३५. अद्य – ह्य: – परश्वः वासराणि, अद्यतन - ह्यस्तन - श्वस्तन

From Samskrita Vyakaranam
Jump to navigation Jump to search
Home

अद्य – ह्य: – परश्वः , वासराणि

ध्यानेन पठतु ---

अद्य – ह्य: – परश्वः

प्रपरह्यः परह्यः ह्यः अद्यः श्वः परश्वः प्रपरश्वः
The day before

the day before

yesterday

The day before

yesterday

Yeserday Today Tomorrow The day after

tomorrow

The day after

the day after

tomorrow.


वासराणि

रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः

प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः


अवधेयम् ---

यदा

१. अद्य रविवासरः अस्ति ।

तदा

२. ह्यः शनिवासरः आसीत् ।

३. परह्यः शुक्रवासरः आसीत् ।

४. प्रपरह्यः गुरूवासरः आसीत् ।

५. श्‍वः सोमवासरः भविष्यति ।

६. परश्‍वः मङ्गलवासरः भविष्यति ।

७. प्रपरश्‍वः बुधवासरः भविष्यति ।


अवधेयम् ---

गतवर्षे <-------------->  Previous / Last year
गतमासे <--------------> Previous/ Last month
गतसप्ताहे <--------------> Previous / Last week
गतवासरे <--------------> Previous day/ Yesterday
गतदिने <--------------> Previous day/ Yesterday
अद्य = Today
आगामिदिने <--------------> Next day / tomorrow
आगामिवासरे <--------------> Next day/ tomorrow
आगामिसप्ताहे <--------------> Next week
आगामिमासे <--------------> Next month
आगामिवर्षे <--------------> Next year


अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)

उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---

१.   अद्यः सोमवासरः अस्ति।

२.   ह्यः ----------- ------।

३.   परश्वः ----------- ------।

४.   प्रपरह्यः ----------- ------।

५.  श्‍वः ----------- ------।

६.   प्रपरश्‍वः ----------- ------।

७.   परह्यः ----------- ------।


अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---

१.    अद्य बुधवासरः ।

प्र.= श्वः किम्?

उ. = श्वः गुरुवासरः भविष्यति।

२.     परश्वः रविवासरः ।

प्र. = ह्यः किम्?

उ. =  --- ----- -----।

३.     श्वः शुक्रवासरः ।

प्र. = सोमवासरः कदा?

उ. = --- ----- -----।

४.    परह्यः गुरुवासरः आसीत्।

प्रः = रविवासरः कदा?

उ. = --- ----- -----।

५.   ह्यः शुक्रवासरः ।

प्र. = प्रपरह्यः किम्?

उ. = --- ----- -----।


अद्यतन - ह्यस्तन - श्वस्तन


एतत् सम्भाषणं पठतु

आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।

अखिलः -  किमर्थं विलम्बः?

आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। अद्यतन-कक्ष्या कथम् आसीत् ?

अखिलः  - उत्तमम् आसीत् । अद्यतन-कक्ष्यायां तृतीयपाठः समापितः ।

आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं करोतु ।  

अखिलः - अस्तु भोः। अपि च श्वस्तन -कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।

आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा ह्यस्तन अद्यतन च पाठयोः अभ्यासं कुर्वः ।  

अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलावः ।


अद्य – ह्य: – परश्वः , वासराणि pdf


PAGE 35