10---nyAyashAstram/10---prashnAH-uttarANi-ca/10---janakanAshAjanyaguNanAshasya-ekadeshadRuShTAnTAH-ca-pAkaviShaye-vAdadvayam: Difference between revisions
10---nyAyashAstram/10---prashnAH-uttarANi-ca/10---janakanAshAjanyaguNanAshasya-ekadeshadRuShTAnTAH-ca-pAkaviShaye-vAdadvayam
Content added Content deleted
(added pdf link) |
(added spacing) |
||
Line 27: | Line 27: | ||
<big>आहत्य तर्हि भेदः एवम्—पीलुपाकवादिभिः उच्यते यत् परमाणौ विद्यमानं कृष्णरूपं नश्यति; तस्मात् कारणात् द्व्यणुके विद्यमानं कृष्णरूपं नश्यति; तस्माच्च त्र्यणुके विद्यमानं कृष्णरूपं नश्यति; एवं क्रमेण घटे विद्यमानं रूपं नश्यति | यदा परमाणौ विद्यमानं कृष्णरूपं नश्यति, तदा तदग्रिमक्षणे अन्यद्रूपं, श्वेतरूपम् उत्पद्यते | तदा क्रमेण तदेव रूपम् उत्पद्यते द्व्यणुके, त्र्यणुके, चतुर्णके, घटे च इति प्रक्रिया | पिठरपाकवादिभिः उच्यते यत् साक्षात् घटे जायते; घटे जायते इत्युक्ते तदधिकरणे अवयवेष्वपि | अतः इदं रूपपरिवर्तनं परमाणुष्वपि भवति इति ते अङ्गीकुर्वन्ति | किन्तु आदौ परमाणुषु अनन्तरं द्व्यणुके इत्यादिकम् एषः क्रमः नास्ति; साक्षात् घटे जायते | भिन्नसमये घटे, भिन्नसमये परमाणौ इति न | घटस्य यावन्तः अवयवाः सन्ति तेषु सर्वेषु युगपदेव पूर्वं रूपं नश्यति, तेषु सर्वेषु च युगपदेव नूतनं रूपं जायते | समग्रे घटे, तस्य सर्वेषु अवयवेषु च एकवारमेव नूतनरूपं जायते |</big> |

<big>अद्यत्वे 'वैशेषिकं' 'न्यायः' इतीमौ द्वौ विषयौ मिलित्वा पठ्यते; पृथक्-पृथक् पाठः इति साधारणतया न भवति | किमर्थं द्वयं मिलित्वा पठामः इति चेत्, अनयोः नवनवतिप्रतिशतं मतं समानमेव | अनयोः नवनवतिप्रतिशतं सिद्धान्ताः समानाः; कुत्रचिदेव एकप्रतिशतं भिन्नम् | अस्मिन् लघुभेदक्षेत्रे एतादृशाः केचन विषयाः सन्ति | वैशेषिकाणां मतानुसारं परमाणौ पाकः जायते अतः ते 'पीलुपाकवादिनः' इत्युच्यते | नैयायिकानां मतानुसारं घटे साक्षात् पाकः जायते अतः ते 'पिठरपाकवादिनः' इत्युच्यते |</big> |

Line 35: | Line 37: | ||
<big>एतावता परिचयत्वेन उक्तम्; अधुना अग्रे वस्तुस्थितिः द्रष्टव्या | वैशेषिकाणां मतानुसारं परमाणौ पाकः जायते अतः ते 'पीलुपाकवादिनः' इत्युक्तम् | आरम्भे अपक्वं घटं स्वीकुर्मः | तस्मिन् मृदुत्वं वर्तते; मृदुत्वं किमर्थम् इति चेत्, घटस्य अवयवसंयोगेषु शैथिल्यम् अस्ति | अधुना अपक्वघटः अग्निसंयुक्तस्थले स्थाप्यते | तस्मात् घटस्य परमाणुषु पाकः जायते; परमाणवः नित्याः अतः तेजःसंयोगेनापि तेषां नाशो न भवति | किन्तु अनेन पाकेन द्वयोः परमाण्वोः यः शिथिलसंयोगः, सः संयोगः नश्यति | द्वयोः परमाण्वोः यः संयोगः आसीत् सः नष्टः; स च संयोगः द्व्यणुकस्य असमवायिकारणम् आसीत् | अधुना असमवायिकारणनाशात् तच्च द्व्यणुकं स्वयं नष्टम् | परमाणुः नित्यः, किन्तु द्व्यणुकं नित्यं न; यदा पाकेन परमाणुद्वयस्य संयोगः नष्टः, तदा तस्मात् द्व्यणुकं नष्टम् | तर्हि परमाणुद्वयसंयोगनाशे सति द्व्यणुकनाशः | अधुना द्व्यणुकं त्र्यणुकस्य अवयवः अतः तच्च द्व्यणुकं त्र्यणुकस्य समवायिकारणं; यदा द्व्यणुकं नष्टं तदा समवायिकारणनाशात् त्र्यणुकमपि नष्टम् | ततः अग्रे च संयोगनाशेन अवयवनाशः इति न अपि तु साक्षात् द्रव्यभूतावयवस्य नाशात् तस्मिन् समवेतस्य नाशः | अतः त्र्यणुकनाशात् चतुर्णकनाशः, एवं च क्रमेण कपालिकानशः, कपालिकानशात् कपालनाशः, अन्ततो गत्वा घटनाशोऽपि जायते |</big> |

<big>तर्हि पुरातनघटः नष्टः | द्वयणुकेऽपि रूपम् आसीत्, एवमेव सर्वेषु अवयवेषु रूपम् आसीत् | किन्तु यदा तेजःसंयोगः कृतः घटे, तदा परमाणुद्वयसंयोगनाशक्रमेण कपालनाशः, घटनाशश्च अभवत् | अनेन परमाणून् अतिरिच्य सर्वे अवयवाः नष्टाः; तेषु आश्रितरूपम् अपि नष्टम् | परमाणवः किन्तु तस्मिन् क्रमे न नष्टाः; ते अधुनापि सन्ति, तेषु च रूपम् अस्ति | तदानीं परमाणवः स्वतन्त्राः— ते तु न कस्यापि अवयवाः | तेषु स्वतन्त्रेषु परमाणुषु सम्प्रति तेजःसंयोगेन पूर्वतनश्यामरूपं नश्यति, नूतनतया च नवीनरक्तरूपम् उत्पद्यते | तदा परमाणुसंयोगात् द्व्यणुकोत्पत्तिः, द्व्यणुकसंयोगात् त्र्यणुकतोत्पत्तिः इत्येवं क्रमेण घटोत्पत्तिः | अपि च यद्रक्तरूपं निष्पन्नं परमाणुषु, तदेव रक्तरूपं नूतनावयवेषु घटे च वर्तते | अवयवाः रक्तरूपवन्तः, कपालः रक्तरूपवान्, एवं रीत्या च घटोऽपि रक्तरूपवान् | इत्थञ्च श्यामरूपवद्घटः नष्टः, स्वत्रन्तेषु परमाणुषु श्यामरूपञ्च नष्टं; तत्र च रक्तरूपम् उत्पन्नम् | अनन्तरं द्व्यणुकादिक्रमेण रक्तघटस्य उत्पत्तिः भवति |</big> |

Line 46: | Line 50: | ||
<big>मूलपर्पटनिर्माणसमये पर्पटः बृहान् अस्ति | आतपे पर्पटः बहिः स्थाप्यते दिनपञ्चकं यावत्, अनन्तरम् आपणं प्रति पर्पटः आनीयते | दिनपञ्चकानन्तरं तेजःसंयोगवशात् आदिमदिने यः आकारः आसीत् स च आकारः अन्तिमदिने तदपेक्षया नितरां भिन्नः | आदिमदिने जलसंयोगात् बृहान् आसीत्; तेजःसंयोगानन्तरम् अन्तिमे दिने यदा आपणं प्रति प्रेष्यते, तदा पर्पटः लघुः जातः | तेजःसंयोगात् आकृतेः वैपरीत्यं दृश्यते | अनेन पुरातनः अवयवी नष्टः, नूतनावयवी व्युत्पन्नः इति वैशेषिकाणाम् आशयः | परमाणवः ते एव, किन्तु नूतनसंयोगेन द्व्यणुकात् आरभ्य सर्वे अवयवाः भिन्नाः | एवं कृत्वा पूर्वतनपर्पटः अन्यः, इदनींतनपर्पटः अन्यः |</big> |

<big>प्रकृतौ यथा पाषाणावयवसंयोगेषु नैबिड्यं वर्तते, तथैव घटे तेजःसंयोगानन्तरं घटावयवसंयोगेषु नैबिड्यम् अस्ति | तत्र च घटस्य असमवायिकारणं कपालसंयोगः; स च संयोगः पूर्वम् अन्यविधः आसीत् अधुना अन्यविधः जातः | अपि च असमवायिकारणनाशात् द्रव्यनाशः इति तु भवत्येव | एवमेव परमाणुद्वयसंयोगरूप-असमवायिकारणनाशात् द्व्यणुकनाशः इत्यस्ति | इति रीत्या घटस्तरे अवयवसंयोगाः सर्वे नष्टाः, नूतनाः अवयवसंयोगाः उत्पन्नाः इति चेत्, वैशेषिकाः घटनाशम् अङ्गीकुर्वन्ति | घटः नष्टः चेत्, तस्मिन् विद्यमानं रूपं तु नष्टमेव | किन्तु घटगतरूपनाशस्य अत्र कारणं समवायिकारणनाशः न तु समानाधिकरणगुणः तेजःसंयोगः | वैशेषिकमते यस्मिन् काले तेजःसंयोगेन घटे रूपान्तरं भवति, तद्रूपान्तरं केवलं रूपान्तरं न; घटान्तरमपि अस्ति | तस्मिन् घटे गन्धः अन्यः, स्पर्शः अन्यः, रूपमपि अन्यत्, सर्वं परिवर्तितं; पूर्वं शिथिलसंयोगः अधुना निबिडसंयोगः, पूर्वं मृदुत्वम् अधुना कठिनत्वम्; अतः पूर्वतनघटः नास्ति, नूतनघटः निष्पन्नः |</big> |