12---vyAvahArikii-shikShikA/ahvayitumahvatum: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/ahvayitumahvatum
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
'''<big>विषयः - आह्वयितुम् / आह्वातुम्</big>'''
<Test please replace this with content from corresponding Google Sites page>

'''<big>प्रश्नः</big>'''

<big>"रामः श्यामम् आह्वयितुम् इच्छति" उत "रामः श्यामम् आह्वातुम् इच्छति" - अनयोः कः प्रयोगः साधुः?</big>

'''<big>उत्तरम्</big>'''

<big>"रामः श्यामम् आह्वातुम् इच्छति" इत्येव साधुः प्रयोगः |</big>

<big>- ह्वेञ् स्पर्धायां शब्दे च इति भ्वादिगणीयः अनिट् धातुः | अनुबन्धलोपानन्तरं ह्वे इति एजन्तधातुः अवशिष्यते ।</big>

<big>- अस्य आह्वयति, आह्वयतु, आह्वयत् इत्यादयः आङ्-उपसर्गपूर्वकाः तिङन्तप्रयोगाः प्रसिद्धाः एव |</big>

<big>- आङ्-उपसर्गपूर्वकः ह्वे-धातुतः तुमुन्-प्रत्यये विहिते आह्वयितुम् इति तुमुनन्तं रूपम् इति भ्रान्तिः स्यात् ।</big>

<big>- किन्तु आ + ह्वे + तुमुन् इत्यस्यां दशायां '''आदेच उपदेशे अशिति''' (६.१.४५) इत्यनेन आ + ह्वा + तुम् इति भवति ।</big>

<big>- '''आदेच उपदेशे अशिति''' इत्यनेन सूत्रेण उपदेशे एजन्तधातवः आकारान्ताः भवन्ति अशिति प्रत्यये परे ।</big>

<big>- तुमुन्-प्रत्ययः आर्धधातुकः, सेट्, अशित् प्रत्ययः । तुमुनः अशित्त्वात् उपदेशावस्थायां स्थितस्य ह्वे-धातोः ह्वा इति परिवर्तनम् ।</big>

<big>- अतः आ + ह्वे + तुमुन् '''→''' आ + ह्वा + तुम् '''→''' आह्वातुम् इति तुमुनन्तं रूपं निष्पन्नम् । ह्वे अनिट् इत्यतः इडागमः न भवति ।</big>

<big>- अनया एव प्रक्रियया अपरेषु अशित्सु प्रत्ययेषु परेषु अपि एजन्तस्य ह्वे-धातोः आकारान्तत्वेन परिवर्तनम् ।</big>

<big>- यथा, आ + ह्वे + तव्यत् '''→''' आह्वातव्य, आ + ह्वे + अनीयर् '''→''' आह्वानीय, आ + ह्वे + ल्युट् '''→''' आह्वान ।</big>

<big>- ह्वे-धातुतः विहितः प्रत्ययः कित् अस्ति चेत् प्रत्ययस्य अशित्त्वेऽपि ह्वे-धातोः आकारान्तत्वं न भवति, अपि तु सम्प्रसारणम् ।</big>

<big>- यथा, ह्वे + क्त्वा इत्यस्यां दशायां '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन ह्वे-धातोः सम्प्रसारणम् । ह्वे + क्त्वा '''→''' हु + त्वा इति ।</big>

<big>- तदा '''हलः''' (६.४.२) इत्यनेन हकारोत्तरवर्ति-उकारस्य दीर्घत्वम् । हु + त्वा '''→''' हूत्वा । आङ्-उपसर्गपूर्वक-ह्वे-धातोः ल्यपि परे आहूय इति रूपम् ।</big>

<big>- एवमेव अपरेषु कित्सु प्रत्ययेषु परेषु सम्प्रसारणम्, उकारस्य दीर्घत्वं च । ह्वे + क्तवतु '''→''' हूतवान्/हूतवती, ह्वे + क्त '''→''' हूतः/हूता ।</big>

<big>- लट् इत्यादिषु सार्वधातुकलकारेषु शप्-प्रत्यये विहिते न आकारान्तत्वं न वा सम्प्रसारणम् । आ + ह्वे + शप् + तिप् '''→''' आ + ह्वय् + अ + ति → आह्वयति ।</big>

<big>- पाणिनेः विलक्षण-प्रतिभा अस्मिन्‌ कथं प्रकाशते ! धातोः स्वरूपं 'ह्वे' इति पाणिनिना कृतं यत्‌ महत्‌ रहस्यम्‌, अधुना विस्पष्टम्‌ |</big>

<big>- 'ह्वे' इत्यस्य एकारः पदेषु यद्यपि न दृश्येत, किन्तु अनेन त्रिविध-रूपाणि सिध्यन्ति-- आकारः 'आह्वानम्‌', ऊकारः 'आहूय', अय्‌-आदेशः 'आह्वयति' इति |</big>

Revision as of 05:02, 22 May 2021

विषयः - आह्वयितुम् / आह्वातुम्

प्रश्नः

"रामः श्यामम् आह्वयितुम् इच्छति" उत "रामः श्यामम् आह्वातुम् इच्छति" - अनयोः कः प्रयोगः साधुः?

उत्तरम्

"रामः श्यामम् आह्वातुम् इच्छति" इत्येव साधुः प्रयोगः |

- ह्वेञ् स्पर्धायां शब्दे च इति भ्वादिगणीयः अनिट् धातुः | अनुबन्धलोपानन्तरं ह्वे इति एजन्तधातुः अवशिष्यते ।

- अस्य आह्वयति, आह्वयतु, आह्वयत् इत्यादयः आङ्-उपसर्गपूर्वकाः तिङन्तप्रयोगाः प्रसिद्धाः एव |

- आङ्-उपसर्गपूर्वकः ह्वे-धातुतः तुमुन्-प्रत्यये विहिते आह्वयितुम् इति तुमुनन्तं रूपम् इति भ्रान्तिः स्यात् ।

- किन्तु आ + ह्वे + तुमुन् इत्यस्यां दशायां आदेच उपदेशे अशिति (६.१.४५) इत्यनेन आ + ह्वा + तुम् इति भवति ।

- आदेच उपदेशे अशिति इत्यनेन सूत्रेण उपदेशे एजन्तधातवः आकारान्ताः भवन्ति अशिति प्रत्यये परे ।

- तुमुन्-प्रत्ययः आर्धधातुकः, सेट्, अशित् प्रत्ययः । तुमुनः अशित्त्वात् उपदेशावस्थायां स्थितस्य ह्वे-धातोः ह्वा इति परिवर्तनम् ।

- अतः आ + ह्वे + तुमुन् आ + ह्वा + तुम् आह्वातुम् इति तुमुनन्तं रूपं निष्पन्नम् । ह्वे अनिट् इत्यतः इडागमः न भवति ।

- अनया एव प्रक्रियया अपरेषु अशित्सु प्रत्ययेषु परेषु अपि एजन्तस्य ह्वे-धातोः आकारान्तत्वेन परिवर्तनम् ।

- यथा, आ + ह्वे + तव्यत् आह्वातव्य, आ + ह्वे + अनीयर् आह्वानीय, आ + ह्वे + ल्युट् आह्वान ।

- ह्वे-धातुतः विहितः प्रत्ययः कित् अस्ति चेत् प्रत्ययस्य अशित्त्वेऽपि ह्वे-धातोः आकारान्तत्वं न भवति, अपि तु सम्प्रसारणम् ।

- यथा, ह्वे + क्त्वा इत्यस्यां दशायां वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन ह्वे-धातोः सम्प्रसारणम् । ह्वे + क्त्वा हु + त्वा इति ।

- तदा हलः (६.४.२) इत्यनेन हकारोत्तरवर्ति-उकारस्य दीर्घत्वम् । हु + त्वा हूत्वा । आङ्-उपसर्गपूर्वक-ह्वे-धातोः ल्यपि परे आहूय इति रूपम् ।

- एवमेव अपरेषु कित्सु प्रत्ययेषु परेषु सम्प्रसारणम्, उकारस्य दीर्घत्वं च । ह्वे + क्तवतु हूतवान्/हूतवती, ह्वे + क्त हूतः/हूता ।

- लट् इत्यादिषु सार्वधातुकलकारेषु शप्-प्रत्यये विहिते न आकारान्तत्वं न वा सम्प्रसारणम् । आ + ह्वे + शप् + तिप् आ + ह्वय् + अ + ति → आह्वयति ।

- पाणिनेः विलक्षण-प्रतिभा अस्मिन्‌ कथं प्रकाशते ! धातोः स्वरूपं 'ह्वे' इति पाणिनिना कृतं यत्‌ महत्‌ रहस्यम्‌, अधुना विस्पष्टम्‌ |

- 'ह्वे' इत्यस्य एकारः पदेषु यद्यपि न दृश्येत, किन्तु अनेन त्रिविध-रूपाणि सिध्यन्ति-- आकारः 'आह्वानम्‌', ऊकारः 'आहूय', अय्‌-आदेशः 'आह्वयति' इति |