्यस्य भाषान्तरे अनुवादः क्रियते चेत् विचारपरम्परायाः विरोधाभासः दृश्यते |

  • Learn/study by heart  इति आङ्गलप्रयोगः
  • कण्ठस्थीकरणं कुरु इति संस्कृतप्रयोगः


सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | ज्ञानाधिकरणम् आत्मा इति अस्माकं चिन्तनम् | विषयतायाः ग्रहणं प्रति कारणं मनः | हृदयस्य न कारणता | पठनक्रियायाम् अपि मनसः कारणत्वं/जनकत्वं वर्तते| मनोरञ्जनं, मनोनिरूपणं, मनाचे श्लोकः रामदासेन स्वामिना रचितः मराठीसाहत्यम् | मोनो लागे ना इति बङ्गालीभाषाप्रयोगः | अतः एतेषां पदानां प्रयोगः व्यवहारे भवत्येव |

कण्ठस्थीकरणस्य विषये तु न किमपि अधिकं वक्तव्यम् | अस्माभिः व्याकरणशास्त्रे अस्मिन् विषये संपूर्णम् उच्चारणविषयकं ज्ञानं प्राप्तमेव |


पाठ्यांशाः वा पाठ्यविषयाः वा अनुक्रमणिका (list of topics) इति प्रयोगाः उचिताः |

मूलसंस्कृतप्रयोगः शास्त्रेषु -

  • समासप्रक्रियायां स्मर्तव्याः अंशाः |
  • अथ स्वांशाधिकोने तु लवाढ्योनो हरो हरः |
  • विष्कम्भकः यः वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः |
  • नवांशः अयनांशः च(अयन+अंश) उत अयनभागः -ज्योतिषे |
  • श्लोकस्य व्याकरणांशाः|
  • उपवेशने चर्चिताः अंशाः|
  • गहना अर्थपूर्णा स्वल्पाक्षरा च । तदंशाः तच्छिष्याः ।

तैः कृता ये उपायाः टीकाद्याः । तैः प्रगकटीकृता ॥


बिन्दुः इति शब्दप्रयोगः अर्थदृष्ट्या विशेषः अस्ति | परिमाणस्थूलत्वदैर्घ्यविस्ताररहितः स बिन्दुः । उदाहरणार्थम् अस्य प्रयोगः ज्योतिषशास्त्रे, गणिते च | यथा -


निपातबिन्दुः / संम्पातबिन्दुः -द्वयोः वक्रयोः (curves/ paths) मेलनस्थानम् |

  • जलबिन्दुनिपातेन क्रमशः पूर्यते घटः |
  • विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि |
  • चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशिष्यते |

चिता दहति निर्जीवं चिन्ता दहति जीवनम् ||


बिन्दुः इति पदस्य उचितप्रयोगः उपरितनेषु वाक्येषु वर्तते |


सारांशः # - सर्वदा यथाशब्दं भाषान्तरं नैव उचितम् | शास्त्रीयप्रयोगं विचारपरम्परां च अनुसृत्य वाक्यरचना करणीया |

# - सारांशः - सारस्य अंशः (अत्रापि अंशः इति पदम् अस्ति)|

अधो दत्ते नित्यानन्दः मिश्रावर्यस्य चलच्चित्रे Thankyou, Welcome and 'How are you?' इत्येषां आङ्ग्लप्रयोगानां पर्यायीसंस्कृपप्रयोगाः चर्चिताः |

अवधानं भवेत् यत्र यत्र Thankyou आङ्ग्लभाषाप्रयोगः क्रियते तत्र तत्र धन्योऽस्मि कृतकृत्योऽहं…इत्यादि अनवधानेन न प्रयोक्तव्यम्उदाहरणार्थं भाषनस्य अन्ते गोष्ठ्यान्ते व्याख्यानस्य अन्ते वा समाप्तिः सनातनपरम्परानुसारेण शान्तिमन्त्रेण क्रियते न तु धन्यवादस्य कथनेन।

How to say Thank you, welcome and 'how are you?' in Samskrita


संस्कृताननुदित पदानां विषये लघुचलच्चित्राणि

Samskrita nontranslatables-video series


मृणालिनी

फाल्गुन शुक्लपक्षः

विक्रम संवत २०८०

(इषु-आरब्धः मार्च २०२४)


Appropriateness in usage: of पाठ्यांशाः over पाठ्यबिन्दवः


We see many people translating the word 'point' in English to 'bindu' in Hindi and Sanskrit, in place of अंशः/ विषयः / लक्ष्यम् .

Usages like - पाठ्यबिन्दवः, अग्रीमः बिन्दुः किम् अस्ति  are being made popular in Samskrita Sambhaashana Vargaha. It sounds very artificial and unnatural !


If in English the word was 'holes' in place of 'points' then should we say पाठ्यछिद्राः, अग्रीमं छिद्रं प्रति सरेम |


From the perspective of meaning, ‘Point' or 'bindu' is not equal to अंशः or भागः

The word अंशः means part of, which gives the correct meaning here. The word to word translation in all contexts may lead to funny illogical form/usage or a thought opposite to Bhaaratiya cultural values and ethos. For example-


* Breaking news –‘भग्ना / खण्डिता वार्ता  !’ is an illogical usage. Correct translation would be ‘त्वरमाणा वार्ता

  • शैतान का नाम लो और शैतान हाज़िर इति-Urdu usage
  • Think of the devil and the devil is here-English usage
  • तुमचच नाव घेतलं आता. शंभर वर्ष आयुष्य लाभो तुम्हाला ! (Welcome, we were just discussing about you now. May you live 100 years !)-Marathi usage
  • अरे! अपकेही विषय में बात हुई अभी | आप सौ वर्ष जीये !-Hindi usage

* Similar usages are there in other Bhaaratiya regional languages also. Here, word to word translation will lead to a thought that is not in line with Bhaaratiya values.


Description box can be विवर्णिका - या विवरणं ददाति सा विवर्णिका | Here box word is not translated, yet the required meaning is achieved.

Pay and park is सशुल्क वाहनतलम्। Here word to word translation would be धनं दत्वा वाहनं स्थापय which is not a samskrita usage.

What is in the name! English usage will be नाम्नः किं प्रयोजनम् ! which is not in line with Bhaaratiya Paramparaa. Our shastras give very much importance to Naamakaranam. We all know the story of how Ratnaakara became Maharshi Valmiki by mere utterances/japa of  mara mara mara…     


  • Learn/study by heart -English usage
  • कण्ठस्थीकरणं कुरु -Samskrita usage


सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | ज्ञानाधिकरणम् आत्मा इति अस्माकं चिन्तनम् | विषयतायाः ग्रहणं प्रति कारणं मनः | हृदयस्य न कारणता | पठनक्रियायाम् अपि मनसः कारणत्वं/जनकत्वं वर्तते| मनोरञ्जनं, मनोनिरूपणं, मनाचे श्लोकः composed by Ramdas Swaami | मोनो लागे ना  Bangaali usage. Similar thoughts are reflected in other regional languages of Bhaarata.


Therefore, we should use available Sanskrit vocabulary and prayoga rather than the translated words derived from English.


Usages like पाठ्यांशाः OR पाठ्यविषयाः OR अनुक्रमणिका for ‘list of topics’ are appropriate.


Following sentences sound natural

  • समासप्रक्रियायां स्मर्तव्याः अंशाः |
  • अथ स्वांशाधिकोने तु लवाढ्योनो हरो हरः |
  • विष्कम्भकः यः वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः |
  • नवांशः अयनांशः च (अयन+अंश) उत अयनभागः -ज्योतिषे |
  • श्लोकस्य व्याकरणांशाः |
  • उपवेशने चर्चिताः अंशाः |
  • गहना अर्थपूर्णा स्वल्पाक्षरा च । तदंशाः तच्छिष्याः ।

तैः कृता ये उपायाः टीकाद्याः । तैः प्रगकटीकृता ॥


The word बिन्दुः means a point or drop or spot in Samskrita. But it has not to be used the way English language uses in various contexts.


बिन्दुः has appropriate usage in Samskrita when referring to its mula artha. Like in Jyotisha shastra or Ganitam, निपातबिन्दुः / संम्पातबिन्दुः refers to a point of intersection of two curves.

  • जलबिन्दुनिपातेन क्रमशः पूर्यते घटः |
  • विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि |
  • चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशिष्यते |

चिता दहति निर्जीवं चिन्ता दहति जीवनम् ||


In the above contexts the usage of बिन्दु is perfectly fine.

Today because of English education and consequently use of English language to express our thoughts, we all tend to unknowingly merely translate English usages into Hindi or Samskrita without referring to actual Samskrita Usages.


Below is a link to chalacchitram(video) of Sri. Nityananda Mishra, which further emphasizes the same bhaava in Samskrita prayoga of the English way of saying, Thankyou, Welcome and 'How are you?'.


Be careful not to merely replace Thankyou by धन्योऽस्मि कृतकृत्योऽहं…in every context. For example, we end a talk or a meeting with the Shanti mantra and not ‘Thank you’

how to say Thankyou, Welcome and 'How are you?' in samskrita

Video series on Samskrita non-translatables : Samskrita non-translatables


Mrinaalini

March 2024

03 - पाठ्यांशाः उत पाठ्यबिन्दवः Mrinaalini bhagini, March 15, 2024, 11 AM