12---vyAvahArikii-shikShikA/dadatdadan: Difference between revisions
(Created page with "<please replace this with content from corresponding Google Sites page> ") |
No edit summary |
||
Line 1:
'''<big>विषयः - ददत् / ददन्</big>'''
<big>- दा-धातुतः श्लौ परे '''श्लौ''' (६.१.१०) इत्यनेन दा-धातोः द्वित्वे कृते, दादा + अत् | दादा इति यत् शतृ-प्रत्ययस्य अङ्गं तस्य अभ्यस्तसंज्ञा |</big>
<big>- अभ्यस्तसंज्ञक-'दादा' इत्यस्मिन् अङ्गे '''ह्रस्वः''' (७.४.५९) इत्यनेन अभ्यासस्य ह्रस्वत्वम् इति अभ्यासकार्यं, ददा इति अङ्गं निष्पन्नम् |</big>
<big>- ददा + अत् इत्यस्यां स्थित्यां ददा इत्यस्य दीर्घ-आकारस्य लोपः जायते '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन, दद् + अत् '''→''' ददत् इति शत्रन्तं प्रातिपदिकम् |</big>
<big>- प्रातिपदिकनिर्माणानन्तरम् '''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) इत्यनेन सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु नुमागमः विधीयते सामान्यतया | *</big>
<big>- पुंलिङ्गे प्रथमाविभक्ति-एकवचनप्रत्ययः सुँ इति अपि सर्वनामस्थानसंज्ञकः इत्यतः '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यस्य प्रसक्तिरस्ति सुँ-प्रत्यये परे |</big>
<big>- किन्तु 'दद्' इत्यस्य अभ्यस्तसंज्ञकत्वात् दद् इत्यस्मात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन नुमागमनिषेधकसूत्रेण |</big>
<big>- अतः ददत् इति शत्रन्तस्य प्रथमाविभक्त्याम् एकवचने ददत् + सुँ इत्यस्यां स्थित्यां न नुमागमः | सुँ-लोपे ददत् इत्येव रूपम् |</big>
<big>- तथैव पुंलिङ्गे प्रथमाविभक्त्यां द्विवचने ददत् + औ '''→''' ददतौ, बहुवचने च ददत् + जस् '''→''' ददतः | आहत्य प्रथमाविभक्त्यां ददत्, ददतौ, ददतः |</big>
<big>- अनयैव प्रक्रियया पुंलिङ्गे द्वितीयाविभक्त्याम् एकवचने ददत् + अम् '''→''' ददतं, बहुवचने ददत् + औट् '''→''' ददतौ इत्येते रूपे स्तः |</big>
<big>- नपुंसकलिङ्गे अपि प्रथामाविभक्त्यां द्वितीयविभक्त्यां च बहुवचनप्रत्ययौ सर्वनामस्थानसंज्ञकौ इत्यतः '''उगिदचां सर्वनामस्थानेऽधातोः''' इत्यस्य प्रसक्तिरस्ति |</big>
<big>- अत्रापि '''नाभ्यस्ताच्छतुः''' इत्यनेन नुमागमः निषिध्यते | किन्तु '''वा नपुंसकस्य''' (७.१.७९) इत्यनेन नपुंसकलिङ्गे वैकल्पिकः नुमागमः भवति |</big>
<big>- अनेन नपुंसकलिङ्गे प्रथामाविभक्त्यां बहुवचने ददत् + शि '''→''' ददति/ददन्ति, द्वितीयविभक्त्यां बहुवचने ददत् + शि '''→''' ददति/ददन्ति इति रूपद्वयस्य सिद्धत्वम् |</big>
<big>- आहत्य नपुंसकलिङ्गे ददत्, ददती, ददति/ददन्ति इति शत्रन्तरूपाणि प्रथमाविभक्तौ द्विदीयविभक्तौ च |</big>
<big>- स्त्रीलिङ्गविवक्षायां दद् + अत् + ङीप् इति स्थितौ नुमागमविधायकसूत्रं नास्ति इत्यतः स्त्रीलिङ्गे ददती इति प्रातिपदिकम् |</big>
<big>- तेन स्त्रीलिङ्गे ददती, ददत्यौ, ददत्यः इत्यादीनि नुमागमरहितानि शत्रन्तरूपाणि भवन्ति |</big>
<big>* सर्वनामस्थानसंज्ञकप्रत्ययाः</big>
<big>- पुंलिङ्गे पञ्च प्रत्ययाः | सुँ, औ, जस् -- प्रथमाविभक्त्याः त्रिषु वचनेषु प्रत्ययाः | अम्, औट् -- द्वीतीयाविभक्त्याः एकवचनद्विवचन-प्रत्ययौ |</big>
<big>- नपुंसकलिङ्गे द्वौ शि-प्रत्ययौ | प्रथमाविभक्त्यां द्वितीयाविभक्त्यां च बहुवचनप्रत्ययौ |</big>
|
Revision as of 05:29, 22 May 2021
विषयः - ददत् / ददन्
- दा-धातुतः श्लौ परे श्लौ (६.१.१०) इत्यनेन दा-धातोः द्वित्वे कृते, दादा + अत् | दादा इति यत् शतृ-प्रत्ययस्य अङ्गं तस्य अभ्यस्तसंज्ञा |
- अभ्यस्तसंज्ञक-'दादा' इत्यस्मिन् अङ्गे ह्रस्वः (७.४.५९) इत्यनेन अभ्यासस्य ह्रस्वत्वम् इति अभ्यासकार्यं, ददा इति अङ्गं निष्पन्नम् |
- ददा + अत् इत्यस्यां स्थित्यां ददा इत्यस्य दीर्घ-आकारस्य लोपः जायते श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन, दद् + अत् → ददत् इति शत्रन्तं प्रातिपदिकम् |
- प्रातिपदिकनिर्माणानन्तरम् उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु नुमागमः विधीयते सामान्यतया | *
- पुंलिङ्गे प्रथमाविभक्ति-एकवचनप्रत्ययः सुँ इति अपि सर्वनामस्थानसंज्ञकः इत्यतः उगिदचां सर्वनामस्थानेऽधातोः इत्यस्य प्रसक्तिरस्ति सुँ-प्रत्यये परे |
- किन्तु 'दद्' इत्यस्य अभ्यस्तसंज्ञकत्वात् दद् इत्यस्मात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन नुमागमनिषेधकसूत्रेण |
- अतः ददत् इति शत्रन्तस्य प्रथमाविभक्त्याम् एकवचने ददत् + सुँ इत्यस्यां स्थित्यां न नुमागमः | सुँ-लोपे ददत् इत्येव रूपम् |
- तथैव पुंलिङ्गे प्रथमाविभक्त्यां द्विवचने ददत् + औ → ददतौ, बहुवचने च ददत् + जस् → ददतः | आहत्य प्रथमाविभक्त्यां ददत्, ददतौ, ददतः |
- अनयैव प्रक्रियया पुंलिङ्गे द्वितीयाविभक्त्याम् एकवचने ददत् + अम् → ददतं, बहुवचने ददत् + औट् → ददतौ इत्येते रूपे स्तः |
- नपुंसकलिङ्गे अपि प्रथामाविभक्त्यां द्वितीयविभक्त्यां च बहुवचनप्रत्ययौ सर्वनामस्थानसंज्ञकौ इत्यतः उगिदचां सर्वनामस्थानेऽधातोः इत्यस्य प्रसक्तिरस्ति |
- अत्रापि नाभ्यस्ताच्छतुः इत्यनेन नुमागमः निषिध्यते | किन्तु वा नपुंसकस्य (७.१.७९) इत्यनेन नपुंसकलिङ्गे वैकल्पिकः नुमागमः भवति |
- अनेन नपुंसकलिङ्गे प्रथामाविभक्त्यां बहुवचने ददत् + शि → ददति/ददन्ति, द्वितीयविभक्त्यां बहुवचने ददत् + शि → ददति/ददन्ति इति रूपद्वयस्य सिद्धत्वम् |
- आहत्य नपुंसकलिङ्गे ददत्, ददती, ददति/ददन्ति इति शत्रन्तरूपाणि प्रथमाविभक्तौ द्विदीयविभक्तौ च |
- स्त्रीलिङ्गविवक्षायां दद् + अत् + ङीप् इति स्थितौ नुमागमविधायकसूत्रं नास्ति इत्यतः स्त्रीलिङ्गे ददती इति प्रातिपदिकम् |
- तेन स्त्रीलिङ्गे ददती, ददत्यौ, ददत्यः इत्यादीनि नुमागमरहितानि शत्रन्तरूपाणि भवन्ति |
* सर्वनामस्थानसंज्ञकप्रत्ययाः
- पुंलिङ्गे पञ्च प्रत्ययाः | सुँ, औ, जस् -- प्रथमाविभक्त्याः त्रिषु वचनेषु प्रत्ययाः | अम्, औट् -- द्वीतीयाविभक्त्याः एकवचनद्विवचन-प्रत्ययौ |
- नपुंसकलिङ्गे द्वौ शि-प्रत्ययौ | प्रथमाविभक्त्यां द्वितीयाविभक्त्यां च बहुवचनप्रत्ययौ |