05---sArvadhAtukaprakaraNam-adantam-aGgam/03---tiGpratyayAnAM-siddhiH: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{| class="wikitable mw-collapsible"
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
!<big>ध्वनिमुद्रणानि -</big>
|-
|-

Revision as of 03:43, 30 May 2021

ध्वनिमुद्रणानि -


2016 वर्गः

१) tingpratyayAnAM-siddhiH_2016-08-31
२) tingpratyayAnAM-siddhiH---parasmaipadasya-loTi_2016-09-07
३) bAdhya-bAdhaka-cintanam---parasmaipade-loTaH-tingpratyaya-siddhyArtham_2016-09-14
४) AdeshaH---kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH_2016-09-21
५) AdeshaH---kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH--2_2016-09-28
2015 वर्गः
१) loT-lakArasya-ting-siddhiH_2015-03-24
२) aShTAdhyAyI-upayogaH_+_ting-pratyayAdeshaH_2015-03-31
३) loT-lakArasya_sUtrAdhAri-ting-pratyaya-cintanam_2015-04-07
2014 वर्गः
१) ting-siddhiH_2014-12-30



प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम्‌ | अधुना अङ्गं निर्मितम्‌ | जय, नय, भव, हर, तर, गाय, शोभ, कर्ष, लज, यत, वद, मुर्च्छ, वन्द इत्यादीनि भ्वादिगणीय-अङ्गानि साधितानि | ततः अग्रे क्रियापदस्य निर्माणार्थं किम्‌ अवशिष्टम्‌ ?


क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति—


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


गतकरपत्रे प्रथमं कार्यं जातम्‌— नाम, धातु-विकरणप्रत्ययोः मेलनेन अङ्गं निर्मितम्‌ | द्वितीयं कार्यं किम्‌ ? तिङ्‌प्रत्ययस्य सिद्धिः |


अत्र स्मर्तव्यं यत्‌ वस्तुतः विकरणप्रत्ययस्य आगमनार्थं, तिङ्‌प्रत्ययः आवश्यकः एव | प्रथमं धातुः अस्ति, तदा लकारः विवक्षितः, लकारस्य स्थाने तिङ्‌संज्ञकप्रत्ययः आगतः, तदा एव कर्तरि शप्‌ इत्यनेन विकरणप्रत्ययः आयाति | अतः प्रष्टुं शक्यते यत्‌ तिङ्‌प्रत्यय-सिद्धिः द्वितीयसोपानं कथं भवितुम्‌ अर्हति ? उत्तरम्‌ एवम्‌— प्रथम-सोपानस्य कृते तिङ्‌प्रत्ययस्य आवश्यकता अस्ति एव, सत्यम्‌ | मनसि एवं भवेत् | परन्तु क्रियापदस्य निर्माणार्थम्‌ अस्माकम्‌ अंशद्वयम्‌ अस्ति—अङ्गं, तिङ्‌प्रत्ययः च | द्वयोः पृथक्‌-पृथक्‌ यन्त्रागारम्‌ अस्ति | समय-दृष्ट्या तिङ्‌प्रत्ययः पूर्वम्‌ एव क्रियते | तथापि केवलं चिन्तनार्थम्‌ अनेन क्रमेण सौकर्यम्‌ अस्ति—प्रथमम्‌ अङ्गं निर्मामः, तदा तिङ्‌प्रत्ययं साधयित्वा आनयामः | अस्माकं पृथक्‌ यन्त्रागारे तिङ्‌प्रत्यय-सिद्धिः भवति, तावत्‌ एव |


तर्हि अधुना तिङ्‌प्रत्ययान्‌ साधयितुम्‌ इच्छामः | वदति, वदतः, वदन्ति इत्येषु क्रियापदेषु "ति, तः, अन्ति" इति तिङ्‌प्रत्ययाः सन्ति | तेषां तिङ्‌-संज्ञा भवति, अतः तिङ्‌संज्ञकप्रत्ययाः इत्युच्यन्ते | एते च प्रत्ययाः आरम्भे स्वमूल-रूपे सन्ति | आहत्य नव प्रत्ययाः परस्मैपदिधातूनां कृते, नव प्रत्ययाः आत्मनेपदिधातूनां कृते |


परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः


तिप्‌       तस्‌      झि

सिप्‌       थस्‌      थ

मिप्‌       वस्‌      मस्‌‍


आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः


त        आताम्       झ

थास्‌     आथाम्‌       ध्वम्‌

इड्‌         वहि        महिङ्‌


एषां नाम 'तिङ्‌' यतोहि तिप्‌ इत्यस्य 'ति' तः, आत्मनेपदिधातूनां कृते महिङ्‌ इत्यस्य 'ङ्‌' पर्यन्तं भवन्ति | आहत्य अष्टादश मूलप्रत्ययाः सन्ति | तर्हि तिप्‌ इत्यस्य 'ति‌' तः महिङ्‌ इत्यस्य 'ङ्‌' पर्यन्तम्‌; अतः ति + ङ्‌ = तिङ्‌ |


एभ्यः मूल-प्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते | एकैक-लकारस्य अष्टादश सिद्ध-प्रत्ययाः सन्ति (नव प्रत्ययाः परस्मैपदिधातूनां कृते, नव प्रत्ययाः आत्मनेपदिधातूनां कृते); एकैकस्य लकारस्य प्रत्ययाः भिन्नाः; परन्तु एषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिताः अष्टादश मूलाः |


अवधेयं यत्‌ अङ्गं द्विविधा—अदन्तम्‌ अनदन्तं च | तदाधारेण सिद्धप्रत्ययाः अपि द्विविधा | अदन्ताङ्गानां कृते सिद्धप्रत्ययाः भवन्ति; तेभ्यः अनदन्ताङ्गानां कृते च सिद्धप्रत्ययाः किञ्चित्‌ भिन्नाः | द्वयोः मध्ये बहुत्र साम्यम्‌ अस्ति; कुत्रचित्‌ एव भेदः | अधुना अस्माकम्‌ अवधानम् अदन्ताङ्गानां सिद्ध-तिङ्‌प्रत्ययेषु अस्ति |


एतावता यादृशी कार्यशैली वर्णिता, सा अत्यन्तं शक्तिशालिनी | अङ्गं साधयतु अङ्गयन्त्रागारे, तदा तिङ्प्रत्ययं साधयतु प्रत्यययन्त्रागारे; तदा द्वयं मेलयतु | एवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रागारं भवतु— यथा लट्‌-लकारे सर्वेषां द्विसहस्रस्य धातूनाम्‌ अङ्गं क्रमेण निर्मातु, तदा सिद्धप्रत्ययैः सह मेलयतु | एवं रीत्या लट्‌-लकारे कस्यचिदपि नैपुण्यं भविष्यति एव |


अस्मिन्‌ करपत्रे मूलप्रत्ययेभ्यः कथं (१) परस्मैपदि लट्‌-लकास्य, तदा (२) परस्मैपदि लोट्‌-लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः |


अस्य कार्यस्य कृते इत्‌-संज्ञाविज्ञानम्‌ आवश्यकम्‌ | पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन्‌ स्थले क्रमेण सर्वाणि इत्‌-संज्ञा-विधायक-सूत्राणि स्थापितानि (इत्‌-संज्ञाप्रकरणे) | तानि इत्‌-संज्ञा-विधायक-सूत्राणि षट् सन्ति; एकेन सूत्रेण इत्‌-संज्ञा निषिध्यते; अन्ते च अपरेण सूत्रेण इत्‌-संज्ञकः अंशः लुप्यते | सम्प्रति एषु अष्टसु सूत्रेषु सूत्रत्रयम्‌ अपेक्षते |


हलन्त्यम्‌ (१.३.३) = उपदेशेऽन्त्यं हलित्‌ स्यात्‌ | अनेन यस्य कस्यापि अंशस्य अन्ते हल्‌-वर्णः भवति, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | धातोः अन्ते वा, प्रत्ययस्य अन्ते वा, द्वयोरपि अन्ते हलः इत्‌-संज्ञा भवति | यथा शप्‌ इत्यस्मिन्‌ प्‌ इत्यस्य इत्‌-संज्ञा | णिच्‌ इत्यस्मिन्‌ च्‌, डुकृञ्‌ इत्यस्मिन्‌ ञ्‌, श्यन्‌ इत्यस्मिन्‌ न्‌ |


तस्य लोपः (१.३.९) = यस्य इत्‌-संज्ञा जाता, तस्य लोपः भवति | यथा शप्‌-प्रत्यये पकारस्य इत्‌-संज्ञा, लोपः च |


न विभक्तौ तुस्माः (१.३.४) = धातूनां तिङ्‌-प्रत्ययाः, सुबन्तानाम्‌ (इत्युक्ते नामपदानां) सुप्‌-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते (विभक्तिश्च इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्‌, थ्‌, द्‌, ध्‌, न्‌), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं हलन्त्यम्‌ इत्यस्य कार्यं बाधते | हलन्त्यम्‌ इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न विभक्तौ तुस्माः इत्यनेन इत्‌-संज्ञा बाधिता भवति; अनेन इत्‌-संज्ञा न भवति | यथा सुप्‌-प्रत्ययाः जस्‌, भ्याम्‌, भिस्‌, अपि च तिङ्‌-प्रत्ययाः तस्‌, वस्‌, मस्‌—अत्र भ्याम्‌ इत्यस्य मकारः, तस्‌ इत्यस्य सकारः, एषां वर्णानाम्‌ इत्‌-संज्ञा भवति स्म, किन्तु न भवति | अवधेयं यत्‌ धातुषु अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः धातोः अन्ते एते वर्णाः (तवर्गीय-वर्णाः, सकारः, मकारः च) भवन्ति चेत्‌, तेषाम्‌ इत्‌-संज्ञा भवति, लोपः भवति च |


परस्मैपदे लट्‌-लकारस्य तिङ्‌-प्रत्यय-सिद्धिः

मूलम्‌—

तिप्‌      तस्‌      झि

सिप्‌      थस्‌      थ

मिप्‌      वस्‌      मस्‌‍


तिप्‌ - हलन्त्यम्‌, तस्य लोपः इत्याभ्यं सूत्राभ्यां पकारस्य लोपः → "ति" इति लट्‌ प्रत्ययः निष्पन्नः |

तस्‌ - न विभक्तौ तुस्माः इत्यनेन सकार-लोपः निषिध्यते → ससजुषो रुः इत्यनेन स्‌-स्थाने "रु”, खरवसानयोर्विसर्जनीयः इत्यनेन रु-स्थाने विसर्गः | तस्‌ → स्‌-लोपः निषिध्यते → स्‌-स्थाने रु → तरु → रु स्थाने "ः" → "तः" इति लट्‌ प्रत्ययः निष्पन्नः |

झि - झि → झ्‌ + इ → झोऽन्तः ("झ्‌" स्थाने अन्त्‌ आदेशः) → अन्त्‌ + इ → "अन्ति" इति लट्‌ प्रत्ययः निष्पन्नः |

सिप्‌ - हलन्त्यम्‌, तस्य लोपः इत्याभ्यं सूत्राभ्यां पकारस्य लोपः → "सि" इति लट्‌ प्रत्ययः निष्पन्नः |

थस्‌ - न विभक्तौ तुस्माः इत्यनेन सकार-लोप-निषेधः; स्‌-स्थाने "रु”, रु-स्थाने विसर्गः | थस्‌ → स्‌-लोपः निषिध्यते → स्‌-स्थाने रु → थरु → रु-स्थाने "ः" → "थः" इति लट्‌ प्रत्ययः निष्पन्नः |

थ – किमपि कार्यं नास्ति | "थ" इत्येव लट्‌ प्रत्ययः निष्पन्नः |

मिप् - हलन्त्यम्‌, तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः → "मि" इति लट्‌ प्रत्ययः निष्पन्नः |

वस्‌, मस् - न विभक्तौ तुस्माः इत्यनेन सकार-लोपः निषिध्यते; स्‌-स्थाने "रु”, रु-स्थाने विसर्गः | वस्‌ → स्‌-लोपः निषिध्यते → स्‌-स्थाने रु → वरु → रु-स्थाने "ः" → "वः" इति लट्‌ प्रत्ययः निष्पन्नः | तथैव अपि मस्‌ → "मः" |


ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |


विरामोऽवसानम्‌ (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |


खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |


झोऽन्तः (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌ प्रत्ययस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य प्रत्ययस्य झः अन्तः |


अतः लटि सिद्ध-प्रत्ययाः—

ति    तः    अन्ति

सि    थः     थ

मि     वः     मः


परस्मैपदे लोट्‌-लकारस्य तिङ्‌-प्रत्यय-सिद्धिः

मूलम्‌—

तिप्‌      तस्‌      झि

सिप्‌      थस्‌      थ

मिप्‌      वस्‌      मस्‌‍


नियमाः—

१. परस्मैपदस्य लोटः तिङ्‌प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति |

२. "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु* लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः |

३. लोटि मि-स्थाने नि आदेशः |

४. उत्तमपुरुषे आड्‌ आगमः | प्रत्ययानाम्‌ आदौ "आ" इति युज्यते |

५. वस्‌ मस्‌ ङित्सु लकारेषु* लोटि च अनयोः स्थितस्य सकारस्य लोपः |

६. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः |

७. अङ्गम्‌ अदन्तं चेत्‌ तस्य हि-प्रत्ययस्य लोपः |

८. तिप्‌ सिप्‌ इत्यनयोः स्थाने विकल्पेन तात्‌ आदेशः |


* ङित्‌ लकाराः = ङकारः इत्‌ येषां ते (लङ्‌, लिङ्‌, लुङ्‌, लृङ्‌) | लोट्‌ ङिद्वत्‌ भवति, अतः यत्र ङित्‌-लकाराणां सार्वत्रिकः नियमः भवति, बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः |


तर्हि नियमान्‌ अनुसृत्य कार्यम्‌ एवम्‌—

तिप्‌ → पकारलोपः → ति → "तु" इति लोट्‌ प्रत्ययः निष्पन्नः |

तस् → "ताम्" इति लोट्‌ प्रत्ययः निष्पन्नः |

झि → अन्त्‌ + इ → अन्ति → "अन्तु" इति लोट्‌ प्रत्ययः निष्पन्नः |

सिप्‌ → सिप्‌ स्थाने हि → हि लोपः → "०" अत्र किमपि न युज्यते |

थस → "तम्‌" इति लोट्‌ प्रत्ययः निष्पन्नः |

थ → "त" इति लोट्‌ प्रत्ययः निष्पन्नः |

मिप्‌ → नि → "आनि" इति लोट्‌ प्रत्ययः निष्पन्नः |

वस्‌ → व → "आव" इति लोट्‌ प्रत्ययः निष्पन्नः |

मस्‌ → म → "आम" इति लोट्‌ प्रत्ययः निष्पन्नः |


लोटि सिद्ध-प्रत्ययाः—

तु, तात्‌     ताम्‌     अन्तु

०, तात्‌     तम्‌       त

आनि       आव     आम


परस्मैपदे लोट्‌-लकारस्य तिङ्‌-प्रत्यय-सिद्धिः— सूत्राणि


लोटः तिङ्‌-सम्बद्ध-सूत्राणि अत्र स्थाप्यन्ते | उपरि नियमाः प्रदर्शिताः; तान्‌ आधारीकृत्य तिङ-प्रत्ययानां कार्यम्‌ अपि प्रदर्शितम्‌ | तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि, तानि अधः प्रतिपादितानि |

यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते, तत्र प्रत्ययादेशः इत्युच्यते | अष्टाध्याय्यां प्रत्ययादेशः लभ्यते केवलं द्वयोः स्थानयोः— ३.४, ७.१ च | धेयं यत्‌ एकं सूत्रं विहाय अधस्स्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति | एकं सूत्रं अतो हेः (६.४.१०५) अङ्गकार्यं न तु प्रत्ययादेशः, अतः षष्ठाध्यये | पुनः ३.४, ७.१-मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि ३.४-मध्ये सन्ति | ३.४-मध्ये लस्य (३.४.७७) इत्यस्य अधिकारः | लस्य इत्यस्य अधिकारः ३.४.७७ - ३.४.११२ यावत्‌ | दश लकाराः सन्ति; अनुबन्धलोपानन्तरं सर्वेषां दशानां 'ल्‌' इत्येव अवशिष्यते | लस्य इति सूत्रं तस्य 'ल्‌' इत्यस्य एव षष्ठ्यन्तं रूपम्‌ (अकारः उच्चारणार्थम्‌) |


नियमाः—

१. परस्मैपदस्य मूल-तिङ्‌प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति |


एरुः (३.४.८६) = लोट्‌-लकार-सम्बद्ध-इकारस्य स्थाने उकारादेशः भवति | लोट इकारस्य उः | एः षष्ठ्यन्तं, उः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | लोटो लङ्वत्‌ (३.४.८५) इत्यस्मात्‌ सूत्रात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य एः उः |


२. "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः |


तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः | तश्च थश्च थश्च मिप्‌ च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम्‌ | ताम्‌ च तम्‌ च तश्च अम्‌ च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ङितः लस्य तस्थस्थमिपां तान्तन्तामः |


लोटो लङ्वत् (३.४.८५) = प्रत्ययादेशानां कृते लोट्‌-लकारः लङ्‌ इव भवति | अतिदेशसूत्रम्‌ | लोटः षष्ठ्यन्तं, लङ्‌वत्‌ अव्ययं, द्विपदमिदं सूत्रम् | कानिचन कार्याणि केवलं ङित्सु भवन्ति | लोट्‌ टित्‌ न तु ङित्‌, अतः यत्र ङित्सु किञ्चन कार्यं भवति, लोटि "ङित्सु भवतु" इत्यनेन तर्केण लोटि तत्कार्यं नार्हम्‌ | अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धम्‌ | सूत्रं स्वयं सम्पूर्णम्— लोटः लङ्वत् |


अत्र 'लङ्‌वत्‌' ङिद्वत्‌ इत्यर्थे एव दत्तं; ङित्सु लकारेषु लङ्‌ अन्तर्भवति अतः लङ्‌ ङितः 'उपलक्षणम्‌'; उदाहरणरूपेण, प्रतिनिधिरूपेण ङित्‌-स्थाने लङ्‌ स्वीक्रियते | अतः ङिद्वत्‌ इत्येव वक्तुं शक्यते, न कोऽपि भेदः | यतोहि यत्‌ किमपि कार्यं भवति ङित्सु, तत्कार्यं लङि अपि भवति यतः लङ्‌ ङित्‌ |


अग्रे तर्हि लोट्‌ लङ्वत् ‍इति चेत्‌, पाणिनिना किमर्थं लोट्‌ टित्‌ कृतं न तु साक्षात्‌ ङित्‌ ? कुतः लोट्‌-स्थाने नामकरणं 'लोङ्‌' न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ टित्सु लकारेषु यानि कार्याणि भवन्ति, तानि अपि अपेक्षितानि भवन्ति लोटि | यथा आत्मनेपदे टित आत्मनेपदानां टेरे (३.४.७९) इति सूत्रेण टित्सु लकारेषु विशिष्टकार्यं वक्ष्यमाणं; तत्‌ कार्यमपि अपेक्षितं लोटि | लोट्‌ 'लोङ्‌' यदि स्यात्‌, तर्हि एतादृशानि कार्याणि लोटि न स्युः |


कानिचन च कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि | आहत्य सप्तसु स्थलेषु लङि तिङ्‌-आदेशाः सन्ति—


१) नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति |

२-५) तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः |

६) इतश्च (३.४.१००) = ङित्‌-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्‌प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |

७) सिजभ्यस्तविदिभ्यश्च (३.४.१०९), लङः शाकटायनस्यैव (३.४.१११) इति सूत्राभ्यां लङि कुत्रचित्‌ झि-स्थानि जुस्‌-आदेशः |


एषु सप्तसु स्थलेषु लोटः प्रसङ्गः भवति चतुर्षु स्थलेषु— नित्यं ङितः (३.४.९९) इत्यनेन स्‌-लोपः वसि मसि च; तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन तसः ताम्‌, थसः तम्‌, थ-स्थाने त च | मिपः अम्‌ बाधितं भवति मेर्निः (३.४.८९) इत्यनेन; इतश्च (३.४.१००) बाधितं भवति एरुः (३.४.८६) इत्यनेन; सिजभ्यस्तविदिभ्यश्च (३.४.१०९), लङः शाकटायनस्यैव' (३.४.१११) इत्यनयोः जुस्‌-आदेशः कथं न भवति लोटि इत्यस्मिन्‌ विषये महती चर्चा | केचन वदन्ति यत्‌ विदो लटो वा (३.४.८३) इत्यस्मात्‌ वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्‌; अन्ये वदन्ति यत्‌ लङ्वत्‌ इत्यस्मिन्‌ वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम्‌ अनित्यम्‌' इति प्रसिद्धवाक्यम्‌ | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत्‌ लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम्‌ अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः सिजभ्यस्तविदिभ्यश्च (३.४.१०९), लङः शाकटायनस्यैव' (३.४.१११) इति सूत्राभ्यां कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्‌' इति तत्र न गच्छति |


३. लोटि अम्‌ स्थाने नि आदेशः |


मेर्निः (३.४.८९) = लोट्‌-लकारे मि इत्यस्य स्थाने नि-आदेशो भवति | मेः षष्ठ्यन्तं, निः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | लोटो लङ्वत्‌ (३.४.८५) इत्यस्मात्‌ सूत्रात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य मेः निः |


४. उत्तमपुरुषे आड्‌ आगमः | प्रत्ययानाम्‌ आदौ "आ" इति युज्यते | पित्त्वम्‌ आरोपितम्‌ |


आडुत्तमस्य पिच्च (३.४.९२) = लोट्‌-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्‌-आगमो भवति, अपि च तस्य पित्त्वं भवति | आद्यन्तौ टकितौ इत्यनेन आट्‌-आगमः प्रत्ययात्‌ प्राक्‌ आयाति | आड्‌ प्रथमान्तम्‌, उत्तमस्य षष्ठ्यन्तं, पित् प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लोटो लङ्वत्‌ (३.४.८५) इत्यस्मात्‌ सूत्रात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य उत्तमस्य आट्‌ पित्‌ च |


५. वस्‌ मस्‌ ङित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः |


नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | येन विधिस्तदन्तस्य (१.१.७७) इत्यनेन तादृशः उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य सकारस्य एव लोपो भवति, न तु पूर्णतया प्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणं, ङितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | स उत्तमस्य (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ङितः लस्य सः उत्तमस्य नित्यं लोपः |


६. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः | अपित्त्वम्‌ आरोपितम्‌ |


सेर्ह्यपिच्च (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लोटो लङ्‌वत्‌ (३.४.८५) इत्यस्मात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य सेः हि अपित्‌ च |


७. अङ्गम्‌ अदन्तं चेत्‌ तस्य हि-प्रत्ययस्य लोपः |


अतो हेः (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | चिणो लुक्‌ (६.४.१०४) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य‌ (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात्‌ भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गात्‌ हेः लुक्‌ |


लोटि नवसु सिद्ध-तिङ्‌प्रत्ययेषु हि-प्रत्ययः एक एव यस्य रूपं परिवर्तते अङ्गम्‌ अदन्तम्‌ अनदन्तं चेति अवलम्ब्य |


८. तिप्‌ सिप्‌ इत्यनयोः स्थाने विकल्पेन तात्‌ आदेशः |


तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५) = तु हि इत्यनयोः स्थाने विकल्पेन तात्‌ आदेशः भवति आशीर्वादार्थे | ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌ (८.३.३२) इत्यनेन प्रकृतसूत्रे तातङ्‌ इति पदात्‌ ङुट्‌-आगमः | तुश्च हिश्च तयोरितरेतरद्वन्द्वः तुही, तयोः तुह्योः | तुह्योः षष्ठ्यन्तं, तातङ्‌ प्रथमान्तम्‌, आशिषि सप्तम्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |


Bonus


अत्र प्रश्नः उदेति अयं तातङ्‌-आदेशः कस्य स्थाने आयाति ?

1. यः कोऽपि आदेशः, सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलोऽन्त्यस्य (१.१.५२) | अनेन, आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति | अयम्‌ अन्तादेशः इत्युच्यते—


अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | परिभाषासूत्रम्‌ | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात्‌ षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |


यथा—


सार्वधातुकार्धधातुकयोः (७.३.८४) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


भू + शप्‌ इति स्थितौ चिन्तयतु | अनुवृत्ति-सहितसूत्रे 'अङ्गस्य गुणः' इत्यनेन सर्वस्य अङ्गस्य स्थाने गुणादेशः स्यात्‌ | किन्तु अलोऽन्त्यस्य (१.१.५२) इति परिभाषासूत्रस्य साहाय्येन तथा न भवति—


भू + शप्‌ → भू + अ → अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः → भो + अ → भव


2. किन्तु आदेशे एकस्मात्‌ अधिकाः वर्णाः सन्ति चेत्‌, अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन पूर्णस्थानिनः स्थाने भवति—


अनेकाल्शित्‌ सर्वस्य (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम्‌ अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाल्शित्‌ सर्वस्य स्थाने |


यथा—


ज्ञाजनोर्जा (७.३.७९) = ज्ञा (क्र्यादिगणे), जन्‌ (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल्‌ अतः अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन्‌ च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात्‌ शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ज्ञाजनोः अङ्गस्य जा शिति |


जन्‌-धातुः आत्मनेपदी—


जनीँ → अनुबन्धलोपे जन्‌ → जन्‌ + श्यन्‌ → ज्ञाजनोर्जा (७.३.७९) इत्यनेन शिति परे जा-आदेशः, अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन स च सर्वादेशः → जा + य → जाय इति अङ्गम्‌ → जाय + ते → जायते


3. अधुना स च अनेकाल्‌ आदेशः ङित्‌ चेत्‌, अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति—


ङिच्च (१.१.५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ अनेकाल्शित्‌ सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित्‌ सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात्‌ अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ङिच्‌ च अन्त्यस्य अलः स्थाने |


यथा—


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि |


तुदादिगणे श इति विकरणप्रत्ययः, अनुबन्धलोपे 'अ' इति अजादि-प्रत्ययः | रि गतौ इति इकारान्त-धातुः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अचि परे इकारान्त-धातूनाम्‌ इयङ्‌-आदेशः | इयङ्‌ इति आदेशः अनेकाल्‌, किन्तु ङित्‌ अपि अस्ति अतः ङिच्च (१.१.५३) इति सूत्रेण अन्तादेशः |


तुदादिगणे रि गतौ → रि + श → रि + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अचि परे इयङ्‌-आदेशः, ङिच्च (१.१.५३) इत्यनेन स च अन्तादेशः → र्‍ + इय्‌ + अ → रिय इति अङ्गम्‌ → रिय + ति → रियति


वैशिष्ट्यम्‌ अत्र इदं यत्‌ इयङ्‌-आदेशे ङित्‌ इत्यस्य अन्यत्‌ किमपि कार्यं नास्ति | ङित्त्वात्‌ अन्तादेशः इत्येव प्रयोजनम्‌ |


4. अधुना तातङ्‌-आदेशः अपि अनेकाल्‌, ङित्‌ च | अतः नियमानुसृत्य ङिच्च (१.१.५३) इत्यनेन अन्तादेशः— अन्त्यस्य अलः स्थाने स्यात्‌ | यथा तिप्‌ → तु‌ → तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५), ङिच्च (१.१.५३) इत्यनेन उकारस्य स्थाने तातङ्‌ → त्‌ + तात्‌ |


किन्तु एवं भवति चेत्‌, सिद्धं रूपं 'त्तात्‌'; तत्‌ तु इष्टं रूपं नास्ति | इष्टम्‌ अस्ति तात्‌, नाम तु-स्थाने सर्वादेशः | तदर्थम्‌ अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन कार्यं स्यात्‌ | परन्तु तातङ्‌ ङित्‌— तस्मात्‌ इष्ट-सूत्रेण कार्यं कथं साधयितुं शक्येत ?


समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते—


"आशिषि तुह्योस्तातङ्‌ वा स्यात्‌ | अनेकाल्त्वात्सर्वादेशः। यद्यपि ङिच्च इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते | इहोत्सर्गापवादयोरपि समबलत्वात् | भवतात् |”


'यद्यपि ङिच्च इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थः'— अस्य अर्थः एवं यत्‌ यद्यपि ङिच्च (१.१.५३) इति अपवादभूत-सूत्रेण तातङ्‌ ङित्त्वात्‌ अन्त्यस्य अलः स्थाने स्यात्‌, तथापि इदं सूत्रं ङिच्च (१.१.५३) 'अनन्यार्थङित्त्वेष्वनङादिषु चरितार्थः' | नाम, येषाम्‌ आदेशानां ङित्त्वस्य एकम्‌ एव प्रयोजनम्‌ 'अन्तादेशः', तेषां द्वारा ङिच्च (१.१.५३) इति सूत्रस्य साफल्यम्‌ | तेषु अनन्य-अर्थ-ङित्त्वेषु अनङादिषु ङिच्च (१.१.५३) इति सूत्रस्य अर्थः पूरितः |


अत्र सिद्धान्तकौमुदी-वृत्तौ अनङ्‍ इत्यादेशस्य दृष्टान्तः दीयते | अनङ्‌ अपि अनेकाल्‌-आदेशः, ङित्‌ च |


अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (७.१.७५) = तृतीयादि-अजादि-विभक्तिषु परेषु अस्थि, दधि, सक्थि, अक्षि च एषां शब्दानाम्‌ अनङ्‌-आदेशो भवति |


तृतीयाविभक्तौ दधि + टा-प्रत्ययः → दधि + आ → अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (७.१.७५) इत्यनेन अनङ्‌-आदेशः, ङिच्च (१.१.५३) इत्यनेन अन्तादेशः → दध्‌ + अन्‌ + आ → दधन्‌ + आ → अल्लोपोऽनः (६.४.१३४) इत्यनेन सर्वनामस्थानभिन्न-यकारादौ अजादौ च स्वादि-प्रत्यये परे अङ्गस्य अन्‌-अवयवस्य अकार-लोपः → दध्न्‌ + आ → दध्ना


एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु अजादिषु स्वादिषु प्रत्ययेषु तथा भवति | दधि + ए → दधन्‌ + ए → दध्ने | दधि + अस्‌ → दधन्‌ + अस्‌ → दध्नः | दधि + ओस्‌ → दध्नोः | दधि + आम्‌ → दध्नाम्‌ |


सु     औ     जस्‌               स्‌      औ    अस्‌

अम्‌   औट्‌   शस्‌              अम्‌    औ    अस्‌

टा    भ्याम्‌   भिस्‌             आ     भ्याम्‌   भिस्‌

ङे    भ्याम्‌   भ्यस्‌              ए      भ्याम्‌   भ्यस्‌

ङसि  भ्याम्‌  भ्यस्‌               अस्‌   भ्याम्‌   भ्यस्‌

ङस्‌  ओस्‌   आम्‌               अस्‌   ओस्‌   अम्‌

ङि   ओस्‌    सुप्‌               इ      ओस्‌    सु


तर्हि वृत्तौ टीकाकारः अनङ्‌-आदेशस्य उदाहरणम्‌ अददत्‌ किमर्थम्‌ ? अनङ्‌-आदेशः दधि-शब्दस्य इकारस्य एव स्थाने आयाति न तु पूर्णस्य दधि-शब्दस्य, यतोहि अनङ्‌ यद्यपि अनेकाल्‌, तथापि ङित्‌ अस्ति अपि च तस्य ङित्त्वस्य अन्यत्‌ किमपि प्रयोजनं नास्ति | एतादृशैः आदेशैः ङिच्च (१.१.५३) इति सूत्रस्य अपवादबलं पूरितम्‌ |


किन्तु क्वचित्‌ कस्यचित्‌ आदेशस्य ङित्त्वस्य अनेकानि प्रयोजनानि सन्ति | यथा तातङ्‌-प्रत्ययः, तस्य विद्यमानस्य ङित्त्वस्य चत्वारि प्रयोजनानि सन्ति ङिच्च इति सूत्रं विहाय |


१. प्रथमं प्रयोजनं गुण-निषेधः | द्विष्‌ इति परस्मैपदिधातुः अदादिगणे, तत्र च विकरणप्रत्ययस्य लुक्‌ (लोपः) | द्विष्‌ + तातङ्‌ | तातङ्‌ तु-प्रत्ययस्य स्थाने आगतः अपि च तु-प्रत्ययः पित्‌ इत्यस्मात्‌ आगतः; अनेन तातङ्‌ इत्यस्यापि पित्त्वं; पित्त्वात्‌ गुणः भवेत्‌ | द्विष्‌-धातोः उपधायां यः लघु-इकारः, तस्य गुणः प्राप्तः पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रेण | किन्तु तातङ्‌ ङित्‌, अतः क्क्ङिति च (१.१.५) इति सूत्रेण गुण-निषेधः, द्विष्‌ + तातङ्‌ → द्विष्टात्‌ |


२. द्वितीयं प्रयोजनं वृद्धि-निषेधः | वृद्धिविषये स्तु-धातुः अदादिगणे | स्तु + तात्‌ इति स्थितौ उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यनेन सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रं प्रबाध्य वृद्धिम्‌ आदिशति | परन्तु तातङ्‌ ङित्‌, अतः क्क्ङिति च (१.१.५) इति सूत्रेण वृद्धि-निषेधः, स्तु + तातङ्‌ → स्तुतात्‌ |


३. तृतीयं ङित्त्वनिमित्तकं कार्यं सम्प्रसारणम्‌ | अग्रे अस्माभिः बहुत्र सम्प्रसारणकार्यं परिशीलयिष्यते | अधुना केवलं बोध्यं यत्‌ कुत्रचित्‌ यण्‌-सन्धेः विपरीतत्वेन कार्यं भवति | सम्प्रसारणं भवति ङित्त्वेन कित्त्वेन च | यथा ग्रह्‌-धातुतः क्तवतौ, प्रत्ययस्य कित्त्वात्‌ ग्रह्‌ → गृह्‌, अनेन गृहीतवान्‌ | तथैव वस्‌-धातोः क्तवतौ वस्‌ → उस्‌, अनेन उषितवान्‌ | अत्र प्रकृतौ, अदादिगणे वश्‌ इत्यपि सम्प्रसारणिधातुः | वश्‌ + तातङ्‌ → ङित्त्वात्‌ सम्प्रसारणम्‌ → उष्टात्‌ |


४. चतुर्थं प्रयोजनं ईट्‌-आगम-निषेधः | ब्रुव ईट् (७.३.९३) इत्यनेन ब्रू-धातुतः हलादि-पित्‌-प्रत्ययस्य ईट्‌-आगमो भवति | यथा ब्रू + तिप्‌ → ब्रू + ति → ब्रू + ईट्‌ + ति → ब्रू + ईति → ब्रो + ईति → ब्र् + अव्‌ + ईति → ब्रवीति | तातङ्‌ अपि हलादिः, अपि च तु-स्थाने आयाति इति कृत्वा पित्त्वं विधीयते | किन्तु ङित्त्वात्‌ पित्त्वं न मन्यते— प्रामाण्येन महाभाष्ये वाक्यम्‌ अस्ति 'ङिच्च पिन्न, पिच्च ङिन्न' | तस्मात्‌ अत्र पित्त्वाभावे ब्रुव ईट् (७.३.९३) इत्यस्य प्रसक्तिर्नास्ति | ङित्त्वात्‌ अत्र गुणनिषेधः अपि अस्ति | ब्रू + तात्‌ → ब्रूतात्‌ |


'गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते' | गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया—अत्र गुण-वृद्धि-निषेधः, सम्प्रसारण-आद्यर्थता, तया | तातङि ङित्त्वस्य विभिन्नानि प्रयोजनानि सन्ति, तेषां प्रभावेन— तेषां प्रभावेन अग्रे उच्यते किं भवति | 'सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः'— 'सम्भवत्प्रयोजनङकारे' इत्युक्तौ यस्य ङकारस्य सम्भावितप्रयोजनानि, विभिन्नप्रयोजनानि | अनङ्‌-आदेशे ङित्त्वस्य अनन्यप्रयोजनम्‌ | न विद्यते अन्यत्प्रयोजनं यस्य, तदनन्यप्रयोजनम्‌ | तातङ्‌-आदेशस्य ङित्त्वस्य विभिन्नप्रयोजनानि— सम्भवन्ति प्रयोजनानि अन्यान्यापि यस्य सः सम्भवत्प्रयोजनः | तादृशङकारयुक्तादेशे तातङि ङिच्च (१.१.५३) इति सूत्रं प्रति शिथिलता, मन्थरगतिः आयाति |


'इहोत्सर्गापवादयोरपि समबलत्वात्'— अत्र उत्सर्गस्य अपवादस्य च समबलं भवति | अनेन तातङि ङित्त्वस्य ङिच्च (१.१.५३) इति सूत्रं प्रति अपवादबलं न निर्वहति | तस्मात्‌ ङिच्च (१.१.५३) इति अपवादभूतसूत्रं 'परेण बाध्यते'— सामान्यसूत्रेण बाध्यते |


विविधकार्यैः तातङः विषये मन्दगत्या प्रवृत्तिः भवति | यथा कश्चन लोकन्यायः अस्ति यत्‌ यः बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति | यः तस्मिन्‌ एव क्षणे खादितवान्‌, उदरं पूरितं, तस्य भोजनविषये, प्रवृत्तौ मन्थरगतिः आयाति | एवमेव तातङः ङित्त्वस्य अनेकानि कार्याणि अभवन्‌ एव, यस्मात्‌ ङिच्च (१.१.५३) प्रति तादृशी प्रवृत्तिः नास्ति, अतः अपवादत्वस्य बलं नश्यति |


अधुना यदा अपवादस्य बलं नास्ति, तदा पूर्वपरत्वं परिशीलनीयं भवति | ङिच्च (१.१.५३), अनेकाल्शित्‌ सर्वस्य (१.१.५५) इति सूत्रद्वयमपि सपादसप्ताध्याय्याम्‌ अतः अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यस्य परत्वात्‌ बलम्‌ | तदर्थं च सिद्धान्तकौमुद्याम्‌ उच्यते, “इहोत्सर्गापवादयोरपि समबलत्वात् | भवतात् |” एतस्मात्‌ तातङ्‌ अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन न केवलम्‌ उकारस्य अपि तु तु-प्रत्ययस्य पूर्णतया स्थाने आयाति |


Swarup March 2013 (Updated March 2015, Sept 2016)


परिशिष्टम्‌


अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि अदन्ताङ्गानां लट्‌ च लोट्‌ चेतनयोः तिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌—


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].


३ - तिङ्‌-प्रत्यय-सिद्धिः.pdf (92k) Swarup Bhai, Mar 31, 2019, 6:12 AM v.1