12---vyAvahArikii-shikShikA/arabhaniyamarambhaniyam: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/arabhaniyamarambhaniyam
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1: Line 1:
<big>'''विषयः'''''''''''''''—'''''''''''''''''' आरभणीयम् / आरम्भणीयम्</big>
<please replace this with content from corresponding Google Sites page>

<big>'''प्रश्नः'''</big>

<big>"विलम्बेन विना सत्कार्यम्‌ आरभणीयम्" उत "विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" -- अनयोः कः प्रयोगः साधुः ?</big>

'''<big>उत्तरम्</big>'''

<big>"विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" इत्येव साधुः प्रयोगः |</big>

<big>- रभ राभस्ये इति भ्वादिगणीयः सकर्मकः, आत्मनेपदी, अनिट् धातुः | अनुबन्धलोपानन्तरं रभ् इति लौकिकधातुः निष्पद्यते |</big>

<big>- आङ्‌-उपसर्गपूर्वकः रभ्-धातोः लटि आरभते, लोटि आरभताम्, लङि आरभत, विधिलिङि आरभेत इत्यादीनि रूपाणि दृश्यन्ते |</big>

<big>- अनीयर्-प्रत्ययान्तविवक्षायां कदाचित् आरभणीयम् इति प्रयोगः श्रूयते | अयं मकाररहितः अनीयर्-प्रत्ययान्तप्रयोगः वस्तुतः दोषयुक्तः |</big>

<big>- रभ्-धातुतः अनीयर्-प्रत्यये विहिते '''रभेरशब्लिटोः''' (७.१.६३) इत्यनेन नुमागमः, तस्माच्च आरम्भणीयम् इति मकारघटितम् अनीयर्-प्रत्ययान्तं रूपं सिध्यति |</big>

<big>- '''रभेरशब्लिटोः''' इत्यनेन रभ्-अङ्गस्य शब्लिड्वर्जिते अजादौ प्रत्यये परे नुमागमो भवति | रभ् इत्यनेन उपसर्गपूर्वकस्य आरभ्-अङ्गस्यापि ग्रहणम् |</big>

<big>- शप् च लिट् च शब्लिट् इति द्वन्द्वसमासः | शब्लिट्-वर्जितः नाम यः प्रत्ययः शप् नास्ति, लिट्-विवक्षायां नास्ति सः, शब्लिट्-अतिरिक्तः |</big>

<big>- आरभ्-अङ्गात् विहितः प्रत्ययः न शप् न वा लिट् किन्तु आजादिः चेत् '''रभेरशब्लिटोः''' इत्यनेन रभ्-धातोः नुमागमः भवति |</big>

<big>- '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुमागमः रभ्-धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | आरभ् + अनीयर् '''→''' आरभ् + नुम् + अनीय '''→''' आरन्‌भ् + अनीय |</big>

<big>- आरन्‌भ् + अनीय इत्यस्यां दशायां '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन नकारस्य स्थाने अनुस्वारादेशः '''→''' आरंभ् + अनीय |</big>

<big>- आरंभ् + अनीय '''→''' आरंभनीय इत्यस्यां दशायां '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) इत्यनेन णत्वम्, आरंभनीय '''→''' आरंभणीय |</big>

<big>- अन्ते आरंभणीय इत्यस्मिन् '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने मकारादेशः, आरंभणीय '''→''' आरम्भणीय इति अनीयर्-प्रत्ययान्तं रूपं निष्पन्नम् |</big>

<big>- आहत्य, आरभ् + अनीयर् '''→''' आरभ् + नुम् + अनीय '''→''' आरन्‌भ् + अनीय '''→''' आरंभ् + अनीय '''→''' आरंभणीय → '''आरम्भणीय''' |</big>

<big>- अनीयर्-स्थाने समानार्थके तव्यत्-प्रत्यये विहिते, तव्यत्-प्रत्ययः अजादिः नास्ति इत्यतः '''रभेरशब्लिटोः''' इत्यनेन नुमागमः न भवति | आरभ् + तव्यत् → आरभ् + तव्य → आरब्धव्य |</big>

<big>- तथैव लट् इत्यादिषु सार्वधातुकलकारेषु शप्-प्रत्यये विहिते, '''रभेरशब्लिटोः''' इत्यनेन नुमागमः न भवति | यथा लटि, आरभ् + ते '''→''' आरभ् + शप् + ते '''→''' आरभते |</big>

Revision as of 07:26, 27 May 2021

विषयः''''''''''—''''''''''''' आरभणीयम् / आरम्भणीयम्

प्रश्नः

"विलम्बेन विना सत्कार्यम्‌ आरभणीयम्" उत "विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" -- अनयोः कः प्रयोगः साधुः ?

उत्तरम्

"विलम्बेन विना सत्कार्यम्‌ आरम्भणीयम्" इत्येव साधुः प्रयोगः |

- रभ राभस्ये इति भ्वादिगणीयः सकर्मकः, आत्मनेपदी, अनिट् धातुः | अनुबन्धलोपानन्तरं रभ् इति लौकिकधातुः निष्पद्यते |

- आङ्‌-उपसर्गपूर्वकः रभ्-धातोः लटि आरभते, लोटि आरभताम्, लङि आरभत, विधिलिङि आरभेत इत्यादीनि रूपाणि दृश्यन्ते |

- अनीयर्-प्रत्ययान्तविवक्षायां कदाचित् आरभणीयम् इति प्रयोगः श्रूयते | अयं मकाररहितः अनीयर्-प्रत्ययान्तप्रयोगः वस्तुतः दोषयुक्तः |

- रभ्-धातुतः अनीयर्-प्रत्यये विहिते रभेरशब्लिटोः (७.१.६३) इत्यनेन नुमागमः, तस्माच्च आरम्भणीयम् इति मकारघटितम् अनीयर्-प्रत्ययान्तं रूपं सिध्यति |

- रभेरशब्लिटोः इत्यनेन रभ्-अङ्गस्य शब्लिड्वर्जिते अजादौ प्रत्यये परे नुमागमो भवति | रभ् इत्यनेन उपसर्गपूर्वकस्य आरभ्-अङ्गस्यापि ग्रहणम् |

- शप् च लिट् च शब्लिट् इति द्वन्द्वसमासः | शब्लिट्-वर्जितः नाम यः प्रत्ययः शप् नास्ति, लिट्-विवक्षायां नास्ति सः, शब्लिट्-अतिरिक्तः |

- आरभ्-अङ्गात् विहितः प्रत्ययः न शप् न वा लिट् किन्तु आजादिः चेत् रभेरशब्लिटोः इत्यनेन रभ्-धातोः नुमागमः भवति |

- मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन नुमागमः रभ्-धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | आरभ् + अनीयर् आरभ् + नुम् + अनीय आरन्‌भ् + अनीय |

- आरन्‌भ् + अनीय इत्यस्यां दशायां नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य स्थाने अनुस्वारादेशः आरंभ् + अनीय |

- आरंभ् + अनीय आरंभनीय इत्यस्यां दशायां अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वम्, आरंभनीय आरंभणीय |

- अन्ते आरंभणीय इत्यस्मिन् अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने मकारादेशः, आरंभणीय आरम्भणीय इति अनीयर्-प्रत्ययान्तं रूपं निष्पन्नम् |

- आहत्य, आरभ् + अनीयर् आरभ् + नुम् + अनीय आरन्‌भ् + अनीय आरंभ् + अनीय आरंभणीय → आरम्भणीय |

- अनीयर्-स्थाने समानार्थके तव्यत्-प्रत्यये विहिते, तव्यत्-प्रत्ययः अजादिः नास्ति इत्यतः रभेरशब्लिटोः इत्यनेन नुमागमः न भवति | आरभ् + तव्यत् → आरभ् + तव्य → आरब्धव्य |

- तथैव लट् इत्यादिषु सार्वधातुकलकारेषु शप्-प्रत्यये विहिते, रभेरशब्लिटोः इत्यनेन नुमागमः न भवति | यथा लटि, आरभ् + ते आरभ् + शप् + ते आरभते |