06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam: Difference between revisions

From Samskrita Vyakaranam
06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{| class="wikitable mw-collapsible"
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
!<big>'''ध्वनिमुद्रणानि'''</big>
|-
|-
Line 24: Line 24:
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/30_shatrantAnAM_num-vyavasthA_2014-12-24.mp3 shatrantAnAM_num-vyavasthA_2014-12-24]</big>
|<big>२) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/30_shatrantAnAM_num-vyavasthA_2014-12-24.mp3 shatrantAnAM_num-vyavasthA_2014-12-24]</big>
|}
|}
<big>ध्वनिमुद्रणानि -</big>



<big>2020 वर्गः</big>

<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/188_shatrantAnAM_prAtipadikanirmANam_abhyAsaH%2BsubantanirmANam_2020-01-14.mp3 shatrantAnAM_prAtipadikanirmANam_abhyAsaH+subantanirmANam_2020-01-14]</big>

<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/189_shatranatAnaM%20-numvyavasthA_sUtrANi_2020-01-22.mp3 shatranatAnaM -numvyavasthA_sUtrANi_2020-01-22]</big>

<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/190_shatranatAnaM-%20numvyavasthA-pumlingE_%202020-01-29.mp3 shatranatAnaM- numvyavasthA-pumlingE_ 2020-01-29]</big>

<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/191_shatranatAnaM-%20numvyavasthA--pumlingE%2Bpada%2BbHa%20sangnYA_%202020-02-04.mp3 shatranatAnaM- numvyavasthA--pumlingE+pada+bHa sangnYA_ 2020-02-04]</big>

<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/192_shatrantAnaM-numvyavasthA--pumlingE-juhOtyAdigaNe%2BjakshityAdya%20ShaT_2020-02-12.mp3 shatrantAnaM-numvyavasthA--pumlingE-juhOtyAdigaNe+jakshityAdya ShaT_2020-02-12]</big>

<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/193_%20shatrantAnaM-numvyavasthA--napumsakalingE_2020-02-18.mp3 shatrantAnaM-numvyavasthA--napumsakalingE_2020-02-18]</big>

<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/194_shatrantAnaM-numvyavasthA--nampumsakalingE%2B%20shAnajantAnAM-prakriyAcintanam_2020-02-25.mp3 shatrantAnaM-numvyavasthA--nampumsakalingE-abhyasthasangnyakAH_2020-02-25]</big>


<big>2014 वर्गः</big>

<big>१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/29_shatrantAnAM_subantanirmANam_2014-12-17.mp3 shatrantAnAM_subantanirmANam_2014-12-17]</big>

<big>२)) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/30_shatrantAnAM_num-vyavasthA_2014-12-24.mp3 shatrantAnAM_num-vyavasthA_2014-12-24]</big>





Revision as of 03:03, 31 May 2021

ध्वनिमुद्रणानि
2020 वर्गः
१) shatrantAnAM_prAtipadikanirmANam_abhyAsaH+subantanirmANam_2020-01-14
२) shatranatAnaM -numvyavasthA_sUtrANi_2020-01-22
३) shatranatAnaM- numvyavasthA-pumlingE_ 2020-01-29
४) shatranatAnaM- numvyavasthA--pumlingE+pada+bHa sangnYA_ 2020-02-04
५) shatrantAnaM-numvyavasthA--pumlingE-juhOtyAdigaNe+jakshityAdya ShaT_2020-02-12
६) shatrantAnaM-numvyavasthA--napumsakalingE_2020-02-18
७) shatrantAnaM-numvyavasthA--nampumsakalingE-abhyasthasangnyakAH_2020-02-25
2014 वर्गः
१) shatrantAnAM_subantanirmANam_2014-12-17
२) shatrantAnAM_num-vyavasthA_2014-12-24


एतावता शत्रन्तप्रातिपदिकं कथं निष्पद्यते इत्यस्माभिः परिशीलितम्‌ | अस्य विषयस्य प्रथमपाठे दृष्टं यत्‌ पुंसि नपुंसके च शत्रन्तप्रातिपदिकं समानम्‌ | यथा वदत्‌ इति प्रातिपदिकं पुंसि नपुंसकेऽपि | अग्रिमेषु पाठेषु अवलोकितं यत्‌ शतृ-प्रत्ययस्य कर्त्रर्थकत्वे सार्वधातुकत्वे च सति विकरणप्रत्ययाः विहिताः; अनेन कारणेन धातुगणम्‌ अनुसृत्य शत्रन्तप्रातिपदिकानि भिध्यन्ते | तत्र गभीरत्वेन परिशीलितं भ्वादिगणे, दिवादिगणे, तुदादिगणे च | अपरेषां गणानां रूपाणि यथा लट्‌-लकारस्य प्रथमपुरुषबहुवचनान्तरूपम्‌, तथैव भवन्ति | यतोहि 'अन्ति' (झि) अजादिः अपित्‌ सार्वधातुकप्रत्ययः, 'अत्‌' (शतृ) अपि तथा | अतः कस्मिन्‌ अपि गणे 'अन्ति' इति भागं निष्कास्य 'अत्‌' इति भागं संयोजयामश्चेत्‌, पुंसि नपुंसके च शत्रन्तप्रातिपदिकं सिद्धम्‌ |

वृत्तान्ते—


भ्वादौ          वदन्ति → वद्‌ → वदत्‌

दिवादौ         नृत्यन्ति → नृत्य्‌ → नृत्यत्‌

तुदादौ         लिखन्ति → लिख्‌ → लिखत्‌

चुरादौ         चोरय‌न्ति → चोरय्‌ → चोरयत्‌

अदादौ        सन्ति → स्‌ → सत्‌

जुहोत्यादौ     ददति → दद्‌ → ददत्‌

स्वादौ         चिन्वन्ति → चिन्व्‌ → चिन्वत्‌

रुधादौ         रुन्धन्ति → रुन्ध्‌ → रुन्धत्‌

तनादौ         तन्वन्ति → तन्व्‌ → तन्वत्‌

क्र्यादौ         क्रीणन्ति → क्रीण्‌ → क्रीणत्‌


शास्त्रीयप्रक्रिया भ्वादौ, दिवादौ, तुदादौ च साक्षात्‌ प्रदर्शितम्‌; अपरेषां गणानां शास्त्रीयप्रक्रिया यथा लट्‌-लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते तथैव अस्ति | तत्‌ सर्वं विस्तरेण प्रदर्शितं सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌) इति पाठे | समयस्य अभावे पुनः अत्र नोपस्थापितम्‌ |


अस्माकं शत्रन्तरूपाणां प्रथमपाठे इदमपि दृष्टं यत्‌ पुंसि नपुंसके च यत्‌ प्रातिपदिकं निष्पन्नम्‌, तस्य प्रातिपदिकस्य आधारेण अग्रे स्त्रीत्वविवक्षायां ङीप्‌-प्रत्ययः संयुज्यते प्रातिपदिक-स्तरे एव | येषु गणेषु अङ्गम्‌ अदन्तम्‌, तेषु स्त्रीलिङ्गस्य प्रातिपदिके नुम्‌-आगमः भवति | भ्वादौ, दिवादौ, चुरादौ च नुम्‌-आगमः नित्यः; तुदादौ, अदादौ (चतुर्दशानां आकारान्तधातूनां कृते) च नुम्‌-आगमः वैकल्पिकः; अवशिष्टेषु षट्सु गणेषु अङ्गम्‌ अनदन्तम्‌ इति कारणेन नुम्‌-आगमः न भवति |


नुम्‌-आगमः नित्यः

भ्वादौ भू-धातुः— भवन्ती, भवन्त्यौ, भवन्त्यः

दिवादौ दिव्‌-धातुः— दीव्यन्ती, दीव्यन्त्यौ, दीव्यन्त्यः

चुरादिगणे चोरि-धातुः— चोरयन्ती, चोरयन्त्यौ, चोरयन्त्यः


नुम्‌-आगमः वैकल्पिकः

तुदादौ तुद्‌-धातुः— तुदती, तुदत्यौ, तुदत्यः

तुदन्ती, तुदन्त्यौ, तुदन्त्यः

अदादौ या‍-धातुः— याती, यात्यौ, यात्यः

यान्ती, यान्त्यौ, यान्त्यः


नुम्‌-आगमः न भवति

अदादौ अस्‌-धातुः— सती, सत्यौ, सत्यः

जुहोत्यादौ दा-धातुः— ददती, ददत्यौ, ददत्यः

स्वादौ चि-धातुः— चिन्वती, चिन्वत्यौ, चिन्वत्यः

तनादौ तन्‌-धातुः— तन्वती, तन्वत्यौ, तन्वत्यः

क्र्यादौ क्री-धातुः— क्रीणती, क्रीणत्यौ, क्रीणत्यः

रुधादौ रुध्‌-धातुः— रुन्धती, रुन्धत्यौ, रुन्धत्यः


शत्रन्तानां नुम्‌-आगम-व्यवस्था


शत्रन्तानां कृते षट्‌ नुम्‌-विधायक-सूत्राणि—

उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्‌— सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्‌ |


नपुंसकस्य झलचः (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्‌-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्‌— नपुंसकस्य झलचः अङ्गस्य नुम्‌ सर्वनामस्थाने |


नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति | अनुवृत्ति-सहितसूत्रम्‌— न अभ्यस्तात्‌ अङ्गात्‌ शतुः नुम्‌ |


वा नपुंसकस्य (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्‌-आगमो भवति | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ शतुः नपुंसकस्य अङ्गस्य वा नुम्‌ सर्वनामस्थाने |


आच्छीनद्योर्नुम्‌ (७.१.८०) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः |


शप्‌श्यनोर्नित्यम्‌ (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः भवति | अनुवृत्ति-सहितं सूत्रम्‌— शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः |


पुंलिङ्गे

उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = नवसु गणेषु नुम्‌ भवति

नाभ्यस्ताच्छतुः (७.१.७८) = जुहोत्यादौ न भवति


सुडनपुंसकस्य (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |


नपुंसकलिङ्गे

शप्‌श्यनोर्नित्यम्‌ (७.१.८१) = द्विवचने भ्वादौ, दिवादौ, चुरादौ नुम्‌ नित्यम्‌

आच्छीनद्योर्नुम्‌ (७.१.८०) = तुदादिगणे द्विवचने नुम्‌ वैकल्पिकम्‌

नपुंसकस्य झलचः (७.१.७२) = बहुवचने नवसु गणेषु नुम्‌ नित्यम्‌


वा नपुंसकस्य (७.१.७९) = जुहोत्यादिगणे बहुवचने नुम्‌ वैकल्पिकम्‌

नपुंसकाच्च (७.१.१९) = नपुंसकात्‌ अङ्गात्‌ औ-प्रत्ययस्य स्थाने शी-आदेशो भवति |

जश्शसोः शिः (७.१.२०) = नपुंसकात्‌ अङ्गात्‌ जस्‌, शस्‌ इत्यनयोः स्थाने शि-आदेशो भवति |

शि सर्वनामस्थानम्‌ (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति |


स्त्रीलिङ्गे

शप्‌श्यनोर्नित्यम्‌ (७.१.८१) = भ्वादौ, दिवादौ, चुरादौ च नुम्‌ नित्यम्‌

आच्छीनद्योर्नुम्‌ (७.१.८०) = तुदादौ नुम्‌ वैकल्पिकम्‌

अपरेषु गणेषु स्त्रियाम्‌ अवर्णाभावात्‌ नुम्‌ नैव भवति |


पुंलिङ्गे शत्रन्तानां सुबन्तनिर्माणम्‌


सुबन्तानां शब्दानां निष्पादनार्थं सर्वत्र सु, औ, जस्‌ इत्यादीनां सुप्‌-प्रत्ययानां संयोजनम्‌ | अत्र शत्रन्तप्रसङ्गे यथा तकारान्तशब्दानां प्रक्रिया भवति, तत्र साम्यम्‌ अस्ति; किन्तु कश्चन अतिमहत्त्वपूर्ण-भेदः | शत्रन्तप्रसङ्गे विभक्तिक्रमे प्रथमपञ्चसु रूपेषु— द्वितीयविभक्तेः द्विवचनान्तरूपपर्यन्तम्— नवसु गणेषु नुमागमो भवति | अनेन कारणेन शत्रन्तप्रातिपदिकं "तकारान्तशब्दः" इति तु न वदामः; शन्त्रन्तशब्दः इत्येव वदामः | पाणिनेः यथा कार्याणि भवन्ति, तदनुसृत्य नामकरणं भवति; उदा० यदा नाभ्यस्ताच्छतुः [न अभ्यस्तात्‌ शतुः] इव विशिष्ट-सूत्राणि सन्ति, तदा ज्ञेयं यत्‌ शन्त्रन्तानां पृथक्तया श्रेणी भवेत्‌ | शास्त्रीयकार्यानुसारं श्रेण्यः भवन्ति; कार्यं पृथक्‌ चेत्‌, श्रेणी पृथक्‌ इति बोध्यम्‌ |


सर्वनामस्थान-संज्ञा


सुडनपुंसकस्य (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | शि सर्वनामस्थानम्‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |


उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | यस्मात्‌ अञ्चु-धातोः नकारलोपः जातः तस्य अच्‌-धातोः अपि नुमागमो भवति | उक्‌ इत्‌ येषां ते उगितः, बहुव्रीहिः | उगितश्च अच्‌ च, तेषामितरेतरद्वन्द्वः उगिदचः, तेषां उगिदचाम्‌ | न धातुः अधातुः नञ्ततपुरुषः, तस्य अधातोः | उगिदचां षष्ठ्यन्तम्‌, सर्वनामस्थाने सप्तम्यन्तम्‌, अधातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्‌ |


अनेन नवसु गणेषु सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु परेषु पुंलिङ्गे नुमागमः भवति—

भ्वादौ—   भवन्‌    भवन्तौ    भवन्तः   भवन्तम्‌    भवन्तौ

दिवादौ—  दीव्यन्‌  दीव्यन्तौ  दीव्यन्तः  दीव्यन्तम्‌  दीव्यन्तौ

तुदादौ—   तुदन्‌    तुदन्तौ    तुदन्तः   तुदन्तम्‌    तुदन्तौ

चुरादौ—  चोरयन्‌  चोरयन्तौ  चोरयन्तः चोरयन्तम्‌  चोरयन्तौ

अदादौ—  सन्‌      सन्तौ     सन्तः     सन्तम्‌     सन्तौ

स्वादौ—  चिन्वन्‌  चिन्वन्तौ  चिन्वन्तः  चिन्वन्तम्‌  चिन्वन्तौ

रुधादौ—  रुन्धन्‌   रुन्धन्तौ  रुन्धन्तः   रुन्धन्तम्‌   रुन्धन्तौ

तनादौ—  कुर्वन्‌     कुर्वन्तौ   कुर्वन्तः    कुर्वन्तम्‌    कुर्वन्तौ

क्रियादौ— क्रीणन्‌   क्रीणन्तौ  क्रीणन्तः  क्रीणन्तम्‌   क्रीणन्तौ


उदाहरणम्— गम्‌-धातोः सप्तसु विभक्तिषु, त्रिषु वचनेषु शत्रन्तस्य सुबन्तनिर्माणम्‌


यदा प्रातिपदिकं सिद्धम्‌, तदा कार्यं सर्वेषां गणानां कृते समानम्‌ | नवसु गणेषु नुमागमः सर्वनामस्थानसंज्ञकेषु प्रत्ययेषु; जुहोत्यादिगणे नुमागमः न भवति अभ्यस्तसंज्ञकत्वात्‌ | अनन्तरं सुप्‌-प्रत्ययस्य संयोजनम्‌ | अयं सुप्‌-प्रत्ययः अजादिः चेत्, केवलं वर्णमेलनम्‌ | शत्रन्तप्रातिपदिकं हलन्तं (तकारान्तम्‌) अतः सुप्‌-प्रत्ययः हलादिः चेत्‌ हल्‌-सन्धिः करणीयः यथाप्रसक्ति |


स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) =

स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌


सु         औ       जस्‌

अम्‌      औट्‌      शस्‌

टा       भ्याम्‌      भिस्‌

ङे       भ्याम्‌      भ्यस्‌

ङसि    भ्याम्‌      भ्यस्‌

ङस्‌     ओस्‌       आम्‌

ङि      ओस्‌       सुप्‌


गच्छत्‌ + सु → उपदेशेऽजुनासिक इत्‌, तस्य लोपः इत्याभ्याम्‌ उ-लोपः → गच्छत्‌ + स्‌ → उगिदचां सर्वनामस्थानेऽधातोः इत्यनेन नुम्‌ आगमः, मिदचोऽन्त्यात्परः इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन अपृक्तसंज्ञक-स्‌-लोपः → गच्छन्‌त्‌ → संयोगान्तस्य लोपः इत्यनेन संयोगान्त-पदस्य अन्तिमवर्णस्य लोपः → गच्छन्‌


अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌ कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तंम्‌, प्रत्ययः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— एकाल्‌ प्रत्ययः अपृक्तः |


हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |


संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तम्‌, लोपः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | पदस्य इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगान्तस्य पदस्य लोपः |


गच्छत्‌ + औ → उगिदचां सर्वनामस्थानेऽधातोः इत्यनेन नुम्‌ आगमः, मिदचोऽन्त्यात्परः इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + औ → वर्णमेलने → गच्छन्तौ


गच्छत्‌ + जस्‌ → चुटू, तस्य लोपः इत्याभ्यां ज्‌-लोपः → गच्छत्‌ + अस्‌ → उगिदचां सर्वनामस्थानेऽधातोः इत्यनेन नुम्‌ आगमः, मिदचोऽन्त्यात्परः इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + अस्‌ → वर्णमेलने → गच्छन्‌तस्‌ → ससजुषो रुः इत्यनेन रुत्वम्‌ → गच्छन्‌तरु → उपदेशेऽजुनासिक इत् → गच्छन्‌तर्‍ → विरामोऽवसानम्‌, खरवसानयोर्विसर्जनीयः इत्याभ्यम्‌, अवसानावस्थायां रेफ-स्थाने विसर्गादेशः → गच्छन्तः


ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तम्‌, रुः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ससजुषोः पदस्य रुः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः |


विरामोऽवसानम्‌ (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |


खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ इति |


गच्छत्‌ + अम्‌ → हलन्त्यम्‌ इत्यनेन म्‌-लोपस्य प्रसक्तिः, तदा न विभक्तौ तुस्माः (१.३.४) इत्यनेन लोपो बाधितः → गच्छत्‌ + अम्‌ → उगिदचां सर्वनामस्थानेऽधातोः इत्यनेन नुम्‌ आगमः, मिदचोऽन्त्यात्परः इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + अम्‌ → वर्णमेलने → गच्छन्तम्‌


गच्छत्‌ + औट्‌ → हलन्त्यम्‌, तस्य लोपः इत्याभ्याम्‌ ट्‌-लोपः → गच्छत्‌ + औ → उगिदचां सर्वनामस्थानेऽधातोः इत्यनेन नुम्‌ आगमः, मिदचोऽन्त्यात्परः इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → गच्छन्‌त्‌ + औ → वर्णमेलने → गच्छन्तौ


इतः अग्रे नुमागमो न भवति, अतः केवलं सन्धिकार्यं यथासङ्गम्‌ |


गच्छत्‌ + शस्‌ → लशक्वतद्धिते, तस्य लोपः इत्याभ्याम्‌ अनुबन्धलोपः → गच्छत्‌ + अस्‌ → वर्णमेलने → गच्छतस्‌ → ससजुषो रुः इत्यनेन रुत्वम्‌ → गच्छतरु → उपदेशेऽजुनासिक इत् → गच्छतर्‍ → विरामोऽवसानम्‌, खरवसानयोर्विसर्जनीयः इत्यनेन रेफ-स्थाने विसर्गादेशः → गच्छतः


गच्छत्‌ + टा → चुटू, तस्य लोपः इत्याभ्याम्‌ ट्‌-लोपः → गच्छत्‌ + आ → वर्णमेलने → गच्छता


गच्छत्‌ + भ्याम्‌ → स्वादिष्वसर्वनामस्थाने इत्यनेन गच्छत्‌ इत्यस्य पदसंज्ञा → झलां जशोऽन्ते (८.२.३९) इत्यनेन संहितायां तकारस्य जश्त्वम्‌ → गच्छद्भ्याम्‌


स्वादिष्वसर्वनामस्थाने (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | स्वौजसमौट् (४.१.२) इत्यस्मात्‌ आरभ्य उरः प्रभृतिभ्यः कप्‌ (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यस्मात्‌ पदम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने पदम्‌ | यचि भम्‌ (१.४.१८) इत्यनेन अजादि-प्रत्ययाः यकारादि-प्रत्ययाः भसंज्ञकाः, अतः फलितार्थे यादि-भिन्न-हलादि-प्रत्ययाः पद-संज्ञकाः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके |


यचि भम्‌ (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |


आ कडारादेका संज्ञा (१.४.१) = अस्मात सूत्रात्‌ आरभ्य कडारा कर्मधारये (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलम्‌, विप्रतिषेधे परं कार्यम्‌ (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |


गच्छत्‌ + भिस्‌ → स्वादिष्वसर्वनामस्थाने इत्यनेन गच्छत्‌ इत्यस्य पदसंज्ञा → झलां जशोऽन्ते (८.२.३९) इत्यनेन संहितायां तकारस्य जश्त्वम्‌ → गच्छद्भिस्‌ → रुत्वविसर्गौ → गच्छद्भिः


गच्छत्‌ + ङे → लशक्वतद्धिते, तस्य लोपः इत्याभ्याम्‌ अनुबन्धलोपः → गच्छत्‌ + ए → वर्णमेलने → गच्छते


गच्छत्‌ + भ्यस्‌ → स्वादिष्वसर्वनामस्थाने इत्यनेन गच्छत्‌ इत्यस्य पदसंज्ञा → झलां जशोऽन्ते (८.२.३९) इत्यनेन संहितायां तकारस्य जश्त्वम्‌ → गच्छद्भ्यस्‌ → रुत्वविसर्गौ → गच्छद्भ्यः


गच्छत्‌ + ङसि → लशक्वतद्धिते, उपदेशेऽजुनासिक इत्‌, तस्य लोपः इत्येभिः अनुबन्धलोपः → गच्छत्‌ + अस्‌ → वर्णमेलने → गच्छतस्‌ → रुत्वविसर्गौ → गच्छतः


गच्छत्‌ + ङस्‌ → लशक्वतद्धिते, तस्य लोपः इत्याभ्याम्‌ अनुबन्धलोपः → गच्छत्‌ + अस्‌ → वर्णमेलने → गच्छतस्‌ → रुत्वविसर्गौ → गच्छतः


गच्छत्‌ + ओस्‌ → वर्णमेलने → गच्छतोस्‌ → रुत्वविसर्गौ → गच्छतोः


गच्छत्‌ + आम्‌ → हलन्त्यम्‌ इत्यनेन म्‌-लोपस्य प्रसक्तिः, तदा न विभक्तौ तुस्माः (१.३.४) इत्यनेन लोपो बाधितः → वर्णमेलने → गच्छताम्‌


गच्छत्‌ + ङि → हलन्त्यम्‌, तस्य लोपः इत्याभ्याम्‌ ङ्‌-लोपः → गच्छत्‌ + इ → वर्णमेलने → गच्छति


गच्छत्‌ + सुप्‌ → हलन्त्यम्‌, तस्य लोपः इत्याभ्याम्‌ प्‌-लोपः → गच्छत्‌ + सु → खरि च (८.४.५५) इत्यनेन चर्त्वम्‌, यथावत्‌ तिष्ठति → वर्णमेलने → गच्छत्सु


अभ्यस्तसंज्ञक-सुबन्तरूपाणि— जुहोत्यादौ अदादौ च

जुहोत्यादिगणः


शतृ-प्रसङ्गे पुंलिङ्गे, जुहोत्यादिगणे नुमागमो न भवति |


नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति | उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यस्य निषेधकं सूत्रम्‌ | न अव्ययपदम्‌, अभ्यस्तात्‌ पञ्चम्यन्तम्‌, शतुः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— न अभ्यस्तात्‌ अङात्‌ शतुः नुम्‌ |


उभे अभ्यस्तम् (६.१.५) = द्वित्वस्यानन्तरम्‌, द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञकः भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उभे द्वे अभ्यस्तम् |


ददत्‌/ददद्‌*   ददतौ   ददतः  ददतम्‌   ददतौ  ददतः

जुह्वत्‌/जुह्वद्‌*  जुह्वतौ  जुह्वतः  जुह्वतम्‌  जुह्वतौ  जुह्वतः


*झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते तकारस्य जश्त्वम्‌ |


*वाऽवसाने (८.४.५६, लघु० १४६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात् संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा संहितायाम्‌ |


अदादिगणस्य सप्त धातवः


अदादौ सप्त अभ्यस्तसंज्ञकधातवः सन्ति, अतः तेषामपि नुमागमः निषिद्धः नाभ्यस्ताच्छतुः (७.१.७८) इति सूत्रेण |


जक्षित्यादयः षट्‌ (६.१.६) = जागृ-आदयः षट्‌ धातवः, सप्तमश्च जक्ष्‌ इत्येषाम्‌ अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ | अनेन सूत्रेण एषां धातूनाम्‌ अभ्यस्तसंज्ञा भवति | षड्‌धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः | इति आदिः येषां ते इत्यादयः | इतिशब्देन जक्ष्‌-परामर्शः | जक्ष्‌ प्रथमान्तम्‌, इत्यादयः प्रथमान्तम्‌, षट्‌ प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | उभे अभ्यस्तम्‌ (६.१.५) इत्यस्मात्‌ अभ्यस्तम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— जक्षित्यादयः षट्‌ अभ्यस्तम्‌ |


जाग्रत्‌/जाग्रद्‌     जाग्रतौ     जाग्रतः     जाग्रतम्‌     जाग्रतौ     जाग्रतः

जक्षत्‌/जक्षद्‌     जक्षतौ      जक्षतः     जक्षतम्‌     जक्षतौ      जक्षतः

दरिद्रत्‌/दरिद्रद्‌   दरिद्रतौ    दरिद्रतः    दरिद्रतम्‌    दरिद्रतौ    दरिद्रतः


नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणम्‌


a. भ्वादिगणः, दिवादिगणः, चुरादिगणः


पचत्‌ + सु → स्वमोर्नपुंसकात्‌ (७.१.२३) इत्यनेन नपुंसकात्‌ अङ्गात्‌ सु-लोपः → पचत्‌ → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते तकारस्य जश्त्वम्‌ → पचद्‌ → वाऽवसाने (८.४.५६) इत्यनेन अवसाने झलः विकल्पेन चर्‍-आदेशो भवति → पचद्‌/पचत्‌


पचत्‌ + औ → नपुंसकाच्च (७.१.१९) इत्यनेन औ स्थाने शी → पचत्‌ + शी → लशक्वतद्धिते इत्यनेन अनुबन्धलोपः → पचत्‌ + ई → अन्तादिवच्च (६.१.८५) इत्यनेन पच अङ्गम्‌ अस्ति → शप्‌श्यनोर्नित्यम्‌ (७.१.८१) इत्यनेन शी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः, मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → पचन्‌त्‌ + ई → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः, अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन ययि अनुस्वारस्य स्थाने परसवर्णादेशः → पचन्त्‌ + ई → वर्णमेलने → पचन्ती


पचत्‌ + जस्‌ → जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः → पचत्‌ + शि → लशक्वतद्धिते इत्यनेन अनुबन्धलोपः → पचत्‌ + इ → शि सर्वनामस्थानम्‌ (१.१.४२) इत्यनेन शि इति आदेशस्य सर्वनामस्थानसंज्ञा, नपुंसकस्य झलचः (७.१.७२) इत्यनेन नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य नुम्‌-आगमः, मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुम्‌ अन्त्यात्‌ स्वरात्‌ परे → पचन्‌त्‌ + इ → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः, अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन ययि अनुस्वारस्य स्थाने परसवर्णादेशः → पचन्त्‌ + इ → वर्णमेलने → पचन्ति


धेयं यत्‌ अत्र उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इति सूत्रस्य प्राप्तिरपि अस्ति परन्तु नपुंसकस्य झलचः (७.१.७२) इत्यस्य बलं परत्वात्‌ |


प्रथमा, द्वितीया

पचत्‌/पचद्‌ मित्रम्‌     पचन्ती मित्रे     पचन्ति मित्राणि

पचत्‌/पचद्‌ मित्रम्‌     पचन्ती मित्रे     पचन्ति मित्राणि


भ्वादौ      पचत्‌         पचन्ती       पचन्ति       प्रथमा, द्वितीया

दिवादौ    दीव्यत्‌        दीव्यन्ती     दीव्यन्ति     प्रथमा, द्वितीया

चुरादौ     चोरयत्‌        चोरयन्ती    चोरयन्ति     प्रथमा, द्वितीया


तृतीयविभक्तिः इत्यस्मात्‌ सप्तमीविभक्ति-पर्यन्तं पुंलिङ्गशब्दवत्‌ |


स्वमोर्नपुंसकात्‌ (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः) | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः | स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | षड्भ्यो लोउक्‌ (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक् |


नपुंसकाच्च (७.१.१९) = नपुंसकात्‌ अङ्गात्‌ औ-प्रत्ययस्य स्थाने शी-आदेशो भवति | नपुंसकात्‌ पञ्चम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | औङ आपः (७.१.१८) इत्यस्मात्‌ औङः इत्यस्य अनुवृत्तिः; जशः शी (७.१.१७) इत्यस्मात्‌ शी इत्यस्य अन्वृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— नपुंसकात्‌ अङ्गात्‌ औङः शी |


अन्तादिवच्च (६.१.८५) = पूर्वपरयोः यः एकादेशो भवति, सः पूर्ववर्ति-वर्णसमुदायस्य अन्त्यभागः, अपि च परवर्ति-वर्णसमुदायस्य आदिमभागः | अन्तश्च आदिश्च अन्तादी इतरेतरद्वन्द्वः, अन्तादिभ्यां तुल्यम्‌ अन्तादिवत्‌ | अन्तादिवत्‌ अव्ययपदम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | एकः पूर्वपरयोः (६.१.८३) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एकः पूर्वपरयोः अन्तादिवच्च |


शप्‌श्यनोर्नित्यम्‌ (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः भवति | श्यप्‌ च श्यन्‌ च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌ | आच्छीनद्योर्नुम्‌ (७.१.८०) इत्यस्मात्‌ आत्‌, शीनद्योः, नुम्‌; नाभ्यस्ताच्छतुः (७.१.७८) इत्यस्मात्‌ शतुः इत्येषाम्‌ अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः | नदी-संज्ञा नाम ङीप्‌, ङीष्‌, ङीन्‌ एते स्त्री-प्रत्ययाः |

जश्शसोः शिः (७.१.२०) = नपुंसकात्‌ अङ्गात्‌ जस्‌, शस्‌ इत्यनयोः स्थाने शि-आदेशो भवति | जश्च शश्च तयोरितरेतरद्वन्द्वः जश्श्सौ, तयोः जश्शसोः | जश्शसोः षष्ठ्यन्तम्‌, शिः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— नपुंसकात्‌ अङ्गात्‌ जश्शसोः शिः |

शि सर्वनामस्थानम्‌ (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्‌, सर्वनामस्थानम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्— शि सर्वनामस्थानम्‌ |


नपुंसकस्य झलचः (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्‌-आगमो भवति | झल्‌ च अच्‌ च तयोः समाहारद्वन्द्वः झलच्‌, तस्य झलचः | नपुंसकस्य षष्ठ्यन्तम्‌, झलचः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यस्मात्‌ सर्वनामस्थाने इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— नपुंसकस्य झलचः अङ्गस्य नुम्‌ सर्वनामस्थाने |


b. तुदादिगणः, अदादिगणस्य चतुर्दश आकारान्तधातवः


तुदत्‌ + सु → भ्वादिगणे यथावत्‌ → तुदद्‌/तुदत्‌


तुदत्‌ + औ → तुदत्‌ + शी → तुदत्‌ + ई → आच्छीनद्योर्नुम्‌ (७.१.८०) इत्यनेन शी-प्रत्ययः परे चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः → नुम्‌-आगमे सति मिदचोऽन्त्यात्परः (१.१.४७), नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तुदन्त्‌ + ई → वर्णमेलने → तुदन्ती, नुम्‌-आभावे तुदती


तुदत्‌ + जस्‌ → भ्वादिगणे यथावत्‌ → तुदन्ति


प्रथमा     तुदत्‌     तुदती/तुदन्ती     तुदन्ति

द्वितीया    तुदत्‌     तुदती/तुदन्ती     तुदन्ति


तृतीयविभक्तिः इत्यस्मात्‌ सप्तमीविभक्ति-पर्यन्तं पुंलिङ्गशब्दवत्‌ |


आच्छीनद्योर्नुम्‌ (७.१.८०) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | शी च नदी च शीनद्यौ, तयोः शीनद्योः | आत्‌ पञ्चम्यन्तं, शीनद्योः सप्तम्यन्तं, नुम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | नाभ्यस्ताच्छतुः (७.१.७८) इत्यस्मात्‌ शतुः, अपि च वा नपुंसकस्य (७.१.७१) इत्यस्मात्‌ वा इत्यनयोः अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः |


धेयं यत्‌ आच्छीनद्योर्नुम्‌ (७.१.८०) इति सामान्यशास्त्रम्‌, शप्‌श्यनोर्नित्यम्‌ (७.१.८१) इति विशेषशास्त्रम्‌ | आच्छीनद्योर्नुम्‌ इत्यनेन शत्रन्ताङ्गस्य अवर्णात्‌ अङ्गात्‌ विकल्पेन नुम्‌ आगमः भवति | भ्वादिगणे, दिवादिगणे, चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम्‌ अङ्गं भवति (भव, दीव्य, चोरय) | अतः आच्छीनद्योर्नुम्‌ इत्यनेन एषु त्रिषु गणेषु अपि नुम्‌ आगमः वैकल्पिकः भवति स्म | नाम एषु त्रिषु गणेष्वपि आच्छीनद्योर्नुम्‌ इत्यस्य प्रसक्तिरस्ति | तदा शप्‌श्यनोर्नित्यम्‌ आगत्य वदति यत्‌ "न— एषु गणेषु शप्‌-श्यन्‌ इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम्‌-आगमः नित्यः न तु वैकल्पिकः |


अदादिगणे चतुर्दश आकारान्त-धातवः सन्ति | आच्छीनद्योर्नुम्‌ इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति | नाम तत्रापि शत्रन्त-प्रसङ्गे नपंसकलिङ्गे नुम्‌-आगमः विकल्पेन भवति | कारणम्‌ इदं यत्‌ एषां धातूनाम्‌ अवर्णान्तम् अङ्गम्‌ अस्ति, परन्तु इदम्‌ अङ्गं शबन्तम्‌ श्यनन्तं वा नास्ति | धातवः एते— या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा |


अदादौ या‍-धातुः— यात्‌      याती/यान्ती      यान्ति     प्रथमा

                      यात्‌       याती/यान्ती      यान्ति    द्वितीया


c. अभ्यस्तसंज्ञकाः (जुहोत्यादिगणः)


ददत्‌‍ + सु → स्वमोर्नपुंसकात्‌ (७.१.२३) इत्यनेन नपुंसकात्‌ अङ्गात्‌ सु इत्यस्य लुक्‌ → ददत्‌ → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते तकारस्य जश्त्वम्‌ → ददद्‌ → वाऽवसाने (८.४.५६) इत्यनेन अवसाने झलः विकल्पेन चर्‍-आदेशो भवति → ददद्‌/ददत्‌


ददत्‌ + औ → नपुंसकाच्च (७.१.१९) इत्यनेन नपुंसकात्‌ अङ्गात्‌ औ-प्रत्ययस्य स्थाने शी-आदेशः → ददत्‌ + शी → लशक्वतद्धिते इत्यनेन श्‌-लोपः → ददत्‌ + ई → वर्णमेलने → ददती


ददत्‌ + जस्‌ → जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌ इत्यस्य स्थाने शि-आदेशः → ददत्‌ + शि → शि सर्वनामस्थानम्‌ (१.१.४२) इत्यनेन शि इति आदेशस्य सर्वनामस्थानसंज्ञा → ददत्‌ + इ → नपुंसकस्य झलचः (७.१.७२) इत्यनेन सर्वनामस्थाने परे नुम्‌-आगमः → नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति → वा नपुंसकस्य (७.१.७९) इत्यनेन नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्‌-आगमो भवति → नुम्‌-आगमे सति मिदचोऽन्त्यात्परः (१.१.४७), नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) → ददन्त्‌ + इ → वर्णमेलने → ददन्ति, नुम्‌-आभावे ददति


वा नपुंसकस्य (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्‌-आगमो भवति | वा अव्ययपदम्‌, नपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | नाभ्यस्ताच्छतुः (७.१.७८) इत्यस्मात्‌ अभ्यस्तात्‌, शतुः इत्यनयोः अनुवृत्तिः | इदितो नुम्‌ धातोः (७.१.५८) इत्यस्मात्‌ नुम्‌ इत्यस्य अनुवृत्तिः | उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यस्मात्‌ सर्वनामस्थाने इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ शतुः नपुंसकस्य अङ्गस्य वा नुम्‌ सर्वनामस्थाने |


प्रथमा     ददत्‌     ददती     ददन्ति/ददति

द्वितीया    ददत्‌     ददती     ददन्ति/ददति


d. अन्ये गणाः


अत्र अवर्णाभावात्‌ प्रथमाद्वितीयाद्विवचने शी-प्रत्यये परे आच्छीनद्योर्नुम्‌ (७.१.८०) इत्यनेन नुम्‌-आगमः न भवति | प्रथमाद्वितीयाबहुवचने शि-प्रत्यये परे नपुंसकस्य झलचः (७.१.७२) इत्यनेन नित्यः नुम्‌-आगमः |


अदादौ     सत्‌         सती        सन्ति

स्वादौ     चिन्वत्‌      चिन्वती     चिन्वन्ति

रुधादौ     रुन्धत्‌      रुन्धती      रुन्धन्ती

तनादौ     तन्वत्‌      तन्वती       तन्वन्ति

क्र्यादौ     क्रीणत्‌      क्रीणती      क्रीणन्ति


Swarup – Dec 2014

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].


०७ - शत्रन्तानां सुबन्तनिर्माणम्‌.pdf (96k) Swarup Bhai, Apr 12, 2018, 10:23 PM v.1