12---vyAvahArikii-shikShikA/satatamsantatam: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/satatamsantatam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:सततम्, सन्ततम्}}
'''<big>विषयः'''—''' सततम्, सन्ततम्</big>'''
'''<big>विषयः'''—''' सततम्, सन्ततम्</big>'''



Revision as of 07:02, 19 June 2021

विषयः सततम्, सन्ततम्

प्रश्नः

"सः सततं कार्यं करोति" उत "सः सन्ततं कार्यं करोति" ? कः प्रयोगः साधुः ?

उत्तरम्

- सततम् इति प्रयोक्तव्यम् उत सन्ततम् इति संशये सति उभयथापि प्रयोगः नैव दोषाय |

   उभयत्र च अर्थः समानः-- "सः निरन्तरं कार्यं करोति" |

- सम् + तत इति दशायां समो वा हितततयोः इति वार्तिकेन 'तत' परे विकल्पेन मलोपः | तेन सतत इति भवति |

- मलोपाभावे सम् + तत इति दशायां मस्य अनुस्वारः नश्चापदान्तस्य झलि (८.३.२४) सूत्रेण | सम् + तत -> संतत |

- तदनन्तरं परसवर्णादेशः च अनुस्वारस्य ययि परसवर्णः (८.४.५८) सूत्रेण | संतत -> सन्तत इति भवति |

- अतः उभयथापि प्रयोगे नास्ति क्लेशः | "सः सततं कार्यं करोति" च "सः सन्ततं कार्यं करोति" उभावपि साधू प्रयोगौ |

- धेयं यत् सतत, सन्तत इति पदद्वयं विषेष्यनिघ्नम् | अतः त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु च रूपाणि भवन्ति |

   किन्तु 'सः सततं कार्यं करोति' इत्यस्मिन् वाक्ये सततं-पदं क्रियाविशेषणत्वात्‌ अव्ययम्‌ |