12---vyAvahArikii-shikShikA/satatamsantatam: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/satatamsantatam
Jump to navigation Jump to search
Content added Content deleted
m (Aurobind Padiyath moved page सततम्, सन्ततम् to सततम्, सन्ततम् over a redirect without leaving a redirect)
m (Protected "सततम्, सन्ततम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
{{DISPLAYTITLE:सततम्, सन्ततम्}}
{{DISPLAYTITLE:सततम्, सन्ततम्}}
'''<big>विषयः'''—''' सततम्, सन्ततम्</big>'''
'''<big>विषयः'''—''' <u>सततम्, सन्ततम्</u>'''</big>


'''<big>प्रश्नः</big>'''


<big>"सः सततं कार्यं करोति" उत "सः सन्ततं कार्यं करोति" ? कः प्रयोगः साधुः ?</big>


'''<big><u>प्रश्नः</u></big>'''
<big>'''उत्तरम्'''</big>

<big>"सः सततं कार्यं करोति" उत "सः सन्ततं कार्यं करोति"? कः प्रयोगः साधुः?</big>



<big>'''<u>उत्तरम्</u>'''</big>


<big>- सततम् इति प्रयोक्तव्यम् उत सन्ततम् इति संशये सति उभयथापि प्रयोगः नैव दोषाय |</big>
<big>- सततम् इति प्रयोक्तव्यम् उत सन्ततम् इति संशये सति उभयथापि प्रयोगः नैव दोषाय |</big>

Latest revision as of 23:52, 18 July 2021

विषयः सततम्, सन्ततम्


प्रश्नः

"सः सततं कार्यं करोति" उत "सः सन्ततं कार्यं करोति"? कः प्रयोगः साधुः?


उत्तरम्

- सततम् इति प्रयोक्तव्यम् उत सन्ततम् इति संशये सति उभयथापि प्रयोगः नैव दोषाय |

   उभयत्र च अर्थः समानः-- "सः निरन्तरं कार्यं करोति" |

- सम् + तत इति दशायां समो वा हितततयोः इति वार्तिकेन 'तत' परे विकल्पेन मलोपः | तेन सतत इति भवति |

- मलोपाभावे सम् + तत इति दशायां मस्य अनुस्वारः नश्चापदान्तस्य झलि (८.३.२४) सूत्रेण | सम् + तत -> संतत |

- तदनन्तरं परसवर्णादेशः च अनुस्वारस्य ययि परसवर्णः (८.४.५८) सूत्रेण | संतत -> सन्तत इति भवति |

- अतः उभयथापि प्रयोगे नास्ति क्लेशः | "सः सततं कार्यं करोति" च "सः सन्ततं कार्यं करोति" उभावपि साधू प्रयोगौ |

- धेयं यत् सतत, सन्तत इति पदद्वयं विषेष्यनिघ्नम् | अतः त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु च रूपाणि भवन्ति |

   किन्तु 'सः सततं कार्यं करोति' इत्यस्मिन् वाक्ये सततं-पदं क्रियाविशेषणत्वात्‌ अव्ययम्‌ |