05---sArvadhAtukaprakaraNam-adantam-aGgam/11---curAdigaNe-visheShadhAtavaH: Difference between revisions

From Samskrita Vyakaranam
05---sArvadhAtukaprakaraNam-adantam-aGgam/11---curAdigaNe-visheShadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
(Added section 6 and footnote. Removed extra character copy paste brought over for new line. Underlined the six headings. Added new lines above and below headings.)
(Added spacing between sections same as orginal page)
Line 22: Line 22:

१. <u>अदन्तधातवः</u> (93 धातवः)
१. <u>अदन्तधातवः</u> (93 धातवः)

चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम्‌ अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्‌-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः एकं सूत्रम्‌ अस्ति '''अतो लोपः''', यस्य द्वारा अकार-लोपः सिध्यति—

Line 28: Line 29:

णिच्‌-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य प्रसक्तिः भवति |

यथा—
यथा—
Line 36: Line 38:

इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |

'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

अनयोः सूत्रयोः प्रसक्तिः स्यात्‌ | परन्तु अनेन परिभाषा-सूत्रेण लोपः लुप्त-अकारः इव भवति—

'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात्‌ '''स्थानिवत्‌''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ''' |

इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः लोपः स्थानिवत्‌ नाम ह्रस्व-अकारः इव | अनेन कारणेन '''अत उपधायाः''' इति सूत्रस्य दृष्ट्या कथ्‌-धातुः 'कथ' इतिवत्‌ दृश्यते | तस्मात्‌ उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—

कथ + णिच्‌ → '''अतो लोपः''' → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' → कथ्‌ धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति |

Line 64: Line 67:

प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत्‌ अनुनासिको न, तर्हि किमर्थं '''अतो लोपः''' (६.४.४८) इत्यस्य स्थाने '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अतः वृद्धिः न स्यात्‌ ? द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः अस्ति, अपि च '''अचो ञ्णिति''' (७.२.११५) इति परसूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्य निमित्तम्‌ 'आर्धधातुके परे', अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य अवकाशः | अतः '''अचो ञ्णिति''' (७.२.११५) इत्यस्य परत्वात्‌ वृद्धिः भवेत्‌ |

प्रत्युत्तरम्‌ एवं यत्‌ '<nowiki/>'''आर्धधातुके'''<nowiki/>' इत्यनेन विषयसप्तमी मन्यते चेत्‌, '''अतो लोपः''' (६.४.४८) इत्यस्य कार्यं भविष्यति; '<nowiki/>'''आर्धधातुके'''<nowiki/>' इत्यनेन परसप्तमी मन्यते चेत्‌, परत्वात्‌ '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः | विषयसप्तमी नाम यदा हि विचारः आयाति यत्‌ आर्धधातुकप्रत्ययः आगमिष्यति, तदा हि तेन निर्दिष्टं कार्यं सिध्यति— आर्धधातुकप्रत्ययस्य आगमनात्‌ प्रागेव | ''''आर्धधातुके'''<nowiki/>' इति यदा विषयः उदेति यत्‌ आर्धधातुकप्रत्ययः आगम्यमानः— तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम्‌ आगम्यमानः— तदानीम्‌ '''अतो लोपः''' (६.४.४८) इत्यनेन अतः लोपो भवति | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मिन्‌ परसप्तमी अतः ञित्‌ णित्‌ प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेत्स्यति | अत्र बहुसंख्यता विषयसप्तमीं मन्यते; अस्मिन्‌ पक्षे कथयति इति रूपम्‌ | परन्तु केचन परिगणिताः वदन्ति यत्‌ अत्र परसप्तमी स्यात्‌; तेषां मतेन कथायति इति रूपम्‌ |

<nowiki>*</nowiki>'''अतो लोपः''' (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम्‌ '''उपदेशे''' इत्युक्तम्‌ | उत्तरम्‌ एवं यत्‌ अनुवृत्तौ '''उपदेशे''' इति यदि नाभविष्यत्‌, तर्हि कासुचित्‌ स्थितिषु (अनुपदेशावस्थायाम्‌) इष्टं रूपं न प्राप्स्यत्‌ | यथा— भ्वादिगणे अय्‌ गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप्‌ |

अय्‌ + क्विप्‌ → अनुबन्धलोपे → अय्‌ + व्‌ → '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः → अ + व्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अ-लोपः, '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → शून्यम्‌ अवशिष्यते |

अतः '''उपदेशे''' नास्ति चेत्‌ इष्टं रूपं न प्राप्यते | '''उपदेशे''' अस्ति चेत्‌ अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |

अ + व्‌ → '''ह्रस्वस्य''' '''पिति कृति तुक्‌''' (६.१.७०) इत्यनेन तुक्‌-आगमः → अत्‌ + व्‌ → '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्‌-लोपः → अत्‌ इति इष्टं रूपं प्राप्तम्‌ |

Line 79: Line 85:

कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |

'''कृपो रो लः''' (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे '''कृपो''' → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— '''कृपः उः कृपः रः लः''' |

यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलम्‌; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |

लटि कल्पयति/ते | कृप्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → '''कृपो रो लः''' (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते

लिट्‌-लकारे गुणनिषेधत्वात्‌ ऋकारस्य उदाहरणम्‌—

लिटि चकॢपे | कृप्‌ + ए → द्वित्वम्‌ अभ्यासकार्यम्‌ च → चकृप्‌ + ए → '''कृपो रो लः''' (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप्‌ + ए → चकॢपे

प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप्‌ न स्यात्‌ ? उतरम्‌ अस्ति यत्‌ वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम्‌ इङ्गितम्‌ | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्‌ |

३. <u>कॄत्‌-धातोः विधिः</u>
३. <u>कॄत्‌-धातोः विधिः</u>

कॄत संशब्दने = प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति |

'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' '''उपधायाश्च''' |

अनेन कॄत्‌ धातोः ॠकारस्य ह्रस्व-इकारादेशः भवति |

स्मारणार्थं यत्र धातुः ऋकारान्तः, तत्र '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यनेन ऋकारस्य स्थाने इकारादेश | यथा तुदादिगणे अस्माभिः दृष्टम्— कॄ-धातोः ॠकारः → इ आदेशः, कॄ → कि → '''उरण्‌ रपरः''' इत्यनेन रपरः → किर् → किर्‍ + अ + ति → किरति |

'''ॠत इद्‌ धातोः''' (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ऋतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ऋतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |

Line 120: Line 134:

कीर्तय + ति/ते → कीर्तयति/कीर्तयते
कीर्तय + ति/ते → कीर्तयति/कीर्तयते

'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |

[सत्वं, नत्वं, नुमागमः] उपधादीर्घः |
[सत्वं, नत्वं, नुमागमः] उपधादीर्घः |

'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌ उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' एषाम्‌ अनुवृत्तिः | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः हलि र्वोः''' '''उपधायां च, उपधायाम्‌ इकः''' '''दीर्घः''' |

Line 134: Line 150:

कूर्द्‌ + शप्‌ + ते → कूर्दते
कूर्द्‌ + शप्‌ + ते → कूर्दते

तथैव खुर्द → खूर्द्‌, गुर्द‌ → गूर्द्‌ |

४. <u>ज्ञपादयः मितः</u>
४. <u>ज्ञपादयः मितः</u>

सामान्यतया '''अत उपधायाः''' (७.२.११६) इति सूत्रेण उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) अस्ति चेत्‌, तस्य वृद्धिः भवति— अकारस्य स्थाने आकारः— ञिति णिति प्रत्यये परे | परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति 'मित्‌' | चुरादिगणे षट्‌ मित्‌-धातवः सन्ति | तेषाम्‌ उपधायाम्‌ '''अत उपधायाः''' इति सूत्रेण अतः‌ (ह्रस्व-अकारस्य) वृद्धिः तु भवति, परन्तु पुनः '''मितां ह्रस्वः''' इति सूत्रेण उपधायां स्थितः आकारः ह्रस्वः भवति |

'''मितां ह्रस्वः''' (६.४.९२)= मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मितां अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |

'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः; '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात्‌ '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

ज्ञप्‌ + णिच्‌ → ज्ञप्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः णिति प्रत्यये परे→ ज्ञापि → '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन उपधायाः स्वरः ह्रस्वः णिचि → ज्ञपि इति धातुः → ज्ञपि + शप्‌ → ज्ञपय इति अङ्गम्‌ → ज्ञपय + ति → ज्ञपयति/ते

षट्‌ धातवः— ज्ञप, यम, चह, रह, बल, चिञ्‌
षट्‌ धातवः— ज्ञप, यम, चह, रह, बल, चिञ्‌

ज्ञप ज्ञानज्ञापन-मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति

Line 162: Line 180:

चिञ्‌ चयने = सङ्ग्रहणं करोति
चिञ्‌ चयने = सङ्ग्रहणं करोति

ज्ञप → ज्ञप्‌ + इ → ज्ञापि → ज्ञपि → ज्ञपय → ज्ञपयति/ते

Line 178: Line 197:

५. <u>पदव्यवस्था</u>
५. <u>पदव्यवस्था</u>

सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति '''णिचश्च''' (१.३.७४), '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इति सूत्रद्वयेन | परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति |

आकुस्मादात्मनेपदिनः (आकुस्मीयाः) = 39 नित्य-आत्मनेपदिनः धातवः

एषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके |

यु → यावयते (निन्दां करोति)
यु → यावयते (निन्दां करोति)
Line 192: Line 214:

कुस्म्‌ → कुस्मयते (अयोग्यरूपेण, कुत्सितरूपेण हसति)

आगर्वादात्मनेपदिनः = 10 अदन्तवर्गीयाः नित्य-आत्मनेपदिनः धातवः

इमे धातवः अदन्ताः, नाम तस्मिन्‌ समूहे सन्ति यस्मिन्‌ धातोः अन्ते अननुनासिकः अत्‌, '''अतो लोपः''' (६.४.४८) इत्यनेन अतः लोपः, '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति परिभाषया पूर्वविधिः न भवति, यस्मात्‌ '''अत उपधायाः''' (७.२.११६), '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनयोः अवकाशो न भवति |

पद गतौ → पद्‌ → पदयते
पद गतौ → पद्‌ → पदयते
Line 216: Line 240:

गर्व माने → गर्व्‌ → गर्वयते
गर्व माने → गर्व्‌ → गर्वयते

द्वयोः गणयोः अपि धातवः नित्य-आत्मनेपदिनः | भेदः अयं यत्‌ आकुस्मादात्मनेपदिधातुषु यत्र यत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति, तत्र तत्र यथासामान्यं गुणः वृद्धिः वा भवति एव | किन्तु आगर्वादात्मनेपदिनः यतः अदन्तधातवः, अतः तत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति चेदपि '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन गुणः वृद्धिः च न भवतः |

ये धातवः आकुस्मादात्मनेपदिनः अपि आगर्वादात्मनेपदिनः अपि न सन्ति, ते सर्वे '''णिचश्च''' इति सूत्रेण उभयपदिनः एव, यथा चोरयति / चोरयते इत्यादीनि रूपाणि |

६. <u>वैकल्पिकाः णिजन्तधातवः</u> (149 धातवः)

इमे धातवः वैकल्पिकाः णिजन्तधातवः |
इमे धातवः वैकल्पिकाः णिजन्तधातवः |

अतः
अतः

- धातुः + णिच्‌ + शप्‌ (चुरादिगणे)
- धातुः + णिच्‌ + शप्‌ (चुरादिगणे)

वा
वा

- धातुः + केवलं शप्‌ (भ्वादिगणे इव)
- धातुः + केवलं शप्‌ (भ्वादिगणे इव)

यथा—
यथा—
Line 240: Line 269:

युज्‌ + शप्‌ → योज → योजति
युज्‌ + शप्‌ → योज → योजति

यदा कदापि कर्तरि सार्वधातुके परे विशिष्ट-विकरणप्रत्ययः नोक्तः, तदा शप्‌ इति विकरणप्रत्ययः भवति एव | शप्‌ तु सामान्यम्‌ | एते वैकल्पिकाः णिजन्तधातवः पाणिनिना भ्वादिगणस्य धातुपाठे नोक्ताः, किञ्च मातृभिः उच्यते यत्‌ भ्वादिगणे भवन्तु यतोहि एषां कृते किमपि विशिष्टविधायकसूत्रं नापेक्षितम्‌ | यथा भ्वादिगणे '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ विहितः, तथैव अत्रापि— न कोऽपि भेदः | अपरेषु स्थलेषु अस्माभिः दृष्टं यत्‌ कश्चन धातुः कस्मिंश्चित्‌ धातुगणे नास्ति चेदपि, तस्य गणस्य विकरणप्रत्ययः विधीयते विशिष्टसूत्रेण | अत्र तथा किमपि नास्ति; भ्वादिवत्‌ '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कार्यं सिध्यति— अतः इमे भ्वादिगणीयाः भवन्तु इति मातॄणां मतम्‌ |

Line 255: Line 285:
आकुस्मीयाः धातवः (आकुस्मादात्मनेपदिनः) द्विविधाः— केचन नित्यणिजन्ताः, अन्ये 'वा णिजन्ताः' अपि | ये 'वा णिजन्ताः' सन्ति, ते णिच्‌-अभावे '''शेषात्‌ कर्तरि परस्मैपदम्'''‌ इत्यनेन परस्मैपदिनः एव |

परिसमाप्तिः
<u>परिसमाप्तिः</u>

<font size="4"></font><font size="4"></font>

Revision as of 02:01, 10 May 2021

ध्वनिमुद्रणानि--

2017 वर्गः

१) curAdigaNe_adantadhAtavaH_2017-03-08

२) curAdigaNe_adantadhAtavaH-2_2017-03-15

३) curAdigaNe_anye-visheSha-dhAtavaH_2017-03-22

2015 वर्गः

१) curAdigaNaH--2_visheSha-dhAtavaH--adantAH_2015-09-01

२) curAdigaNe-visheSha-dhAtavaH-2---adantAH_2015-09-08

३) curAdigaNe-visheSha-dhAtavaH-3_2015-09-15

चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम् | तानि च अचो ञ्णिति, अत उपधायाः, पुगन्तलघूपधस्य च | इदं कार्यं सामान्यम्‌ इत्युच्यते अस्मिन्‌ गणे | पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति यत्र किमपि कार्यं नार्हति यतः उपधायां ह्रस्व-अकारः (अत्‌) अपि नास्ति, लघु इक्‌ अपि नास्ति | तान्‌ अपि वयम्‌ अपश्याम | अस्मिन्‌ करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति, तान्‌ अवलोकयाम |

१. अदन्तधातवः (93 धातवः)

चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम्‌ अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशेऽजनुनासिक इत् इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्‌-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः एकं सूत्रम्‌ अस्ति अतो लोपः, यस्य द्वारा अकार-लोपः सिध्यति—

अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |

णिच्‌-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्‌, अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिः भवति |

यथा—

कथ + णिच्‌ → कथ्‌

गृह + णिच्‌ → गृह्‌

इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |

अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |

पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |

अनयोः सूत्रयोः प्रसक्तिः स्यात्‌ | परन्तु अनेन परिभाषा-सूत्रेण लोपः लुप्त-अकारः इव भवति—

अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात्‌ स्थानिवत्‌, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌— अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ |

इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः लोपः स्थानिवत्‌ नाम ह्रस्व-अकारः इव | अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या कथ्‌-धातुः 'कथ' इतिवत्‌ दृश्यते | तस्मात्‌ उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—

कथ + णिच्‌ → अतो लोपः → कथ्‌‍ + णिच्‌ → अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → अचः परस्मिन्‌ पूर्वविधौ → कथ्‌ धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति |

चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र—

कथ्‌ + णिच्‌ → कथि + शप्‌ → कथयति/ते

गण्‌ + णिच्‌ → गणि + शप्‌ → गणयति/ते

क्षिप्‌ + णिच्‌ → क्षिपि + शप्‌ → क्षिपयति/ते

पुट्‌ + णिच्‌ → पुटि + शप्‌ → पुटयति/ते

गृह्‌ + णिच्‌ → गृहि + शप्‌ → गृहयति/ते

प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत्‌ अनुनासिको न, तर्हि किमर्थं अतो लोपः (६.४.४८) इत्यस्य स्थाने अचो ञ्णिति (७.२.११५) इत्यनेन अतः वृद्धिः न स्यात्‌ ? द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः अस्ति, अपि च अचो ञ्णिति (७.२.११५) इति परसूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्य निमित्तम्‌ 'आर्धधातुके परे', अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत्‌, अतो लोपः (६.४.४८) इत्यस्य अवकाशः | अतः अचो ञ्णिति (७.२.११५) इत्यस्य परत्वात्‌ वृद्धिः भवेत्‌ |

प्रत्युत्तरम्‌ एवं यत्‌ 'आर्धधातुके' इत्यनेन विषयसप्तमी मन्यते चेत्‌, अतो लोपः (६.४.४८) इत्यस्य कार्यं भविष्यति; 'आर्धधातुके' इत्यनेन परसप्तमी मन्यते चेत्‌, परत्वात्‌ अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः | विषयसप्तमी नाम यदा हि विचारः आयाति यत्‌ आर्धधातुकप्रत्ययः आगमिष्यति, तदा हि तेन निर्दिष्टं कार्यं सिध्यति— आर्धधातुकप्रत्ययस्य आगमनात्‌ प्रागेव | 'आर्धधातुके' इति यदा विषयः उदेति यत्‌ आर्धधातुकप्रत्ययः आगम्यमानः— तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम्‌ आगम्यमानः— तदानीम्‌ अतो लोपः (६.४.४८) इत्यनेन अतः लोपो भवति | अचो ञ्णिति (७.२.११५) इत्यस्मिन्‌ परसप्तमी अतः ञित्‌ णित्‌ प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेत्स्यति | अत्र बहुसंख्यता विषयसप्तमीं मन्यते; अस्मिन्‌ पक्षे कथयति इति रूपम्‌ | परन्तु केचन परिगणिताः वदन्ति यत्‌ अत्र परसप्तमी स्यात्‌; तेषां मतेन कथायति इति रूपम्‌ |

*अतो लोपः (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम्‌ उपदेशे इत्युक्तम्‌ | उत्तरम्‌ एवं यत्‌ अनुवृत्तौ उपदेशे इति यदि नाभविष्यत्‌, तर्हि कासुचित्‌ स्थितिषु (अनुपदेशावस्थायाम्‌) इष्टं रूपं न प्राप्स्यत्‌ | यथा— भ्वादिगणे अय्‌ गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप्‌ |

अय्‌ + क्विप्‌ → अनुबन्धलोपे → अय्‌ + व्‌ → लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः → अ + व्‌ → अतो लोपः (६.४.४८) इत्यनेन अ-लोपः, वेरपृक्तस्य (६.१.६६) इत्यनेन व्‌-लोपः → शून्यम्‌ अवशिष्यते |

अतः उपदेशे नास्ति चेत्‌ इष्टं रूपं न प्राप्यते | उपदेशे अस्ति चेत्‌ अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |

अ + व्‌ → ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यनेन तुक्‌-आगमः → अत्‌ + व्‌ → वेरपृक्तस्य (६.१.६६) इत्यनेन व्‌-लोपः → अत्‌ इति इष्टं रूपं प्राप्तम्‌ |

२. कृप्‌-धातोः विधिः

कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |

कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तं, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |

यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलम्‌; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |

लटि कल्पयति/ते | कृप्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते

लिट्‌-लकारे गुणनिषेधत्वात्‌ ऋकारस्य उदाहरणम्‌—

लिटि चकॢपे | कृप्‌ + ए → द्वित्वम्‌ अभ्यासकार्यम्‌ च → चकृप्‌ + ए → कृपो रो लः (८.२.१८) इत्यनेन ऋकारस्य स्थाने ऌकारादेशः → चकॢप्‌ + ए → चकॢपे

प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां कॢप्‌ न स्यात्‌ ? उतरम्‌ अस्ति यत्‌ वेदे तस्य ऋकारस्य महत्त्वं वर्तते | वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम्‌ इङ्गितम्‌ | अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्‌ |

३. कॄत्‌-धातोः विधिः

कॄत संशब्दने = प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति |

उपधायाश्च (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | ॠत इद्धातोः (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ उपधायाश्च |

अनेन कॄत्‌ धातोः ॠकारस्य ह्रस्व-इकारादेशः भवति |

स्मारणार्थं यत्र धातुः ऋकारान्तः, तत्र ॠत इद्‌ धातोः (७.१.१००) इत्यनेन ऋकारस्य स्थाने इकारादेश | यथा तुदादिगणे अस्माभिः दृष्टम्— कॄ-धातोः ॠकारः → इ आदेशः, कॄ → कि → उरण्‌ रपरः इत्यनेन रपरः → किर् → किर्‍ + अ + ति → किरति |

ॠत इद्‌ धातोः (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ऋतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ऋतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |

चुरादिगणे कॄत्‌-धातुः—

कॄत्‌ → कित्‌                    उपधायाश्च (७.१.१०१)

कित्‌ → किर्त्‌                     उरण रपरः (१.१.५१)

किर्त्‌ → कीर्त्‌‍                      उपधायां च (८.२.७८)

कॄत्‌ + णिच्‌ → कीर्ति इति धातुः

कीर्ति + शप्‌ → कीर्तय इति अङ्गम्‌

कीर्तय + ति/ते → कीर्तयति/कीर्तयते

उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |

[सत्वं, नत्वं, नुमागमः] उपधादीर्घः |

उपधायां च (८.२.७८) = येषां धातूनाम्‌ उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात्‌ र्वोः, इकः, दीर्घः एषाम्‌ अनुवृत्तिः | हलि च (८.२.७७) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धातोः हलि र्वोः उपधायां च, उपधायाम्‌ इकः दीर्घः |

कुर्द भ्वादौ = क्रीडति, नृत्यति

कुर्द → कुर्द्‌                 उपदेशेऽजनुनासिक इत्

कुर्द्‌ → कूर्द्‌                 उपधायां च

कूर्द्‌ + शप्‌ + ते → कूर्दते

तथैव खुर्द → खूर्द्‌, गुर्द‌ → गूर्द्‌ |

४. ज्ञपादयः मितः

सामान्यतया अत उपधायाः (७.२.११६) इति सूत्रेण उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) अस्ति चेत्‌, तस्य वृद्धिः भवति— अकारस्य स्थाने आकारः— ञिति णिति प्रत्यये परे | परन्तु एकः अन्तर्गणः वर्तते यस्य नाम अस्ति 'मित्‌' | चुरादिगणे षट्‌ मित्‌-धातवः सन्ति | तेषाम्‌ उपधायाम्‌ अत उपधायाः इति सूत्रेण अतः‌ (ह्रस्व-अकारस्य) वृद्धिः तु भवति, परन्तु पुनः मितां ह्रस्वः इति सूत्रेण उपधायां स्थितः आकारः ह्रस्वः भवति |

मितां ह्रस्वः (६.४.९२)= मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मितां अङ्गानाम्‌ उपधायाः ह्रस्वः णौ |

अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |

ज्ञप्‌ + णिच्‌ → ज्ञप्‌ + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः णिति प्रत्यये परे→ ज्ञापि → मितां ह्रस्वः (६.४.९२) इत्यनेन उपधायाः स्वरः ह्रस्वः णिचि → ज्ञपि इति धातुः → ज्ञपि + शप्‌ → ज्ञपय इति अङ्गम्‌ → ज्ञपय + ति → ज्ञपयति/ते

षट्‌ धातवः— ज्ञप, यम, चह, रह, बल, चिञ्‌

ज्ञप ज्ञानज्ञापन-मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति

यम परिवेषणे = नियमयति, नियन्त्रणं करोति

चह परिकल्कने = वञ्चयति

रह त्यागे = त्यजति, जहाति

बल प्राणने = जीवति; पोषणं करोति

चिञ्‌ चयने = सङ्ग्रहणं करोति

ज्ञप → ज्ञप्‌ + इ → ज्ञापि → ज्ञपि → ज्ञपय → ज्ञपयति/ते

यम → यम्‌ + इ → यामि → यमि → यमय → यमयति/ते

चह → चह्‌ + इ → चाहि → चहि → चहय → चहयति/ते

रह → रह्‌ + इ → राहि → रहि → रहय → रहयति/ते

बल → बल्‌ + इ → बालि → बलि → बलय → बलयति/ते

चिञ्‌ → चि + इ → अचो ञ्णिति → चै + इ → चायि → चयि → चयय → चययति/ते

५. पदव्यवस्था

सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति णिचश्च (१.३.७४), शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) इति सूत्रद्वयेन | परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति |

आकुस्मादात्मनेपदिनः (आकुस्मीयाः) = 39 नित्य-आत्मनेपदिनः धातवः

एषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके |

यु → यावयते (निन्दां करोति)

चित्‌ → चेतयते (चिन्तनं करोति)

गन्ध्‌ → गन्धयते (दुःखं प्रापयति, मारयति)

कुस्म्‌ → कुस्मयते (अयोग्यरूपेण, कुत्सितरूपेण हसति)

आगर्वादात्मनेपदिनः = 10 अदन्तवर्गीयाः नित्य-आत्मनेपदिनः धातवः

इमे धातवः अदन्ताः, नाम तस्मिन्‌ समूहे सन्ति यस्मिन्‌ धातोः अन्ते अननुनासिकः अत्‌, अतो लोपः (६.४.४८) इत्यनेन अतः लोपः, अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति परिभाषया पूर्वविधिः न भवति, यस्मात्‌ अत उपधायाः (७.२.११६), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोः अवकाशो न भवति |

पद गतौ → पद्‌ → पदयते

कुह विस्मापने → कुह्‌ → कुहयते

मृग अन्वेषणे → मृग्‌ → मृगयते

गृह ग्रहणे → गृह्‌ → गृहयते

वीर विक्रान्तौ → वीर्‍ → वीरयते

शूर विक्रान्तौ → शूर्‍ → शूरयते

स्थूल परिबृंहणे → स्थूल्‌ → स्थूलयते

सत्र सन्तान-क्रियायाम्‌ → सत्र्‍ → सत्रयते

अर्थ याचने → अर्थ्‌ → अर्थयते

गर्व माने → गर्व्‌ → गर्वयते

द्वयोः गणयोः अपि धातवः नित्य-आत्मनेपदिनः | भेदः अयं यत्‌ आकुस्मादात्मनेपदिधातुषु यत्र यत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति, तत्र तत्र यथासामान्यं गुणः वृद्धिः वा भवति एव | किन्तु आगर्वादात्मनेपदिनः यतः अदन्तधातवः, अतः तत्र उपधायां लघु इक्‌ वा लघु अकारः (अत्‌) अस्ति चेदपि अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन गुणः वृद्धिः च न भवतः |

ये धातवः आकुस्मादात्मनेपदिनः अपि आगर्वादात्मनेपदिनः अपि न सन्ति, ते सर्वे णिचश्च इति सूत्रेण उभयपदिनः एव, यथा चोरयति / चोरयते इत्यादीनि रूपाणि |

६. वैकल्पिकाः णिजन्तधातवः (149 धातवः)

इमे धातवः वैकल्पिकाः णिजन्तधातवः |

अतः

- धातुः + णिच्‌ + शप्‌ (चुरादिगणे)

वा

- धातुः + केवलं शप्‌ (भ्वादिगणे इव)

यथा—

युज्‌ + णिच्‌ + शप्‌ → योजय → योजयति/योजयते

वा

युज्‌ + शप्‌ → योज → योजति

यदा कदापि कर्तरि सार्वधातुके परे विशिष्ट-विकरणप्रत्ययः नोक्तः, तदा शप्‌ इति विकरणप्रत्ययः भवति एव | शप्‌ तु सामान्यम्‌ | एते वैकल्पिकाः णिजन्तधातवः पाणिनिना भ्वादिगणस्य धातुपाठे नोक्ताः, किञ्च मातृभिः उच्यते यत्‌ भ्वादिगणे भवन्तु यतोहि एषां कृते किमपि विशिष्टविधायकसूत्रं नापेक्षितम्‌ | यथा भ्वादिगणे कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः, तथैव अत्रापि— न कोऽपि भेदः | अपरेषु स्थलेषु अस्माभिः दृष्टं यत्‌ कश्चन धातुः कस्मिंश्चित्‌ धातुगणे नास्ति चेदपि, तस्य गणस्य विकरणप्रत्ययः विधीयते विशिष्टसूत्रेण | अत्र तथा किमपि नास्ति; भ्वादिवत्‌ कर्तरि शप्‌ (३.१.६८) इत्यनेन कार्यं सिध्यति— अतः इमे भ्वादिगणीयाः भवन्तु इति मातॄणां मतम्‌ |

कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |

इमे वैकल्पिकाः णिजन्तधातवः पञ्चसु विभागेषु विभक्ताः सन्ति—आकुस्मीयाः; आस्वदीयाः; आधृषीयाः युजादयः च; णिजन्ताश्चुरादयः; इदितः उदितः च | एते अन्तर्गणाः सन्ति; एकैकस्य लक्षणं भिन्नम्‌ | यथा आस्वदीय-अन्तर्गणे यत्र धातुः सकर्मकः, तत्र णिच्‌ भवति; यत्र धातुः अकर्मकः, तत्र णिच्‌ न भवति | चुरादिगणे धातुः उदित्‌ चेत्‌, इत्‌-संज्ञक-उकारस्य अन्यत्‌ फलं नास्ति चेत्‌, णिच्‌-वैकल्पिकम्‌ इति सूचयति | एषु पञ्चसु सर्वत्र णिजभावे धातुः परस्मैपदी एव भवति |

आकुस्मीयाः धातवः (आकुस्मादात्मनेपदिनः) द्विविधाः— केचन नित्यणिजन्ताः, अन्ये 'वा णिजन्ताः' अपि | ये 'वा णिजन्ताः' सन्ति, ते णिच्‌-अभावे शेषात्‌ कर्तरि परस्मैपदम्‌ इत्यनेन परस्मैपदिनः एव |

परिसमाप्तिः

चत्वारः धातुगणाः सन्ति यत्र अङ्गम्‌ अदन्तं भवति; ते भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः च | एषां गणानां कृते अधुना सार्वधातुकलकाराणां पाठः परिसमाप्तः | आहत्य एषु चतुर्षु गणेषु १७०४ धातवः सन्ति | धातुः सामान्यो वा विशेषो वा, एषां सर्वेषां धातूनां कृते लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च तिङन्तरूपाणि अस्माभिः ज्ञातानि | पाणिनीयधातुपाठे आहत्य १९४३ धातवः सन्ति | अतः एतावता १९४३ इत्येषु १७०४ इत्येषां सार्वधातुकलकार-रूपाणि अस्माभिः अवलोकितानि | किञ्चित्‌ पुनस्स्मरणं क्रियते चेत्‌, ज्ञास्यते यत्‌ बहु किमपि व्यावहारिकं ज्ञानं सम्पादितम्‌ | अवशिष्टाः केवलं २३९ धातवः सन्ति येषाम्‌ अङ्गम्‌ अदन्तं नास्ति; सम्प्रति तेषां सार्वधातुकलकार-रूपाणि परिशीलयिष्यामः |

Swarup – May 2013 (Updated September 2015)

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].