06A---sArvadhAtukaprakaraNaM-kRutsu/06---tudAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
No edit summary |
||
(8 intermediate revisions by 4 users not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE: 06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्}} |
|||
<please replace this with content from corresponding Google Sites page> |
|||
{| class="wikitable mw-collapsible mw-collapsed" |
|||
!<big>'''ध्वनिमुद्रणानि'''</big> |
|||
|- |
|||
|<big>'''2019 वर्गः'''</big> |
|||
|- |
|||
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/186_tudAdigaNe-shatrantaprAtipadika-nirmANam---sAmAnyadhAtavaH_%2B_visheShadhAtavaH_2019-12-24.mp3 tudAdigaNe-shatrantaprAtipadika-nirmANam---sAmAnyadhAtavaH_+]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/186_tudAdigaNe-shatrantaprAtipadika-nirmANam---sAmAnyadhAtavaH_%2B_visheShadhAtavaH_2019-12-24.mp3 _visheShadhAtavaH]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/186_tudAdigaNe-shatrantaprAtipadika-nirmANam---sAmAnyadhAtavaH_%2B_visheShadhAtavaH_2019-12-24.mp3 _2019-12-24]</big> |
|||
|- |
|||
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/187_tudAdigaNe_shatranta-prAtipadika-nirmANam--vishEShadhAtavaH__2020-01-07.mp3 tudAdigaNe_shatranta-prAtipadika-nirmANam-vishEShadhAtavaH__2020-01-07]</big> |
|||
|- |
|||
|<big>'''2014 वर्गः'''</big> |
|||
|- |
|||
|<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/26_tudAdigaNe_sAmAnya-shatranta-prAtipadika-nirmANam__iyang-AdeshaH_2014-11-26.mp3 tudAdigaNe_sAmAnya-shatranta-prAtipadika-nirmANam_+_iyang-AdeshaH]</big><big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/26_tudAdigaNe_sAmAnya-shatranta-prAtipadika-nirmANam__iyang-AdeshaH_2014-11-26.mp3 _2014-11-26]</big> |
|||
|- |
|||
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/27_tudAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_iuRu-kArAntAnAm_2014-12-03.mp3 tudAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_i,u,Ru-kArAntAnAm]</big><big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/27_tudAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_iuRu-kArAntAnAm_2014-12-03.mp3 _2014-12-03]</big> |
|||
|- |
|||
|<big>३) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/28_tudAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_dIrghaRU-kArAntAnAm__dhAtvAdeshAH_2014-12-10.mp3 tudAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_dIrghaRU-kArAntAnAm_+]</big><big>[https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/28_tudAdigaNe_visheSha-shatranta-prAtipadika-nirmANam_dIrghaRU-kArAntAnAm__dhAtvAdeshAH_2014-12-10.mp3 _dhAtvAdeshAH_2014-12-10]</big> |
|||
|} |
|||
<big><u>तुदादौ शतृ-व्यवस्था</u></big> |
|||
<big>शतृ-प्रत्ययः शित् इति कारणतः '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | शतृ-प्रत्ययः नित्यं कर्त्रर्थे च | तुदादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श-विकरणप्रत्ययः विहितः अस्ति | वस्तुतः प्रथमं '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् विहितः, तदा '''कर्तरि शप्''' इति सूत्रं प्रबाध्य '''तुदादिभ्यः शः''' (३.१.७७) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां '''तुदादिभ्यः शः''' स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | '''कर्तरि शप्''' इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः '''तुदादिभ्यः शः''', '''कर्तरि शप्''' इत्यस्य अपवादभूतसूत्रम् | '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र '''तुदादिभ्यः शः''' इति सूत्रस्य कार्यं सिध्यति |</big> |
|||
<big>'''तुदादिभ्यः शः''' (३.१.७७) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, तुदादिगणे स्थितेभ्यः धातुभ्यः श-प्रत्ययः भवति | तुद् आदिर्येषां ते, तुदादयः बहुव्रीहिसमासः, तेभ्यः तुदादिभ्यः | तुदादिभ्यः पञ्चम्यन्तम्, श प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातोः''' (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''कर्तरि सार्वधातुके तुदादिभ्यः धातुभ्यः परश्च श प्रत्ययः''' |</big> |
|||
<big>'''कर्तरि शप्''' (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, तर्हि धातुतः शप्-प्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रम्— '''कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः''' |</big> |
|||
<big>अयं श-प्रत्ययः शित्, अतः अनेन गुण-कार्यं विहितं यत्र यत्र प्रसक्तम् | परन्तु शः अपित्वात् '''सार्वधातुकमपित्''' इति सूत्रेण ङिद्वत् | ङिद्वत् अतः '''क्क्ङिति च''' इति कारणेन यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |</big> |
|||
<big>'''सार्वधातुकमपित्''' (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रम्— '''सार्वधातुकम् अपित् ङित्''' |</big> |
|||
<big>'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big> |
|||
<big>आहत्य तुदादिगणे शतृ-प्रत्यये परे श-प्रत्ययः विहितः | श च ङिद्वत् | अस्य एकः परिणामः गुणनिषेधः | परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य ङिद्वत् भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |</big> |
|||
<big><u>किति ङिति विशिष्ट-कार्याणि</u></big> |
|||
<big>यः कोऽपि प्रत्ययः कित् ङित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—</big> |
|||
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | तुदादौ तुद् + श + ति → तुदति | तुद् + श + शतृ → तुदत् | '''क्क्ङिति च''' (१.१.५) |</big> |
|||
<big>२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां हलन्तधातूनाम् इत्-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | तृम्फ् + श + ति → न्-लोपः | तृम्फ् + श + शतृ → न्-लोपः | '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) | परन्तु तुदादितणे विशिष्ट-वार्तिकेन एषां पुनः नुमागमः आनीयते | '''शे तृम्फादीनां नुम्वाच्यः''' | तृम्फ् + श + ति → न्-लोपः → तृफ् + अ + ति → नुम्-आगमः → तृम्फ् + अ + ति → तृम्फति |</big> |
|||
<big>३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च् + श + ति → वृश्चति | व्रश्च् + श + शतृ → वृश्चत् | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) |</big> |
|||
<big>धेयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् (श्यन्, श), तथापि सर्वत्र तयोः कार्यं समानं नास्ति; भेदाः सन्ति यतोहि श्यन् → य हलादिः अपित् प्रत्ययः; श → अ अजादिः अपित् प्रत्ययः | हलादि-अजादि-भेदात् कार्ये भेदास्सन्ति | परन्तु उपरितन-नियमत्रयं सार्वत्रिकम् | नाम कित् ङित्-प्रत्ययः परे अस्ति चेत्, एषां त्रयाणां कार्यं भवत्येव | एषु त्रिषु नियमेषु—गुण-निषेधः, न्-लोपः, सम्प्रसारणम् इत्येषु—प्रत्ययस्य हलादि-अजादि-भेदात् न कोऽपि प्रभावः |</big> |
|||
<big>किन्तु अन्यत्र हलादि-अजादि-भेदेन कार्ये भेदः | यद्यपि कार्ये कित्-ङित् इति प्रसङ्गः अस्ति, परन्तु हलादि परे, अथावा अजादि परे इति कुत्रचित् उक्तम् | यथा प्रत्ययः हलादिः कित्-ङित् चेत्, '''हलि च''' (८.२.७७) इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | दिवादिगणे श्यन् हलादिः अतः इदं कार्यं भवति (जॄ + य → जिर् + य → '''जीर्''' + य → जीर्यति); तुदादौ श अजादिः अतः न भवति | अन्यत्र प्रत्ययः अजादिः कित्-ङित् चेदेव भवति | यथा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण (किति ङिति) अचि परे, इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशः भवति | रि + अ + ति → र् + इय् + अ + ति → रियति | दिवादौ श्यन् हलादिः अतः इदं कार्यं न सम्भवति |</big> |
|||
<big>अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |</big> |
|||
<big><u>आयोजन-विधिः</u></big> |
|||
<big>आहत्य यथासामान्यं शतृ-प्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयम्—</big> |
|||
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्</big> |
|||
<big>२. शतृप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-शतृप्रत्यययोः मेलनम्</big> |
|||
<big>तुदादिगणे उपर्युक्तानि श-निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानम्; द्वितीयसोपाने अङ्गम् अदन्तम् अतः अङ्गकार्यं (गुणकार्यं) नास्ति; वर्णनिमित्तकं कार्यम् अस्ति यथासामान्यम्, '''अतो गुणे''' (६.१.९७) इत्यनेन |</big> |
|||
<big>धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम् | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | अजन्तधातवः— अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः— अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति | तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति, तानि सूच्यन्ते; तदा विशेषधातूनां कार्याणि सूच्यन्ते |</big> |
|||
'''<big><u>तुदादिगणः</u> (157 धातवः)</big>''' |
|||
<big>'''A.''' <u>सामान्यधातवः</u> (114 धातवः)</big> |
|||
<big>एषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माण-समये किमपि कार्यं नास्ति | केवलं वर्णमेलनम् | लघु-इगुपधधातुः चेत् '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः, तदा '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः |</big> |
|||
<big><span lang="en" dir="ltr"><u>अदुपधधातवः</u></span> (4 धातवः)</big> |
|||
<big>त्वच् + श → त्वच → त्वच + शतृ → त्वच + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → त्वचत्</big> |
|||
<big>लज् → लजत्, कड् → कडत्, चल् → चलत्</big> |
|||
<big><u>इदुपधधातवः</u> (23 धातवः)</big> |
|||
<big>लिख् + श → लिख → लिख + शतृ → लिख + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → लिखत्</big> |
|||
<big><u>उदुपधधातवः</u> (55 धातवः)</big> |
|||
<big>तुद् + श → तुद → तुद + शतृ → तुद + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → तुदत्</big> |
|||
<big><u>ऋदुपधधातवः</u> (21 धातवः)</big> |
|||
<big>सृज् + श → सृज → सृज + शतृ → सृज + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → सृजत्</big> |
|||
<big><u>शेषधातवः</u> (10 धातवः)</big> |
|||
<big>चर्च् + श → चर्च → चर्च + शतृ → चर्च + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → चर्चत्</big> |
|||
<big>'''B.''' <u>विशेषधातवः</u> (44 धातवः)</big> |
|||
<big>'''1.''' इगन्तधातवः (16 धातवः)</big> |
|||
<big>इगन्तधातवः = इक् प्रत्याहारस्य कश्चन सदस्यः अन्ते येषां ते | इक् प्रत्याहारः नाम इ, उ, ऋ, ऌ | अतः अस्मिन् इकारान्तधातवः, उकारान्तधातवः, ऋकारान्तधातवः च अन्तर्भूताः |</big> |
|||
<big>एतावता अस्माभिः दृष्टं यत् भ्वादिगणे शप् पित् अतः सर्वत्र इगन्तधातौ गुणः— नी → ने, भू → भो, कृ → कर् इति | दिवादिगणे श्यन् अपित् अतः गुण-निषेधः; तत्र गुणाभावे विशिष्टकार्याणि वर्तन्ते | तुदादिगणः अपि तथा |</big> |
|||
<big>श इति विकरणप्रत्ययः | अयं श-प्रत्ययः सार्वधातुकः ('''तिङ्-शित्सार्वधातुकम्'''), अपित् (पकारः इत् यस्य न), ङिद्वत् ('''क्ङिति च'''), अजादिः (अच् आदौ यस्य सः) च | अतः सङ्क्षेपे अजादिः अपित् इति वदेम |</big> |
|||
<big>एतावता वयं दृष्टवन्तः यत् व्याकरणे इ, उ, ऋ इत्येषां कार्यद्वयं सम्भवति—</big> |
|||
<big>१. गुणादेशः | नाम इ → ए, उ → ओ, ऋ → अर् इति |</big> |
|||
<big>२. यण् आदेशः ('''इको यणचि''') | नाम इ → य्, उ → व्, ऋ → र् इति |</big> |
|||
<big>अधुना इतोऽपि द्वे कार्ये सम्भवतः इति बोध्यम्—</big> |
|||
<big>३. इयङ्, उवङ् आदेशौ | इ → इय्, उ → उव् |</big> |
|||
<big>४. रिङ् इत्यादेशः | ऋ → रि |</big> |
|||
<big>कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम |</big> |
|||
<big>a. <u>इकारान्तधातवः</u> (4 धातवः)</big> |
|||
<big>श इति विकरणप्रत्ययः अजादिः अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति— '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यं अवलोकयेम | तुदादिगणीयः रि इति धातुः |</big> |
|||
<big>१. अयं रि-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | रि + शप् → रि + अ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → रे + अ → '''एचोऽयवायावः''' इत्यनेन अयादेशः → रय → रय + शतृ → रयत् | इदं केवलं चिन्तनार्थं; रि-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |</big> |
|||
<big>२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि रि-धातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | रि + श → रि + अ → '''इको यणचि''' इत्यनेन यण्-सन्धेः प्राप्तिः → र्य → र्य + शतृ → र्यत् | इदं केवलं चिन्तनार्थं; वास्तवे '''इको यणचि''' बाधितम् अस्ति अतः इदं रूपं न सम्भवति |</big> |
|||
<big>३. वस्तुस्थितिः का इति अग्रे पश्येम | रि + श → रि + अ → '''इको यणचि''' इत्यनेन यण्-प्रसक्तिः → बाधितं बलाबलेन → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणप्रसक्तिः → '''सार्वधातुकम् अपित्''' इत्यनेन श-प्रत्ययः ङिद्वत्, '''क्ङिति च''' इत्यनेन गुणनिषेधः → रि + अ → श-प्रत्ययः अजाद्यपित् अतः तस्मात् पूर्वं स्थितस्य इकारान्तधातोः इकारस्य इयङ्-आदेशः भवति |</big> |
|||
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' |</big> |
|||
<big>'''अनेकाल्शित् सर्वस्य''' (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अनेकाल्शित् सर्वस्य स्थाने''' |</big> |
|||
<big>'''ङिच्च''' (१.१.५३) = आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | इदं सूत्रम् '''अनेकाल् शित्सर्वस्य''' (१.१.५५) इत्यस्य अपवादः; '''अनेकाल् शित्सर्वस्य''' (१.१.५५) तु '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | ङित् प्रथमान्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात् '''अन्त्यस्य''' इत्यस्य अनुवृत्तिः; '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ङित् च अन्त्यस्य स्थाने''' |</big> |
|||
<big>रि + अ → र् + इय् + अ → रिय+ शतृ → रिय + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → रियत्</big> |
|||
<big>तुदादिगणे चत्वारः इकारान्तधातवः रि, पि, धि, क्षि | एषां सर्वेषां कार्यं रि यथावत् अतः रियत्, पियत्, धियत्, क्षियत् |</big> |
|||
<big>b. <u>उकारान्त/ऊकारान्तधातवः</u> (6 धातवः)</big> |
|||
<big>श इति विकरणप्रत्ययः अजादिः अपित् इति उक्तम्; तस्मात् कारणात् अत्र पुनः इदं सूत्रम् प्रवर्तते— '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यं अवलोकयेम | तुदादिगणीयः गु इति धातुः |</big> |
|||
<big>१. अयं गु-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | गु + शप् → गु + अ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → गो + अ → '''एचोऽयवायावः''' इत्यनेन अवादेशः → गव् + अ → गव → गव + शतृ → गवत् | इदं केवलं चिन्तनार्थम्; अयं गु-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |</big> |
|||
<big>२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि गु-धातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | गु + श → गु + अ → '''इको यणचि''' इत्यनेन यण्-सन्धेः प्राप्तिः → ग्व → ग्व + शतृ → ग्वत् | इदं केवलं चिन्तनार्थम्; वास्तवे '''इको यणचि''' बाधितम् अस्ति अतः इदं रूपं न सम्भवति |</big> |
|||
<big>३. वस्तुस्थितिः का इति अग्रे पश्येम | गु + श → गु + अ → '''इको यणचि''' इत्यनेन यण्-प्राप्तिः → बाधितं बलाबलेन → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणप्राप्तिः → '''सार्वधातुकम् अपित्''' इत्यनेन श ङिद्वत्, '''क्ङिति च''' इत्यनेन गुणनिषेधः → गु + अ → श प्रत्ययः अजाद्यपित् अतः उवङ् आदेशः भवति |</big> |
|||
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यस्य अर्थः उपरि दत्तः | अत्र गु-धातुः उकारान्तः अतः उकारस्य स्थाने उवङ् आदेशः न तु इयङ्, इत्येव भेदः | यतः सूत्रं वक्ति यत् इकारान्तधातोः स्थाने इयङ्, उकारान्तधातोः स्थाने उवङ् इति | तदा उवङ् आदेशः कस्य स्थाने इति चेत्, पुनः '''अनेकाल् शित्सर्वस्य''' इत्यस्य अपवादे '''ङिच्च''' सूचयति यत् अन्त्यस्य एव आदेशः | तर्हि उवङ् आदेशः भवति अन्त्यस्य उकारस्य स्थाने |</big> |
|||
<big>गु + अ → ग् + उव् + अ → गुव → गुव + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → गुवत्</big> |
|||
<big>तुदादिगणे षट् उकारान्तधातवः गु, ध्रु, कुङ्, णू, धू, षू इति | एषां सर्वेषां कार्यं गु यथावत् अतः गुवत्, ध्रुवत्, कुवमान (ङित् अतः आत्मनेपदिधातुः), नुवत्, धुवत्, सुवत् |</big> |
|||
<big>c. <u>ऋकारान्तधातवः</u></big> |
|||
<big>तुदादिगणे चत्वारः ऋकारान्तधातवः सन्ति— मृङ्, पृङ्, दृङ्, धृङ् च | इमे सर्वे ङितः अतः '''अनुदात्तङित आत्मनेपदम्''' (१.३.१२) इत्यनेन आत्मनेपदिनः | तस्मात् शानच् एव भवति न तु शतृ | तथापि सङ्क्षेपे शानजार्थं किं भवति इति पश्येम | शानच् अपि कर्त्रर्थे सम्भवति, तदा शित् तु अस्त्येव अतः तस्य सार्वधातुकत्वात् '''कर्तरि शप्''' इत्यनेन शप् विहितः |</big> |
|||
<big>शपं प्रबाध्य श-विकरणप्रत्ययः आयाति इति ज्ञातम् | तस्मात् कारणात् अत्र '''रिङ् शयग्लिङ्क्षु''' (७.४.२८) इति सूत्रं कार्यं करोति | अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति, श-प्रत्ययः परे अस्ति चेत् | क्रमेण इदं कार्यं अवलोकयेम | तुदादिगणीयः मृङ् इति धातुः |</big> |
|||
<big>१. अयं मृङ् धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि शानचि किं रूपम् अभविष्यत् इति चिन्तयेम | मृ + शप् → मृ + अ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → मर् + अ → मर + शानच् → अनुबन्धलोपे → मर + आन → '''आने मुक्''' (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमो भवति → मर + मान → मरमान | इदं केवलं चिन्तनार्थं किल; अयं मृङ् धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |</big> |
|||
<big>२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि मृङ्-धातोः शानचि किं रूपम् अभविष्यत् इति चिन्तयेम | मृ + श → मृ + अ → '''इको यणचि''' इत्यनेन यण्-सन्धेः प्राप्तिः → म्र → म्र + शानच् → अनुबन्धलोपे → म्र + आन → '''आने मुक्''' (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमो भवति → म्र + मान → म्रमान | इदं केवलं चिन्तनार्थम्; वास्तवे '''इको यणचि''' बाधितम् अस्ति अतः इदं रूपं न सम्भवति |</big> |
|||
<big>३. वस्तुस्थितिः का इति अग्रे पश्येम |</big> |
|||
<big>मृ + श → मृ + अ → '''इको यणचि''' (६.१.७७) इत्यस्य प्राप्तिः, तत् प्रबाध्य '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुण-प्राप्तिः, '''सार्वधातुकमपित्''' (१.२.४) इत्यनेन अपित्त्वात् ङिद्वत्, '''क्क्ङिति च''' (१.१.५) इत्यनेन ङिद्वात् गुणनिषेधः → '''रिङ् शयग्लिङ्क्षु''' (७.४.२८) इत्यनेन श-प्रत्यये परे ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः (मृ-धातोः पूर्णतया स्थाने रि); '''ङिच्च''' (१.१.५३) इत्यनेन आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः → म् + रि + अ → म्रि + अ → '''इको यणचि''' इत्यनेन यण्-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित् अतः यण्-सन्धिं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् आदेशः → इयङ् आदेशः ङित् अतः '''ङिच्च''' इत्यनेन अन्त्यस्य एव आदेशः, इकारस्य स्थाने इय्-आदेशः → म्र् + इय् + अ → म्रिय् + अ → म्रिय → म्रिय + शानच् → अनुबन्धलोपे → म्रिय + आन → '''आने मुक्''' (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमः → म्रिय + मान → वर्णमेलने, णत्वे → म्रियमाण |</big> |
|||
<big>'''रिङ् शयग्लिङ्क्षु''' (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति श-प्रत्यये, यक्-प्रत्यये, यकारादि-आर्धधातुक-लिङ् च परे | '''यि असार्वधातुके''' च लिङः विशेषणम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''ऋतः अङ्गस्य''' नाम न केवलम् ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | '''रिङ्''' ङित्, अतः '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य बाधकसूत्रम् '''अनेकाल् शित्सर्वस्य''' (१.१.५५), तत् प्रबाध्य '''ङिच्च''' (१.१.५३) इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति | '''यस्मिन् विधिः तदादावल्ग्रहणे''' इति परिभाषया '''यि''' नाम यकारादौ (यस्य आदौ यकारः, तस्मिन् परे) | शश्च यक् च लिङ् च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्क्षु | रिङ् प्रथमान्तम्, शयग्लिङ्क्षु सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | '''अयङ् यि क्ङिति''' (७.४.२२) इत्यस्मात् '''यि''', '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात् '''असार्वधातुके''', '''रीङ् ऋतः''' (७.४.२७) इत्यस्मात् '''ऋतः''' इत्येषाम् अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''यि असार्वधातुके शयग्लिङ्क्षु ऋतः अङ्गस्य रिङ्''' |</big> |
|||
<big>'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात् '''स्वम्''', '''रूपम्''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च)| परिभाषासूत्रम् |</big> |
|||
<big>'''ङिच्च''' (१.१.५३) = आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | इदं सूत्रम् '''अनेकाल् शित्सर्वस्य''' (१.१.५५) इत्यस्य अपवादः; '''अनेकाल् शित्सर्वस्य''' (१.१.५५) तु '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | ङित् प्रथमान्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात् '''अन्त्यस्य''' इत्यस्य अनुवृत्तिः; '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ङित् च अन्त्यस्य स्थाने''' |</big> |
|||
<big>अत्र एकः प्रश्नः उदेति— यदा रिङ्-आदेशः विहितः, तदा म्रि इति रूपम् | अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यस्य प्रसक्तिः कथम् ?</big> |
|||
<big>आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति; स्वस्य धातुसंज्ञा तिष्ठति | मृ → म्रि इत्यस्य विकारेण म्रि तदानीं धातुः; तस्य धातुसंज्ञा तदानीम् अस्ति | यतः रि इति आदेशः | अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते | म्रि → म्रिय् अयमपि धातुः | परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः, तदा धातुसंज्ञा न तिष्ठति | म्रिय् + अ → म्रिय | श इति विकरणप्रत्ययः; तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति | अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते |</big> |
|||
<big>तुदादिगणे चत्वारः ऋकारान्तधातवः मृङ्, पृङ्, दृङ्, धृङ् | एषां सर्वेषां कार्यं मृङ्-धातोरिव अतः म्रियमाण, प्रियमाण, द्रियमाण, ध्रियमाण इति |</big> |
|||
<big>'''*हलि च''' इति सूत्रे यथा, तथैव '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इति सूत्रे अपिति परे, किति परे, ङिति परे वा नोक्तम्, न वा अनुवृत्तौ अस्ति | परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे | अतः पाणिनेः वदनस्य आवश्यकता नासीत् | "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अत्र अस्माभिः अनुमानेन अवगतमेव |</big> |
|||
<big>d. <u>दीर्घ-ॠकारान्तधातवः</u> (द्वौ धातू स्तः)</big> |
|||
<big>तुदादिगणे कॄ, गॄ इति द्वौ ॠकारान्तधातू स्तः |</big> |
|||
<big>अधुना अस्माभिः दृष्टं यत् ह्रस्व-ऋकारान्तधातूनां रिङ्-आदेशः भवति, यथा मृङ् → (रिङ् आदेशः) म्रि → (इयङ् आदेशः) म्रिय् + (श विकरणप्रत्ययः) अ → म्रिय इति अङ्गम्, म्रियमाण इति शानजन्तरूपम् | परन्तु दीर्घॠकारान्तधातूनां कार्यं भिन्नम् | स्मर्यते यत् दिवादिगणे दीर्घॠकारान्तधातुषु ॠकारस्य स्थाने इ-आदेशः जॄ → जि | तुदादिगणे अपि तथा; उभयत्र '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य प्रसक्तिः | परन्तु ततः अग्रे भिद्यते यतोहि दिवादिगणे श्यन् हलादिः अपित्; किन्तु तुदादिगणे श अजादिः अपित् | दिवादिगणे '''हलि च''' इत्यनेन उपधायाम् इकः दीर्घत्वम्, परन्तु तुदादिगणे '''हलि च''' इत्यस्य प्रसक्तिः नास्ति अतः उपधायाम् इक् ह्रस्वः तिष्ठति | अग्रे क्रमः प्रदत्तः अस्ति— कॄ इति धातुः |</big> |
|||
<big>कॄ + श → कॄ + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यण्-सन्धेः प्राप्तिः → तं प्रबाध्य '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणप्राप्तिः → '''सार्वधातुकम् अपित्''' (१.२.४) इत्यनेन श ङिद्वत्, '''क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → कॄ + अ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तस्य धातोः ह्रस्व-इकारादेशः → कि + अ → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → किर् + अ → किर → किर + शतृ → किर + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → किरत्</big> |
|||
<big>'''ॠत इद् धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |</big> |
|||
<big>'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात् '''षष्ठी''', '''स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) | परिभाषासूत्रम् |</big> |
|||
<big>'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात् '''स्वम्''', '''रूपम्''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च)| परिभाषासूत्रम् |</big> |
|||
<big>'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उः स्थाने अण् रपरः''' |</big> |
|||
<big>ऋकारस्य स्थाने यदा अण्-प्रत्याहारस्य कश्चन सदस्यः ("अ”, "इ”, "उ" वा) आयाति, तदा तस्मात् परे रेफः आयाति | अतः अण् "रपरः" भवति— "अर्", “इर्र्", “उर्र्" वा इति | अत्र ॠकारस्य स्थाने इ आगतः, अतः रपरः भवति, इर् इति | कि → किर् |</big> |
|||
<big>गॄ धातुः अपि तथा | गॄ + अ → गि + अ → गिर् + अ→ गिर → गिर + शतृ → गिर + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → गिरत्</big> |
|||
<big>दिवादिगणे क्रमः तथैव अस्ति, किन्तु अन्ते इकारः दीर्गः भवति—</big> |
|||
<big>जॄ → ('''ॠत इद्धातोः''') जि → ('''उरण् रपरः''') जिर् → ('''हलि च''') जीर् + (श्यन् विकरणप्रत्ययः) य → जीर्य → जीर्य +अत्→ जीर्यत्</big> |
|||
<big>'''हलि च''' (८.२.७७) इत्यनेन हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | दिवादिगणे श्यन् हलादिः अपित् अस्ति; तुदादिगणे श अजादिः अपित् अस्ति | अतः दिवादौ ॠकारान्तधातुषु '''हलि च''' इत्यस्य प्रसक्तिः; तुदादौ अस्यामेव दशायां '''हलि च''' कार्यं न करोति |</big> |
|||
<big>अत्र '''उरण् रपरः''' इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम |</big> |
|||
<big>अ/आ + इ/ई = ए</big> |
|||
<big>अ/आ + उ/ऊ = ओ</big> |
|||
<big>अ/आ + ऋ/ॠ = अर्</big> |
|||
<big>इति सामान्यनियमः अस्तिकिल | परन्तु गुणसंज्ञा-विधायकसूत्रम् '''अदेङ्ग गुणः''' (१.१.२) इत्यनेन अ, ए, ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति | तत्र "अर्" किमपि नास्ति | यत्र गुणसन्धिः अपेक्षितः, तत्र '''आद्गुणः''' (६.१.८७) इत्यनेन अवर्णात् अचि परे पूर्वपरयोः एकः गुणादेशः भवति | गुणादेशः नाम पूर्वपरयोः स्थाने 'अ' वा, 'ए' वा 'ओ' वा आगच्छेत् | तत्र "अर्" तु नास्त्येव | तर्हि अ + ऋ → अर् कथम् ? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति— अ + ऋ → "अ, ए, ओ" इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः | अधुना '''स्थानेऽन्तरतमः''' इति सूत्रेण ध्वनि-दृष्ट्या तेषु त्रिषु, द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं "स्थान-तौल्यम्" अस्ति इति अवलोकनीयं भवति | अकारस्य कण्ठस्थानम्, ऋकारस्य मूर्धास्थानम् | अ, ए, ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति | (अ= कण्ठस्थानम्, ए= कण्ठतालुस्थानम्, ओ= कण्ठोष्ठस्थानम् इति |) तेषु त्रिषु, अ-ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते | अतः अ-ऋ इत्यनयोः स्थाने "अ" इत्यस्य गुणादेशप्राप्तिः | अधुना ऋ-स्थाने यः अकारः आगतः, सः अण्-प्रत्याहारस्य सदस्यः, अतः '''उरण् रपरः''' इत्यनेन रेफः परः भवति | तर्हि आहत्य अ/आ + ऋ/ॠ → '''आद्गुणः''' इत्यनेन पूर्वपरयोः स्थाने 'अ' → '''उरण् रपरः''' → अर् | महा + ऋषिः → मह् + अर् + षि → महर्षिः |</big> |
|||
<big>अवधेयं यत् '''ॠत इद्धातोः''' इति सूत्रं किति ङिति प्रत्यये परे एव कार्यं करोति | अतः यत्र विकरणप्रत्ययः अपित् नास्ति, तत्र प्रसक्तिः न भविष्यति | वृत्तान्ते भ्वादिगणे तॄ इति धातुः | यद्यपि ॠकारान्तधातुः अस्ति, तथापि '''ॠत इद्धातोः''' इत्यनेन ॠ-स्थाने इकारादेशः न भवति | भ्वादिगणे शप् पित् अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण गुणः भवति | तॄ + शप् → तॄ + अ → तर् + अ → तर → तर + शतृ → तरत् |</big> |
|||
<big>अतः गणम् अनुसृत्य ॠकारान्तधातूनां कः भेदः इति पश्येम—</big> |
|||
<big>भ्वादिगणे तॄ → गुणः → तरत्</big> |
|||
<big>दिवादिगणे जॄ → इ-आदेशः, '''हलि च''' दीर्घः → जीर्यत्</big> |
|||
<big>तुदादिगणे कॄ → इ-आदेशः, अजादिः अपित् अतः न दीर्घः → किरत्</big> |
|||
<big>केचन जनाः वदन्ति यत् भ्वादितुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति | किन्तु यत्र गणसम्बद्धकार्यं वर्तते, तत्र अस्माकं न कोऽपि भ्रमः स्यात् | भ्वादिगणे गुणकार्यं प्रवर्तते; तुदादिगणे न कुत्रापि गुणकार्यम् | तुदादिगणे विकरणप्रत्ययः अजादिः अपित् अतः अपित्-निमित्तं कार्यं अपि च अजादि-अपित्-निमित्तं कार्यं भवतः, ये भ्वादौ न सञ्जायेते | यथा दीर्घ-ॠकारस्य → इ ('''ॠत इद्धातोः''') प्रवर्तते केवलम् अपित्सु प्रत्ययेषु, यथा कॄ → किरत् | इयङ्-आदेशः केवलं अजादिषु अपित्सु प्रवर्तते ('''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''') | रि + अ → र् + इय् + अ → रिय + शतृ → रिय + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पररूपादेशः → रियत् |</big> |
|||
<big>2. <u>धात्वादेशः</u></big> |
|||
<big>a. पा-आदिधातूनां धात्वादेशः (द्वौ धातू स्तः)</big> |
|||
<big>तुदादौ धातुद्वयम्— षद्लृ, शद्लृ |</big> |
|||
<big>'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |</big> |
|||
<big>षद्लृ + श → सद् + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्यनेन सीद-आदेशः → सीद + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः → सीद → सीद + शतृ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → सीदत्</big> |
|||
<big>षद्लृ विसरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | भेदः अस्ति '''आच्छीनद्योर्नुम्''' इत्यनेन तुदादौ शतरि स्त्रीयां नुम्-विकल्पः | सीदन्, सीदन्ती, सीदती |</big> |
|||
<big>शद्लृ + श → शद् + अ → '''पा'''-'''घ्रा'''-'''ध्मा''' (७.३.७८) इत्येनेन शीय-आदेशः → शीय + अ → '''अतो गुणे''' (६.१.९७) → शीय → शीय + शानच् → शीय + आन → '''आने मुक्''' (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमः → शीय + मान → शीयमान |</big> |
|||
<big>शद्लृ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि |</big> |
|||
<big>'''अतो गुणे''' (६.१.९७) = अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायाम् | गुणः इत्युक्तौ अ, ए, ओ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''उस्यपदान्तात्''' (६.१.९६) इत्यस्मात् '''अपदान्तात्''' अपि च '''एङि पररूपम्''' (६.१.९४) इत्यस्मात् '''पररूपम्''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— '''गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम्''' |</big> |
|||
<big>इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८), '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनयोः अपवादभूतसूत्रम् |</big> |
|||
<big>यथा—</big> |
|||
<big>पठ + अत् → पठत् '''अतो गुणे''' (६.१.९७), अत्र '''अकः सवर्णे दीर्घः''' इत्यस्य अपवादभूतसूत्रम्</big> |
|||
<big>सेव + ए → सेवे '''अतो गुणे''' (६.१.९७), अत्र '''वृद्धिरेचि''' इत्यस्य अपवादभूतसूत्रम्</big> |
|||
<big>b. इष्-धातोः छकारादेशः (एकः धातुः)</big> |
|||
<big>तुदादौ इष इच्छायाम् इति धातुः |</big> |
|||
<big>'''इषुगमियमां छः''' (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् | इषुगमियमाम् षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— '''इषुगमियमां अङ्गस्य छः शिति''' | '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने |</big> |
|||
<big>केवलं शिति परे इति धेयम् | अतः इच्छति परन्तु एषिष्यति |</big> |
|||
<big>इष् + श → '''इषुगमियमां छः''', '''अलोन्त्यस्य''' इत्याभ्यं ष्-स्थाने छ् → इछ् + अ → '''छे च''' (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्-आगमो भवति | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन इकारस्य अनन्तरं (न तु पूर्वम्) | इछ् + अ → इत्छ् + अ → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तवर्गस्य शकारचवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्ग आदेशः → इत्छ् + अ → इच्छ् + अ → इच्छ → इच्छ + अत् → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → इच्छत्</big> |
|||
<big>इष → इष् '''उपदेशेऽजनुनासिक इत्'''</big> |
|||
<big>इष् + अ → इछ् + अ '''इषुगमियमां छः'''</big> |
|||
<big>इछ् → इत्छ् '''छे च''' (६.१.७३), '''आद्यन्तौ टकितौ''' (१.१.४६)</big> |
|||
<big>इत्छ् → इच्छ् '''स्तोः श्चुना श्चुः''' (८.४.४०)</big> |
|||
<big>इच्छ् + अ → इच्छ वर्णमेलने</big> |
|||
<big>इच्छ + अत् '''अतो गुणे''' (६.१.९७)</big> |
|||
<big>इच्छत्</big> |
|||
<big>'''छे च''' (६.१.७३) = छकारे परे, ह्रस्वस्वरस्य तुक् आगमः भवति | छे सप्तम्यन्तं, च अव्ययपदम्, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वस्य तुक् छे च संहितायाम्''' |</big> |
|||
<big>अत्र इछ् इति स्थितिः | इछ् इत्यस्मिन् 'इ' ह्रस्वस्वरः, अपि च छकारः परे अस्ति | अतः तुक्-आगमः भवति— किन्तु कुत्र ? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः ? ह्रस्वस्वरस्य इति सूत्रेण उक्तम् | तदा इकारात् प्राक् अथवा परे इति जिज्ञासायां सत्याम्, अग्रिमं सूत्रम् उत्तरं ददाति |</big> |
|||
<big>'''आद्यन्तौ टकितौ''' (१.१.४६) = टित् च कित् च यस्य आगमः, तस्य क्रमशः आदौ च अन्ते च अवयवः भवति | आगमः टित् चेत् पूर्वम् आयाति; आगमः कित् चेत् अन्ते आयाति | आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः, टश्च कश्च टकौ, इतरेतरद्वन्द्वः, टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— '''आद्यन्तौ टकितौ''' |</big> |
|||
<big>तुक् कित् अस्ति अतः अनेन सूत्रेण इछ् इत्यस्मिन् इकारात् परे आयाति | तुक् इत्यस्मिन् क् इत्, उ इत्, त् अवशिष्यते | अतः इछ् → इत्छ् |</big> |
|||
<big>3. <u>सम्प्रसारणिनः धातवः</u>—</big> |
|||
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) = ग्रह्, ज्या, वय्, व्यध्, वश्, '''व्यच्''', '''व्रश्च्''', '''प्रच्छ्''', '''भ्रस्ज्''', एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big> |
|||
<big>ओव्रश्चू → व्रश्च् → वृश्च → वृश्चत्</big> |
|||
<big>प्रच्छ् → पृच्छ् → पृच्छ → पृच्छत्</big> |
|||
<big>भ्रस्ज → भ्रज्ज् → भृज्ज → भृज्जत्, भृज्जमान ['''स्तोः श्चुना श्चुः''', '''झलां जश् झशि''']</big> |
|||
<big>व्यच → व्यच् → विच → विचत्</big> |
|||
<big>4. <u>नुमागमः</u> (8 धातवः)</big> |
|||
<big>एतावता अस्माभिः दृष्टं यत् धातुः इदित् चेत्, नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः '''इदितो नुम् धातोः''' (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति | परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति (मुचाद्यन्तर्गणः) यत्र धातुः इदित् नास्ति चेदपि नुमागमः विधीयते |</big> |
|||
<big><u>मुचाद्यन्तर्गणः</u></big> |
|||
<big>मुच्ऌ → मुच्</big> |
|||
<big>षिच → सिच्</big> |
|||
<big>विद्ऌ → विद्</big> |
|||
<big>खिद → खिद्</big> |
|||
<big>पिश → पिश्</big> |
|||
<big>कृती → कृत्</big> |
|||
<big>लिप → लिप्</big> |
|||
<big>लुप्ऌ → लुप्</big> |
|||
<big>मुच् + श → मुच् + अ →</big> |
|||
<big>'''शो मुचादीनाम्''' (७.१.५९) = मुचादीनां नुमागमः भवति शः परे |</big> |
|||
<big>'''मिदचोऽन्त्यात्परः''' (१.१.४७) = यः आगमः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तं, परः प्रथमान्तम् अनेकपदमिदं सूत्रम् |</big> |
|||
<big>नुम् आगमः मित् अस्ति (मकारः इत् यस्य सः), अतः नुम् अचः अन्त्यात् परः आयाति |</big> |
|||
<big>उदा--</big> |
|||
<big>मुचऌ → मुच् '''उपदेशेऽजनुनासिक इत्'''</big> |
|||
<big>मुच् → मुन्च् '''शो मुचादीनाम्'''</big> |
|||
<big>मुन्च् → मुंच् '''नश्चापदान्तस्य झलि'''</big> |
|||
<big>मुंच् → मुञ्च् '''अनुस्वारस्य ययि परसवर्णः'''</big> |
|||
<big>मुञ्च् + श + अत् → मुञ्चत्</big> |
|||
<big>खिद → खिद् → खिन्द् → खिंद् → खिन्द् [खिन्द् + श + शतृ → खिन्दत्]</big> |
|||
<big>लिप → लिप् → लिन्प् → लिंप् → लिम्प् [लिम्प् + श + शतृ → लिम्पत्]</big> |
|||
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' इत्यस्मात् '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः |</big> |
|||
<big>परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः'''</big> |
|||
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |</big> |
|||
<big>5. <u>सन्धिकार्यम्</u> (2 धातू)</big> |
|||
<big>ओलस्जी → लस्ज् '''उपदेशेऽजनुनासिक इत्'''</big> |
|||
<big>लस्ज् → लश्ज् '''स्तोः श्चुना श्चुः''' (८.४.४०)</big> |
|||
<big>लश्ज् → लज्ज् '''झलां जश् झशि''' (८.४.५३)</big> |
|||
<big>लज्ज् + श + अत् → लज्जत्</big> |
|||
<big>'''झलां जश् झशि''' (८.४.५३) = झलः स्थाने जश्-आदेशः भवति, जशि परे | झलां षष्ठ्यन्तम्, जश् प्रथमान्तम्, झशि सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | झल् = किमपि व्यञ्जनम्, वर्गाणां पञ्चमम्, य-व-र-ल च विहाय | जश् = कस्यापि वर्गस्य तृतीयवर्णः (ज्, ब्, ग्, ड्, द्) | झश् = वर्गीय-व्यञ्जनानां तृतीयाः चतुर्थाश्च सदस्याः |</big> |
|||
<big>टुमस्जो अपि तथा | मस्ज् → मश्ज् → मज्ज् → मज्ज् + अ → मज्ज → मज्ज + अत् → मज्जत्</big> |
|||
<big>6. <u>आय प्रत्ययः</u> (1 धातुः)</big> |
|||
<big>तुदादौ विच्छ् इति धातुः |</big> |
|||
<big>'''गुपूधूपविच्छपणिपनिभ्यः आयः''' (३.१.२८) = एभ्यः धातुभ्यः आय-प्रत्ययः स्यात् स्वार्थे | गुपूश्च धूपश्च विच्छश्च पणिश्च पनिश्च गुपूधूपविच्छपणिपनयः इतरेतरद्वन्द्वः, तेभ्यः | '''धातोः''', '''प्रत्ययः''', '''परश्च''' इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः''' '''प्रत्ययः परश्च''' |</big> |
|||
<big>विच्छ् + आय = विच्छाय + अ → '''अतो गुणे''' (६.१.९७) → विच्छाय → विच्छाय + अत् → विच्छायत्</big> |
|||
<big>7. <u>विकरणप्रत्यय-विकल्पः</u> (1 धातुः)</big> |
|||
<big>'''वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः''' (३.१.७९) = भ्राश्, भ्लाश्, भ्रमु, क्रम्, क्लम्, त्रस्, '''त्रुट्''', लष्, एभ्यः श्यन्-प्रत्ययः विकल्पेन भवति | श्यन्-अभावे यः तत्तद्गणस्य विकरण-प्रत्ययः विधीयते, सः भवति एव | भ्राशश्च, भ्लाशश्च, भ्रमुश्च, क्रमुश्च, क्लमुश्च, त्रसिश्च, त्रुटिश्च, लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''दिवादिभ्यः श्यन्''' (३.१.६९) इत्यस्मात् '''श्यन्''' इत्यस्य अनुवृत्तिः | '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः |</big> |
|||
<big>तुदादौ त्रुट् → शप्रत्यये त्रुटत्, विकल्पेन श्यन्-प्रत्यये त्रुट्यत् |</big> |
|||
<big>इत्यनेन तुदादिगणस्य सर्वेषां धातूनां शत्रन्तरूपाणि साधितानि |</big> |
|||
<big>Swarup - Dec 2014</big> |
|||
<big>---------------------------------</big> |
|||
<big>[https://static.miraheze.org/samskritavyakaranamwiki/f/fb/%E0%A5%A6_%E0%A5%AC_-_%E0%A4%A4%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%A6%E0%A4%BF%E0%A4%95%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf ०६ - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्.pdf] (108k) Swarup Bhai, Dec 25, 2019, 12:37 AM v.1</big> |
Latest revision as of 17:22, 10 July 2022
तुदादौ शतृ-व्यवस्था
शतृ-प्रत्ययः शित् इति कारणतः तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | शतृ-प्रत्ययः नित्यं कर्त्रर्थे च | तुदादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श-विकरणप्रत्ययः विहितः अस्ति | वस्तुतः प्रथमं कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाध्य तुदादिभ्यः शः (३.१.७७) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप् इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः तुदादिभ्यः शः, कर्तरि शप् इत्यस्य अपवादभूतसूत्रम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यं सिध्यति |
तुदादिभ्यः शः (३.१.७७) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, तुदादिगणे स्थितेभ्यः धातुभ्यः श-प्रत्ययः भवति | तुद् आदिर्येषां ते, तुदादयः बहुव्रीहिसमासः, तेभ्यः तुदादिभ्यः | तुदादिभ्यः पञ्चम्यन्तम्, श प्रथमान्तम्, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— कर्तरि सार्वधातुके तुदादिभ्यः धातुभ्यः परश्च श प्रत्ययः |
कर्तरि शप् (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, तर्हि धातुतः शप्-प्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रम्— कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः |
अयं श-प्रत्ययः शित्, अतः अनेन गुण-कार्यं विहितं यत्र यत्र प्रसक्तम् | परन्तु शः अपित्वात् सार्वधातुकमपित् इति सूत्रेण ङिद्वत् | ङिद्वत् अतः क्क्ङिति च इति कारणेन यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
आहत्य तुदादिगणे शतृ-प्रत्यये परे श-प्रत्ययः विहितः | श च ङिद्वत् | अस्य एकः परिणामः गुणनिषेधः | परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य ङिद्वत् भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |
किति ङिति विशिष्ट-कार्याणि
यः कोऽपि प्रत्ययः कित् ङित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | तुदादौ तुद् + श + ति → तुदति | तुद् + श + शतृ → तुदत् | क्क्ङिति च (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां हलन्तधातूनाम् इत्-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | तृम्फ् + श + ति → न्-लोपः | तृम्फ् + श + शतृ → न्-लोपः | अनिदितां हल उपधायाः क्ङिति (६.४.२४) | परन्तु तुदादितणे विशिष्ट-वार्तिकेन एषां पुनः नुमागमः आनीयते | शे तृम्फादीनां नुम्वाच्यः | तृम्फ् + श + ति → न्-लोपः → तृफ् + अ + ति → नुम्-आगमः → तृम्फ् + अ + ति → तृम्फति |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च् + श + ति → वृश्चति | व्रश्च् + श + शतृ → वृश्चत् | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (३.१.१३) |
धेयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् (श्यन्, श), तथापि सर्वत्र तयोः कार्यं समानं नास्ति; भेदाः सन्ति यतोहि श्यन् → य हलादिः अपित् प्रत्ययः; श → अ अजादिः अपित् प्रत्ययः | हलादि-अजादि-भेदात् कार्ये भेदास्सन्ति | परन्तु उपरितन-नियमत्रयं सार्वत्रिकम् | नाम कित् ङित्-प्रत्ययः परे अस्ति चेत्, एषां त्रयाणां कार्यं भवत्येव | एषु त्रिषु नियमेषु—गुण-निषेधः, न्-लोपः, सम्प्रसारणम् इत्येषु—प्रत्ययस्य हलादि-अजादि-भेदात् न कोऽपि प्रभावः |
किन्तु अन्यत्र हलादि-अजादि-भेदेन कार्ये भेदः | यद्यपि कार्ये कित्-ङित् इति प्रसङ्गः अस्ति, परन्तु हलादि परे, अथावा अजादि परे इति कुत्रचित् उक्तम् | यथा प्रत्ययः हलादिः कित्-ङित् चेत्, हलि च (८.२.७७) इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | दिवादिगणे श्यन् हलादिः अतः इदं कार्यं भवति (जॄ + य → जिर् + य → जीर् + य → जीर्यति); तुदादौ श अजादिः अतः न भवति | अन्यत्र प्रत्ययः अजादिः कित्-ङित् चेदेव भवति | यथा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण (किति ङिति) अचि परे, इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशः भवति | रि + अ + ति → र् + इय् + अ + ति → रियति | दिवादौ श्यन् हलादिः अतः इदं कार्यं न सम्भवति |
अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |
आयोजन-विधिः
आहत्य यथासामान्यं शतृ-प्रत्यये परे अस्माकं सोपानद्वयं प्रवर्तनीयम्—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. शतृप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-शतृप्रत्यययोः मेलनम्
तुदादिगणे उपर्युक्तानि श-निमित्तकानि कार्याणि प्रथमसोपाने भवन्ति यथास्थानम्; द्वितीयसोपाने अङ्गम् अदन्तम् अतः अङ्गकार्यं (गुणकार्यं) नास्ति; वर्णनिमित्तकं कार्यम् अस्ति यथासामान्यम्, अतो गुणे (६.१.९७) इत्यनेन |
धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम् | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | अजन्तधातवः— अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः— अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति | तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति, तानि सूच्यन्ते; तदा विशेषधातूनां कार्याणि सूच्यन्ते |
तुदादिगणः (157 धातवः)
A. सामान्यधातवः (114 धातवः)
एषां धातूनां कृते शत्रन्तप्रातिपदिकनिर्माण-समये किमपि कार्यं नास्ति | केवलं वर्णमेलनम् | लघु-इगुपधधातुः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः, तदा सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः |
अदुपधधातवः (4 धातवः)
त्वच् + श → त्वच → त्वच + शतृ → त्वच + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → त्वचत्
लज् → लजत्, कड् → कडत्, चल् → चलत्
इदुपधधातवः (23 धातवः)
लिख् + श → लिख → लिख + शतृ → लिख + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → लिखत्
उदुपधधातवः (55 धातवः)
तुद् + श → तुद → तुद + शतृ → तुद + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → तुदत्
ऋदुपधधातवः (21 धातवः)
सृज् + श → सृज → सृज + शतृ → सृज + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → सृजत्
शेषधातवः (10 धातवः)
चर्च् + श → चर्च → चर्च + शतृ → चर्च + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → चर्चत्
B. विशेषधातवः (44 धातवः)
1. इगन्तधातवः (16 धातवः)
इगन्तधातवः = इक् प्रत्याहारस्य कश्चन सदस्यः अन्ते येषां ते | इक् प्रत्याहारः नाम इ, उ, ऋ, ऌ | अतः अस्मिन् इकारान्तधातवः, उकारान्तधातवः, ऋकारान्तधातवः च अन्तर्भूताः |
एतावता अस्माभिः दृष्टं यत् भ्वादिगणे शप् पित् अतः सर्वत्र इगन्तधातौ गुणः— नी → ने, भू → भो, कृ → कर् इति | दिवादिगणे श्यन् अपित् अतः गुण-निषेधः; तत्र गुणाभावे विशिष्टकार्याणि वर्तन्ते | तुदादिगणः अपि तथा |
श इति विकरणप्रत्ययः | अयं श-प्रत्ययः सार्वधातुकः (तिङ्-शित्सार्वधातुकम्), अपित् (पकारः इत् यस्य न), ङिद्वत् (क्ङिति च), अजादिः (अच् आदौ यस्य सः) च | अतः सङ्क्षेपे अजादिः अपित् इति वदेम |
एतावता वयं दृष्टवन्तः यत् व्याकरणे इ, उ, ऋ इत्येषां कार्यद्वयं सम्भवति—
१. गुणादेशः | नाम इ → ए, उ → ओ, ऋ → अर् इति |
२. यण् आदेशः (इको यणचि) | नाम इ → य्, उ → व्, ऋ → र् इति |
अधुना इतोऽपि द्वे कार्ये सम्भवतः इति बोध्यम्—
३. इयङ्, उवङ् आदेशौ | इ → इय्, उ → उव् |
४. रिङ् इत्यादेशः | ऋ → रि |
कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम |
a. इकारान्तधातवः (4 धातवः)
श इति विकरणप्रत्ययः अजादिः अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति— अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) | अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यं अवलोकयेम | तुदादिगणीयः रि इति धातुः |
१. अयं रि-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | रि + शप् → रि + अ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → रे + अ → एचोऽयवायावः इत्यनेन अयादेशः → रय → रय + शतृ → रयत् | इदं केवलं चिन्तनार्थं; रि-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |
२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि रि-धातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | रि + श → रि + अ → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → र्य → र्य + शतृ → र्यत् | इदं केवलं चिन्तनार्थं; वास्तवे इको यणचि बाधितम् अस्ति अतः इदं रूपं न सम्भवति |
३. वस्तुस्थितिः का इति अग्रे पश्येम | रि + श → रि + अ → इको यणचि इत्यनेन यण्-प्रसक्तिः → बाधितं बलाबलेन → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्रसक्तिः → सार्वधातुकम् अपित् इत्यनेन श-प्रत्ययः ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → रि + अ → श-प्रत्ययः अजाद्यपित् अतः तस्मात् पूर्वं स्थितस्य इकारान्तधातोः इकारस्य इयङ्-आदेशः भवति |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
ङिच्च (१.१.५३) = आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | इदं सूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५) इत्यस्य अपवादः; अनेकाल् शित्सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङित् प्रथमान्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अन्त्यस्य इत्यस्य अनुवृत्तिः; स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य स्थाने |
रि + अ → र् + इय् + अ → रिय+ शतृ → रिय + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → रियत्
तुदादिगणे चत्वारः इकारान्तधातवः रि, पि, धि, क्षि | एषां सर्वेषां कार्यं रि यथावत् अतः रियत्, पियत्, धियत्, क्षियत् |
b. उकारान्त/ऊकारान्तधातवः (6 धातवः)
श इति विकरणप्रत्ययः अजादिः अपित् इति उक्तम्; तस्मात् कारणात् अत्र पुनः इदं सूत्रम् प्रवर्तते— अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) | अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यं अवलोकयेम | तुदादिगणीयः गु इति धातुः |
१. अयं गु-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | गु + शप् → गु + अ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → गो + अ → एचोऽयवायावः इत्यनेन अवादेशः → गव् + अ → गव → गव + शतृ → गवत् | इदं केवलं चिन्तनार्थम्; अयं गु-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |
२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि गु-धातोः शतरि किं रूपम् अभविष्यत् इति चिन्तयेम | गु + श → गु + अ → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → ग्व → ग्व + शतृ → ग्वत् | इदं केवलं चिन्तनार्थम्; वास्तवे इको यणचि बाधितम् अस्ति अतः इदं रूपं न सम्भवति |
३. वस्तुस्थितिः का इति अग्रे पश्येम | गु + श → गु + अ → इको यणचि इत्यनेन यण्-प्राप्तिः → बाधितं बलाबलेन → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् इत्यनेन श ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → गु + अ → श प्रत्ययः अजाद्यपित् अतः उवङ् आदेशः भवति |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य अर्थः उपरि दत्तः | अत्र गु-धातुः उकारान्तः अतः उकारस्य स्थाने उवङ् आदेशः न तु इयङ्, इत्येव भेदः | यतः सूत्रं वक्ति यत् इकारान्तधातोः स्थाने इयङ्, उकारान्तधातोः स्थाने उवङ् इति | तदा उवङ् आदेशः कस्य स्थाने इति चेत्, पुनः अनेकाल् शित्सर्वस्य इत्यस्य अपवादे ङिच्च सूचयति यत् अन्त्यस्य एव आदेशः | तर्हि उवङ् आदेशः भवति अन्त्यस्य उकारस्य स्थाने |
गु + अ → ग् + उव् + अ → गुव → गुव + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → गुवत्
तुदादिगणे षट् उकारान्तधातवः गु, ध्रु, कुङ्, णू, धू, षू इति | एषां सर्वेषां कार्यं गु यथावत् अतः गुवत्, ध्रुवत्, कुवमान (ङित् अतः आत्मनेपदिधातुः), नुवत्, धुवत्, सुवत् |
c. ऋकारान्तधातवः
तुदादिगणे चत्वारः ऋकारान्तधातवः सन्ति— मृङ्, पृङ्, दृङ्, धृङ् च | इमे सर्वे ङितः अतः अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन आत्मनेपदिनः | तस्मात् शानच् एव भवति न तु शतृ | तथापि सङ्क्षेपे शानजार्थं किं भवति इति पश्येम | शानच् अपि कर्त्रर्थे सम्भवति, तदा शित् तु अस्त्येव अतः तस्य सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् विहितः |
शपं प्रबाध्य श-विकरणप्रत्ययः आयाति इति ज्ञातम् | तस्मात् कारणात् अत्र रिङ् शयग्लिङ्क्षु (७.४.२८) इति सूत्रं कार्यं करोति | अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति, श-प्रत्ययः परे अस्ति चेत् | क्रमेण इदं कार्यं अवलोकयेम | तुदादिगणीयः मृङ् इति धातुः |
१. अयं मृङ् धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि शानचि किं रूपम् अभविष्यत् इति चिन्तयेम | मृ + शप् → मृ + अ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → मर् + अ → मर + शानच् → अनुबन्धलोपे → मर + आन → आने मुक् (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमो भवति → मर + मान → मरमान | इदं केवलं चिन्तनार्थं किल; अयं मृङ् धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |
२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि मृङ्-धातोः शानचि किं रूपम् अभविष्यत् इति चिन्तयेम | मृ + श → मृ + अ → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → म्र → म्र + शानच् → अनुबन्धलोपे → म्र + आन → आने मुक् (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमो भवति → म्र + मान → म्रमान | इदं केवलं चिन्तनार्थम्; वास्तवे इको यणचि बाधितम् अस्ति अतः इदं रूपं न सम्भवति |
३. वस्तुस्थितिः का इति अग्रे पश्येम |
मृ + श → मृ + अ → इको यणचि (६.१.७७) इत्यस्य प्राप्तिः, तत् प्रबाध्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुण-प्राप्तिः, सार्वधातुकमपित् (१.२.४) इत्यनेन अपित्त्वात् ङिद्वत्, क्क्ङिति च (१.१.५) इत्यनेन ङिद्वात् गुणनिषेधः → रिङ् शयग्लिङ्क्षु (७.४.२८) इत्यनेन श-प्रत्यये परे ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः (मृ-धातोः पूर्णतया स्थाने रि); ङिच्च (१.१.५३) इत्यनेन आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः → म् + रि + अ → म्रि + अ → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित् अतः यण्-सन्धिं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् आदेशः → इयङ् आदेशः ङित् अतः ङिच्च इत्यनेन अन्त्यस्य एव आदेशः, इकारस्य स्थाने इय्-आदेशः → म्र् + इय् + अ → म्रिय् + अ → म्रिय → म्रिय + शानच् → अनुबन्धलोपे → म्रिय + आन → आने मुक् (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमः → म्रिय + मान → वर्णमेलने, णत्वे → म्रियमाण |
रिङ् शयग्लिङ्क्षु (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति श-प्रत्यये, यक्-प्रत्यये, यकारादि-आर्धधातुक-लिङ् च परे | यि असार्वधातुके च लिङः विशेषणम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन ऋतः अङ्गस्य नाम न केवलम् ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | रिङ् ङित्, अतः अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५), तत् प्रबाध्य ङिच्च (१.१.५३) इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति | यस्मिन् विधिः तदादावल्ग्रहणे इति परिभाषया यि नाम यकारादौ (यस्य आदौ यकारः, तस्मिन् परे) | शश्च यक् च लिङ् च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्क्षु | रिङ् प्रथमान्तम्, शयग्लिङ्क्षु सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि, अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् असार्वधातुके, रीङ् ऋतः (७.४.२७) इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— यि असार्वधातुके शयग्लिङ्क्षु ऋतः अङ्गस्य रिङ् |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च)| परिभाषासूत्रम् |
ङिच्च (१.१.५३) = आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | इदं सूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५) इत्यस्य अपवादः; अनेकाल् शित्सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङित् प्रथमान्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अन्त्यस्य इत्यस्य अनुवृत्तिः; स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य स्थाने |
अत्र एकः प्रश्नः उदेति— यदा रिङ्-आदेशः विहितः, तदा म्रि इति रूपम् | अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः कथम् ?
आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति; स्वस्य धातुसंज्ञा तिष्ठति | मृ → म्रि इत्यस्य विकारेण म्रि तदानीं धातुः; तस्य धातुसंज्ञा तदानीम् अस्ति | यतः रि इति आदेशः | अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते | म्रि → म्रिय् अयमपि धातुः | परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः, तदा धातुसंज्ञा न तिष्ठति | म्रिय् + अ → म्रिय | श इति विकरणप्रत्ययः; तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति | अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते |
तुदादिगणे चत्वारः ऋकारान्तधातवः मृङ्, पृङ्, दृङ्, धृङ् | एषां सर्वेषां कार्यं मृङ्-धातोरिव अतः म्रियमाण, प्रियमाण, द्रियमाण, ध्रियमाण इति |
*हलि च इति सूत्रे यथा, तथैव अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रे अपिति परे, किति परे, ङिति परे वा नोक्तम्, न वा अनुवृत्तौ अस्ति | परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे | अतः पाणिनेः वदनस्य आवश्यकता नासीत् | "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अत्र अस्माभिः अनुमानेन अवगतमेव |
d. दीर्घ-ॠकारान्तधातवः (द्वौ धातू स्तः)
तुदादिगणे कॄ, गॄ इति द्वौ ॠकारान्तधातू स्तः |
अधुना अस्माभिः दृष्टं यत् ह्रस्व-ऋकारान्तधातूनां रिङ्-आदेशः भवति, यथा मृङ् → (रिङ् आदेशः) म्रि → (इयङ् आदेशः) म्रिय् + (श विकरणप्रत्ययः) अ → म्रिय इति अङ्गम्, म्रियमाण इति शानजन्तरूपम् | परन्तु दीर्घॠकारान्तधातूनां कार्यं भिन्नम् | स्मर्यते यत् दिवादिगणे दीर्घॠकारान्तधातुषु ॠकारस्य स्थाने इ-आदेशः जॄ → जि | तुदादिगणे अपि तथा; उभयत्र ॠत इद्धातोः (७.१.१००) इत्यस्य प्रसक्तिः | परन्तु ततः अग्रे भिद्यते यतोहि दिवादिगणे श्यन् हलादिः अपित्; किन्तु तुदादिगणे श अजादिः अपित् | दिवादिगणे हलि च इत्यनेन उपधायाम् इकः दीर्घत्वम्, परन्तु तुदादिगणे हलि च इत्यस्य प्रसक्तिः नास्ति अतः उपधायाम् इक् ह्रस्वः तिष्ठति | अग्रे क्रमः प्रदत्तः अस्ति— कॄ इति धातुः |
कॄ + श → कॄ + अ → इको यणचि (६.१.७७) इत्यनेन यण्-सन्धेः प्राप्तिः → तं प्रबाध्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् (१.२.४) इत्यनेन श ङिद्वत्, क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → कॄ + अ → ॠत इद्धातोः (७.१.१००) इत्यनेन ॠदन्तस्य धातोः ह्रस्व-इकारादेशः → कि + अ → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → किर् + अ → किर → किर + शतृ → किर + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → किरत्
ॠत इद् धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) | परिभाषासूत्रम् |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च)| परिभाषासूत्रम् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
ऋकारस्य स्थाने यदा अण्-प्रत्याहारस्य कश्चन सदस्यः ("अ”, "इ”, "उ" वा) आयाति, तदा तस्मात् परे रेफः आयाति | अतः अण् "रपरः" भवति— "अर्", “इर्र्", “उर्र्" वा इति | अत्र ॠकारस्य स्थाने इ आगतः, अतः रपरः भवति, इर् इति | कि → किर् |
गॄ धातुः अपि तथा | गॄ + अ → गि + अ → गिर् + अ→ गिर → गिर + शतृ → गिर + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → गिरत्
दिवादिगणे क्रमः तथैव अस्ति, किन्तु अन्ते इकारः दीर्गः भवति—
जॄ → (ॠत इद्धातोः) जि → (उरण् रपरः) जिर् → (हलि च) जीर् + (श्यन् विकरणप्रत्ययः) य → जीर्य → जीर्य +अत्→ जीर्यत्
हलि च (८.२.७७) इत्यनेन हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | दिवादिगणे श्यन् हलादिः अपित् अस्ति; तुदादिगणे श अजादिः अपित् अस्ति | अतः दिवादौ ॠकारान्तधातुषु हलि च इत्यस्य प्रसक्तिः; तुदादौ अस्यामेव दशायां हलि च कार्यं न करोति |
अत्र उरण् रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम |
अ/आ + इ/ई = ए
अ/आ + उ/ऊ = ओ
अ/आ + ऋ/ॠ = अर्
इति सामान्यनियमः अस्तिकिल | परन्तु गुणसंज्ञा-विधायकसूत्रम् अदेङ्ग गुणः (१.१.२) इत्यनेन अ, ए, ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति | तत्र "अर्" किमपि नास्ति | यत्र गुणसन्धिः अपेक्षितः, तत्र आद्गुणः (६.१.८७) इत्यनेन अवर्णात् अचि परे पूर्वपरयोः एकः गुणादेशः भवति | गुणादेशः नाम पूर्वपरयोः स्थाने 'अ' वा, 'ए' वा 'ओ' वा आगच्छेत् | तत्र "अर्" तु नास्त्येव | तर्हि अ + ऋ → अर् कथम् ? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति— अ + ऋ → "अ, ए, ओ" इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः | अधुना स्थानेऽन्तरतमः इति सूत्रेण ध्वनि-दृष्ट्या तेषु त्रिषु, द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं "स्थान-तौल्यम्" अस्ति इति अवलोकनीयं भवति | अकारस्य कण्ठस्थानम्, ऋकारस्य मूर्धास्थानम् | अ, ए, ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति | (अ= कण्ठस्थानम्, ए= कण्ठतालुस्थानम्, ओ= कण्ठोष्ठस्थानम् इति |) तेषु त्रिषु, अ-ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते | अतः अ-ऋ इत्यनयोः स्थाने "अ" इत्यस्य गुणादेशप्राप्तिः | अधुना ऋ-स्थाने यः अकारः आगतः, सः अण्-प्रत्याहारस्य सदस्यः, अतः उरण् रपरः इत्यनेन रेफः परः भवति | तर्हि आहत्य अ/आ + ऋ/ॠ → आद्गुणः इत्यनेन पूर्वपरयोः स्थाने 'अ' → उरण् रपरः → अर् | महा + ऋषिः → मह् + अर् + षि → महर्षिः |
अवधेयं यत् ॠत इद्धातोः इति सूत्रं किति ङिति प्रत्यये परे एव कार्यं करोति | अतः यत्र विकरणप्रत्ययः अपित् नास्ति, तत्र प्रसक्तिः न भविष्यति | वृत्तान्ते भ्वादिगणे तॄ इति धातुः | यद्यपि ॠकारान्तधातुः अस्ति, तथापि ॠत इद्धातोः इत्यनेन ॠ-स्थाने इकारादेशः न भवति | भ्वादिगणे शप् पित् अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति | तॄ + शप् → तॄ + अ → तर् + अ → तर → तर + शतृ → तरत् |
अतः गणम् अनुसृत्य ॠकारान्तधातूनां कः भेदः इति पश्येम—
भ्वादिगणे तॄ → गुणः → तरत्
दिवादिगणे जॄ → इ-आदेशः, हलि च दीर्घः → जीर्यत्
तुदादिगणे कॄ → इ-आदेशः, अजादिः अपित् अतः न दीर्घः → किरत्
केचन जनाः वदन्ति यत् भ्वादितुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति | किन्तु यत्र गणसम्बद्धकार्यं वर्तते, तत्र अस्माकं न कोऽपि भ्रमः स्यात् | भ्वादिगणे गुणकार्यं प्रवर्तते; तुदादिगणे न कुत्रापि गुणकार्यम् | तुदादिगणे विकरणप्रत्ययः अजादिः अपित् अतः अपित्-निमित्तं कार्यं अपि च अजादि-अपित्-निमित्तं कार्यं भवतः, ये भ्वादौ न सञ्जायेते | यथा दीर्घ-ॠकारस्य → इ (ॠत इद्धातोः) प्रवर्तते केवलम् अपित्सु प्रत्ययेषु, यथा कॄ → किरत् | इयङ्-आदेशः केवलं अजादिषु अपित्सु प्रवर्तते (अचि श्नुधातुभ्रुवां य्वोरियङुवङौ) | रि + अ → र् + इय् + अ → रिय + शतृ → रिय + अत् → अतो गुणे (६.१.९७) इत्यनेन पररूपादेशः → रियत् |
2. धात्वादेशः
a. पा-आदिधातूनां धात्वादेशः (द्वौ धातू स्तः)
तुदादौ धातुद्वयम्— षद्लृ, शद्लृ |
पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदां अङ्गस्य पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः शिति |
षद्लृ + श → सद् + अ → पा-घ्रा-ध्मा (७.३.७८) इत्यनेन सीद-आदेशः → सीद + अ → अतो गुणे (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः → सीद → सीद + शतृ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → सीदत्
षद्लृ विसरणगत्यवसादनेषु इति धातुः भ्वादौ अपि तुदादौ अपि भवति | भेदः अस्ति आच्छीनद्योर्नुम् इत्यनेन तुदादौ शतरि स्त्रीयां नुम्-विकल्पः | सीदन्, सीदन्ती, सीदती |
शद्लृ + श → शद् + अ → पा-घ्रा-ध्मा (७.३.७८) इत्येनेन शीय-आदेशः → शीय + अ → अतो गुणे (६.१.९७) → शीय → शीय + शानच् → शीय + आन → आने मुक् (७.२.८२) इत्यनेन आने परे अदन्ताङ्गस्य मुक्-आगमः → शीय + मान → शीयमान |
शद्लृ शातने इति धातुः भ्वादौ अपि तुदादौ अपि भवति | उभयत्र रूपाणि समानानि |
अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः संहितायाम् | गुणः इत्युक्तौ अ, ए, ओ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९६) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम् |
इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादभूतसूत्रम् |
यथा—
पठ + अत् → पठत् अतो गुणे (६.१.९७), अत्र अकः सवर्णे दीर्घः इत्यस्य अपवादभूतसूत्रम्
सेव + ए → सेवे अतो गुणे (६.१.९७), अत्र वृद्धिरेचि इत्यस्य अपवादभूतसूत्रम्
b. इष्-धातोः छकारादेशः (एकः धातुः)
तुदादौ इष इच्छायाम् इति धातुः |
इषुगमियमां छः (७.३.७७) = इष्, गम्, यम् एषां छकारादेशः भवति शिति परे | इषुश्च गमिश्च यम् च तेषामितरेतरद्वन्द्वः इषुगमियमः, तेषाम् इषुगमियमाम् | इषुगमियमाम् षष्ठ्यन्तं, छः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— इषुगमियमां अङ्गस्य छः शिति | अलोन्त्यस्य (१.१.५२) इत्यनेन छ्-आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने |
केवलं शिति परे इति धेयम् | अतः इच्छति परन्तु एषिष्यति |
इष् + श → इषुगमियमां छः, अलोन्त्यस्य इत्याभ्यं ष्-स्थाने छ् → इछ् + अ → छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक्-आगमो भवति | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन इकारस्य अनन्तरं (न तु पूर्वम्) | इछ् + अ → इत्छ् + अ → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन तवर्गस्य शकारचवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्ग आदेशः → इत्छ् + अ → इच्छ् + अ → इच्छ → इच्छ + अत् → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः पररूपम् एकादेशः → इच्छत्
इष → इष् उपदेशेऽजनुनासिक इत्
इष् + अ → इछ् + अ इषुगमियमां छः
इछ् → इत्छ् छे च (६.१.७३), आद्यन्तौ टकितौ (१.१.४६)
इत्छ् → इच्छ् स्तोः श्चुना श्चुः (८.४.४०)
इच्छ् + अ → इच्छ वर्णमेलने
इच्छ + अत् अतो गुणे (६.१.९७)
इच्छत्
छे च (६.१.७३) = छकारे परे, ह्रस्वस्वरस्य तुक् आगमः भवति | छे सप्तम्यन्तं, च अव्ययपदम्, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ह्रस्वस्य तुक् छे च संहितायाम् |
अत्र इछ् इति स्थितिः | इछ् इत्यस्मिन् 'इ' ह्रस्वस्वरः, अपि च छकारः परे अस्ति | अतः तुक्-आगमः भवति— किन्तु कुत्र ? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः ? ह्रस्वस्वरस्य इति सूत्रेण उक्तम् | तदा इकारात् प्राक् अथवा परे इति जिज्ञासायां सत्याम्, अग्रिमं सूत्रम् उत्तरं ददाति |
आद्यन्तौ टकितौ (१.१.४६) = टित् च कित् च यस्य आगमः, तस्य क्रमशः आदौ च अन्ते च अवयवः भवति | आगमः टित् चेत् पूर्वम् आयाति; आगमः कित् चेत् अन्ते आयाति | आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः, टश्च कश्च टकौ, इतरेतरद्वन्द्वः, टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— आद्यन्तौ टकितौ |
तुक् कित् अस्ति अतः अनेन सूत्रेण इछ् इत्यस्मिन् इकारात् परे आयाति | तुक् इत्यस्मिन् क् इत्, उ इत्, त् अवशिष्यते | अतः इछ् → इत्छ् |
3. सम्प्रसारणिनः धातवः—
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (३.१.१३) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
ओव्रश्चू → व्रश्च् → वृश्च → वृश्चत्
प्रच्छ् → पृच्छ् → पृच्छ → पृच्छत्
भ्रस्ज → भ्रज्ज् → भृज्ज → भृज्जत्, भृज्जमान [स्तोः श्चुना श्चुः, झलां जश् झशि]
व्यच → व्यच् → विच → विचत्
4. नुमागमः (8 धातवः)
एतावता अस्माभिः दृष्टं यत् धातुः इदित् चेत्, नुमागमस्य प्रसक्तिः | यथा वदि-धातुः इदित् (ह्रस्व-इकारः इत् यस्य सः) अस्ति अतः इदितो नुम् धातोः (७.१.५८) इति सूत्रेण नुमागमः विहितः | वदि → वद् → वन्द् → वंद् → वन्द् इति भवति | परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति (मुचाद्यन्तर्गणः) यत्र धातुः इदित् नास्ति चेदपि नुमागमः विधीयते |
मुचाद्यन्तर्गणः
मुच्ऌ → मुच्
षिच → सिच्
विद्ऌ → विद्
खिद → खिद्
पिश → पिश्
कृती → कृत्
लिप → लिप्
लुप्ऌ → लुप्
मुच् + श → मुच् + अ →
शो मुचादीनाम् (७.१.५९) = मुचादीनां नुमागमः भवति शः परे |
मिदचोऽन्त्यात्परः (१.१.४७) = यः आगमः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तं, परः प्रथमान्तम् अनेकपदमिदं सूत्रम् |
नुम् आगमः मित् अस्ति (मकारः इत् यस्य सः), अतः नुम् अचः अन्त्यात् परः आयाति |
उदा--
मुचऌ → मुच् उपदेशेऽजनुनासिक इत्
मुच् → मुन्च् शो मुचादीनाम्
मुन्च् → मुंच् नश्चापदान्तस्य झलि
मुंच् → मुञ्च् अनुस्वारस्य ययि परसवर्णः
मुञ्च् + श + अत् → मुञ्चत्
खिद → खिद् → खिन्द् → खिंद् → खिन्द् [खिन्द् + श + शतृ → खिन्दत्]
लिप → लिप् → लिन्प् → लिंप् → लिम्प् [लिम्प् + श + शतृ → लिम्पत्]
नश्चापदान्तस्य झलि (८.३.२४) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः इत्यस्मात् मः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्—झलि अपदान्तस्य मः नः च अनुस्वारः इति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः |
परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् इति |
5. सन्धिकार्यम् (2 धातू)
ओलस्जी → लस्ज् उपदेशेऽजनुनासिक इत्
लस्ज् → लश्ज् स्तोः श्चुना श्चुः (८.४.४०)
लश्ज् → लज्ज् झलां जश् झशि (८.४.५३)
लज्ज् + श + अत् → लज्जत्
झलां जश् झशि (८.४.५३) = झलः स्थाने जश्-आदेशः भवति, जशि परे | झलां षष्ठ्यन्तम्, जश् प्रथमान्तम्, झशि सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | झल् = किमपि व्यञ्जनम्, वर्गाणां पञ्चमम्, य-व-र-ल च विहाय | जश् = कस्यापि वर्गस्य तृतीयवर्णः (ज्, ब्, ग्, ड्, द्) | झश् = वर्गीय-व्यञ्जनानां तृतीयाः चतुर्थाश्च सदस्याः |
टुमस्जो अपि तथा | मस्ज् → मश्ज् → मज्ज् → मज्ज् + अ → मज्ज → मज्ज + अत् → मज्जत्
6. आय प्रत्ययः (1 धातुः)
तुदादौ विच्छ् इति धातुः |
गुपूधूपविच्छपणिपनिभ्यः आयः (३.१.२८) = एभ्यः धातुभ्यः आय-प्रत्ययः स्यात् स्वार्थे | गुपूश्च धूपश्च विच्छश्च पणिश्च पनिश्च गुपूधूपविच्छपणिपनयः इतरेतरद्वन्द्वः, तेभ्यः | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः आयः प्रत्ययः परश्च |
विच्छ् + आय = विच्छाय + अ → अतो गुणे (६.१.९७) → विच्छाय → विच्छाय + अत् → विच्छायत्
7. विकरणप्रत्यय-विकल्पः (1 धातुः)
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७९) = भ्राश्, भ्लाश्, भ्रमु, क्रम्, क्लम्, त्रस्, त्रुट्, लष्, एभ्यः श्यन्-प्रत्ययः विकल्पेन भवति | श्यन्-अभावे यः तत्तद्गणस्य विकरण-प्रत्ययः विधीयते, सः भवति एव | भ्राशश्च, भ्लाशश्च, भ्रमुश्च, क्रमुश्च, क्लमुश्च, त्रसिश्च, त्रुटिश्च, लष् च तेषां समाहारद्वन्द्वः भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष्, तस्मात् भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः | वा अव्ययपदं, भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | दिवादिभ्यः श्यन् (३.१.६९) इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः |
तुदादौ त्रुट् → शप्रत्यये त्रुटत्, विकल्पेन श्यन्-प्रत्यये त्रुट्यत् |
इत्यनेन तुदादिगणस्य सर्वेषां धातूनां शत्रन्तरूपाणि साधितानि |
Swarup - Dec 2014
---------------------------------
०६ - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्.pdf (108k) Swarup Bhai, Dec 25, 2019, 12:37 AM v.1