12---vyAvahArikii-shikShikA/prarthayeprarthayami: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/prarthayeprarthayami
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
Line 1: Line 1:
'''<big>विषयः''''''—'''''' प्रार्थये, प्रार्थयामि</big>'''
<please replace this with content from corresponding Google Sites page>

'''<big>प्रश्नः</big>'''

<big>"सः प्रार्थयति" अथवा "सः प्रार्थयते" ? कः प्रयोगः साधुः ?</big>

'''<big>उत्तरम्</big>'''

<big>उभयथा अपि प्रयोगः वर्तते | "सः प्रार्थयति" अथवा "सः प्रार्थयते"— उभौ प्रयोगौ साधू स्तः |</big>

<big>- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |</big>

<big>- सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति '''णिचश्च''' (१.३.७४), '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इति सूत्रद्वयेन |</big>

<big>- परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते यत्र धातवः अत्मनेपदिनः सन्ति |</big>

<big>- '''आगर्वादात्मनपदिनः''' इति गणसूत्रेण एकः अन्तर्गणः सृष्टः यस्मिन् विद्यमानाः अदन्तधातवः सर्वे नित्य-आत्मनेपदिनः |</big>

<big>- '''आगर्वादात्मनपदिनः''' इति गणसूत्रेण अर्थ्-धातोः आत्मनेपदमेव भवेत् | तदा अर्थयते, अर्थयसे, अर्थये इत्यादीनि रूपाणि भवन्ति |</big>

<big>- णिच्‌-प्रत्ययः 'धातु-प्रत्ययः' इति उच्यते, यतोहि तस्य संयोजनेन धातुः निष्पद्यते | यथा पठ्‌-धातुः + णिच्‌ → पाठि इति नूतनधातुः |</big>

<big>- णिच्‌-प्रत्ययः वस्तुतः धातुभ्यः अपि विधीयते, प्रातिपदिकेभ्यः अपि विधीयते; उभयथा नूतनधातुः भवति | अतः अत्र धातोः निष्पादनार्थं मार्गद्वायं वर्तते | यदा साक्षात्‌ अर्थ्‌-धातुतः णिच्‌-प्रत्ययः विधीयते, तदा यः धातुः निष्पद्यते 'अर्थि', स च आत्मनेपदी यथा उपर्युक्तम्‌ | यदा अर्थ्‌ + अच्‌-कृत्‌प्रत्ययः इत्यनेन 'अर्थ' इति कृदन्तप्रातिपदिकं निष्पद्यते, तदा तस्मात्‌ यदा णिच्‌ संयुज्यते, परस्मैपदिधातुः 'अर्थि' निष्पद्यते | (कृदन्तात् '''तत्करोति तदाचष्टे''' इति गणसूत्रेण णिच्-प्रत्ययः विहितः भवति |)</big>

<big>- अतः मार्गद्वयं वर्तते | प्रथमतया साक्षात्‌ अर्थ्‌-धातुना सामान्यमार्गः—  </big>

<big>- प्र + अर्थ्‌-धातुः + णिच् → प्रार्थि-धातुः → प्रार्थि + शप् + ते → प्रार्थि + अ + ते → प्रार्थे + अ + ते → प्रार्थय + ते → प्रार्थयते |</big>

<big>- तदा द्वितीयमार्गः, यदा णिच्‌ विधीयते 'अर्थ' इति कृदन्तप्रातिपदिकात्‌—</big>

<big>- प्र + अर्थ्‌-धातुः + अच्‌ [इति कृत्‌-प्रत्ययः] → प्रार्थ इति प्रातिपदिकम्‌ → प्रार्थ + णिच् → प्रार्थि इति धातुः → प्रार्थि + शप् + ति → प्रार्थि + अ + ति → प्रार्थे + अ + ति → प्रार्थय + ति → प्रार्थयति |</big>

<big>- अतः द्वितीयमार्गेण 'प्रार्थयति' इत्यपि साधुः भवति |</big>

<big>- सिद्धान्तकौमुद्यां तु “निवृत्तप्रेषणाद्धातोः प्राकृतार्थे णिजिष्यते” | अर्थात् णिज्विहीनेन तुल्यार्थः भवति | णिच्प्रत्ययस्य प्रेरणार्थः नास्तीति (प्रकृतार्थः) |</big>

Revision as of 06:11, 22 May 2021

विषयः'—' प्रार्थये, प्रार्थयामि

प्रश्नः

"सः प्रार्थयति" अथवा "सः प्रार्थयते" ? कः प्रयोगः साधुः ?

उत्तरम्

उभयथा अपि प्रयोगः वर्तते | "सः प्रार्थयति" अथवा "सः प्रार्थयते"— उभौ प्रयोगौ साधू स्तः |

- प्र-उपसर्गपूर्वकः अर्थ्-धातुः चुरादिस्थः | अस्य स्वार्थे विकल्पेन णिच्-प्रत्ययः |

- सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति णिचश्च (१.३.७४), शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) इति सूत्रद्वयेन |

- परन्तु चुरादौ अपवादभूत-अन्तर्गणद्वयं वर्तते यत्र धातवः अत्मनेपदिनः सन्ति |

- आगर्वादात्मनपदिनः इति गणसूत्रेण एकः अन्तर्गणः सृष्टः यस्मिन् विद्यमानाः अदन्तधातवः सर्वे नित्य-आत्मनेपदिनः |

- आगर्वादात्मनपदिनः इति गणसूत्रेण अर्थ्-धातोः आत्मनेपदमेव भवेत् | तदा अर्थयते, अर्थयसे, अर्थये इत्यादीनि रूपाणि भवन्ति |

- णिच्‌-प्रत्ययः 'धातु-प्रत्ययः' इति उच्यते, यतोहि तस्य संयोजनेन धातुः निष्पद्यते | यथा पठ्‌-धातुः + णिच्‌ → पाठि इति नूतनधातुः |

- णिच्‌-प्रत्ययः वस्तुतः धातुभ्यः अपि विधीयते, प्रातिपदिकेभ्यः अपि विधीयते; उभयथा नूतनधातुः भवति | अतः अत्र धातोः निष्पादनार्थं मार्गद्वायं वर्तते | यदा साक्षात्‌ अर्थ्‌-धातुतः णिच्‌-प्रत्ययः विधीयते, तदा यः धातुः निष्पद्यते 'अर्थि', स च आत्मनेपदी यथा उपर्युक्तम्‌ | यदा अर्थ्‌ + अच्‌-कृत्‌प्रत्ययः इत्यनेन 'अर्थ' इति कृदन्तप्रातिपदिकं निष्पद्यते, तदा तस्मात्‌ यदा णिच्‌ संयुज्यते, परस्मैपदिधातुः 'अर्थि' निष्पद्यते | (कृदन्तात् तत्करोति तदाचष्टे इति गणसूत्रेण णिच्-प्रत्ययः विहितः भवति |)

- अतः मार्गद्वयं वर्तते | प्रथमतया साक्षात्‌ अर्थ्‌-धातुना सामान्यमार्गः—  

- प्र + अर्थ्‌-धातुः + णिच् → प्रार्थि-धातुः → प्रार्थि + शप् + ते → प्रार्थि + अ + ते → प्रार्थे + अ + ते → प्रार्थय + ते → प्रार्थयते |

- तदा द्वितीयमार्गः, यदा णिच्‌ विधीयते 'अर्थ' इति कृदन्तप्रातिपदिकात्‌—

- प्र + अर्थ्‌-धातुः + अच्‌ [इति कृत्‌-प्रत्ययः] → प्रार्थ इति प्रातिपदिकम्‌ → प्रार्थ + णिच् → प्रार्थि इति धातुः → प्रार्थि + शप् + ति → प्रार्थि + अ + ति → प्रार्थे + अ + ति → प्रार्थय + ति → प्रार्थयति |

- अतः द्वितीयमार्गेण 'प्रार्थयति' इत्यपि साधुः भवति |

- सिद्धान्तकौमुद्यां तु “निवृत्तप्रेषणाद्धातोः प्राकृतार्थे णिजिष्यते” | अर्थात् णिज्विहीनेन तुल्यार्थः भवति | णिच्प्रत्ययस्य प्रेरणार्थः नास्तीति (प्रकृतार्थः) |