07A---ArdhadhAtuka-kRut-pratyayAH/02---curAdigaNe-preraNArthe-Nici-ca-tavyat-tumun-tRc--aniiyar: Difference between revisions

From Samskrita Vyakaranam
07A---ArdhadhAtuka-kRut-pratyayAH/02---curAdigaNe-preraNArthe-Nici-ca-tavyat-tumun-tRc--aniiyar
Jump to navigation Jump to search
Content added Content deleted
(Added content)
No edit summary
 
(7 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:02 - चुरादिगणे प्रेरणार्थे णिचि च तव्यत्, तुमुन्‌, तृच्‌ + अनीयर्}}

<big><u>तुमुन्‌, तव्यत्‌, तृच्‌</u></big>

<big>तुमुन्‌, तव्यत्‌, तृच्‌</big>




Line 10: Line 9:




<big>चुर्‍ + णिच्‌ → चोरि इति णिजन्तधातुः | सर्वे णिजन्तधातवः अनेकाचः इति कारणतः सेटः |</big>
<big>चुर् + णिच्‌ → चोरि इति णिजन्तधातुः | सर्वे णिजन्तधातवः अनेकाचः इति कारणतः सेटः |</big>




Line 47: Line 46:
<big>---------------------------------</big>
<big>---------------------------------</big>


<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>


<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>


[https://static.miraheze.org/samskritavyakaranamwiki/b/b8/%E0%A5%A6%E0%A5%A8_-_%E0%A4%9A%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A5%87_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A4%BF_%E0%A4%9A_%E0%A4%A4%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A5%8D%E0%A4%A4%E0%A5%8D_%2C_%E0%A4%A4%E0%A5%81%E0%A4%AE%E0%A5%81%E0%A4%A8%E0%A5%8D_%2C_%E0%A4%A4%E0%A5%83%E0%A4%9A%E0%A5%8D_%2B_%E0%A4%85%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%B0%E0%A5%8D_.pdf ०२ - चुरादिगणे प्रेरणार्थे णिचि च तव्य्त्‌, तुमुन्‌, तृच्‌ + अनीयर्‍.pdf (25k)] Swarup Bhai, May 6, 2017, 7:10 AM
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>

Latest revision as of 02:22, 10 April 2024

तुमुन्‌, तव्यत्‌, तृच्‌


तुमुन्‌, तव्यत्‌, तृच्‌ इत्येषां तदन्तानां कृदन्तरूपाणां प्रक्रियासाम्यं, रूपसाम्यं च सर्वत्र |


चुरादिगणे प्रेरणार्थे णिचि च रूपाणि एवं भवन्ति सर्वत्र—


चुर् + णिच्‌ → चोरि इति णिजन्तधातुः | सर्वे णिजन्तधातवः अनेकाचः इति कारणतः सेटः |


चोरि + इट्‌ + तव्यत्‌ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → चोरे + इ + तव्य → एचोऽयवायावः (६.१.७७) इत्यनेन अयादेशः → चोरय्‌ + इ + तव्य → चोरयितव्य (चोरयितव्यः, चोरयितव्या, चोरयितव्यम्‌) |


एवञ्च रूपम्‌ एकमेव सर्वत्र चुरादिगणे प्रेरणार्थे णिचि च—

तव्यत्‌ = चोरयितव्य

तुमुन्‌ = चोरयितुम्‌

तृच्‌ = चोरयितृ (पुंसि चोरयिता)


यथा—क्षालयितव्यम्‌, रचयितव्यम्‌, प्रेरणार्थे पाठयितव्यम्‌, लेखयितव्यम्‌, दर्शयितव्यम्‌ इत्यादीनि रूपाणि |


अनीयर्‍


अनीयर्‍ इति प्रत्ययः अनिट्‌, तस्मात्‌ चोरि + अनीयर्‍ → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + अनीय → चोरणीयम्‌ |


चुरादिगणे प्रेरणार्थे णिचि च तथा सर्वत्र णिचः लोपः— रचि + अनीयर्‍ → रचनीयम्‌ |

क्षालि → क्षालनीयम्‌, पाठि → पाठनीयम्


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |


Swarup – April 2017


---------------------------------


०२ - चुरादिगणे प्रेरणार्थे णिचि च तव्य्त्‌, तुमुन्‌, तृच्‌ + अनीयर्‍.pdf (25k) Swarup Bhai, May 6, 2017, 7:10 AM