12---vyAvahArikii-shikShikA/latApataye-latApatye: Difference between revisions
12---vyAvahArikii-shikShikA/latApataye-latApatye
Content added Content deleted
No edit summary |
m (Protected "लतापतये/लतापत्ये" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(3 intermediate revisions by one other user not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE:लतापतये/लतापत्ये}} |
|||
'''<big><u>विषयः'''—''' लतापतये/लतापत्ये</u></big>''' |
|||
⚫ | |||
⚫ | |||
<big>लतापतये जलं ददातु उत लतापत्ये जलं ददातु?</big> |
<big>लतापतये जलं ददातु उत लतापत्ये जलं ददातु?</big> |
||
⚫ | |||
⚫ | |||
<big>लतापतये जलं ददातु एव साधुः |</big> |
<big>लतापतये जलं ददातु एव साधुः |</big> |
||
<big>पति-शब्दस्य चतुर्थीविभक्तौ एकवचने पत्ये इति रूपम् | तृतीयाविभक्तौ पत्या इति रूपम् | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च पत्युः |</big> |
<big>पति-शब्दस्य चतुर्थीविभक्तौ एकवचने पत्ये इति रूपम् | तृतीयाविभक्तौ पत्या इति रूपम् | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च पत्युः |</big> |
Latest revision as of 23:49, 18 July 2021
विषयः— लतापतये/लतापत्ये
प्रश्नः
लतापतये जलं ददातु उत लतापत्ये जलं ददातु?
उत्तरम्
लतापतये जलं ददातु एव साधुः |
पति-शब्दस्य चतुर्थीविभक्तौ एकवचने पत्ये इति रूपम् | तृतीयाविभक्तौ पत्या इति रूपम् | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च पत्युः |
पतिशब्देन सह समासे कृते पतिशब्दस्य घिसंज्ञा भवति "पतिः समास एव" इति सूत्रेण | लतायाः पतिः लतापतिः इति षष्ठीतत्पुरुषसमासः | समासानन्तरं पतिशब्दस्य घिसंज्ञा | घिसंज्ञकस्य पतिशब्दस्य रूपाणि हरिशब्दस्य रूपाणि इव भवन्ति | यथा हरिणा, हरये , हरेः इत्यादीनि |
अतः एव लतापतिना , लतापतये , लतापतेः इत्यादीनि रूपाणि | "लतापतये ददातु" इत्येव साधुः प्रयोगः भवति |
भूपतिना, प्रजापतिना , भूपतये , प्रजापतये इत्यादीनि पदानि अन्यानि उदाहरणानि | परन्तु समासाभावे पत्या, पत्ये, पत्युः इत्यादीनि रूपाणि भवन्ति पतिशब्दस्य |