भवान् - भवती
लोट् लकारः भवान् / भवती
अधोलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।
भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु ।
भवन्तः कक्षायां सम्यक् पठन्तु ।
भवत्यः सर्वाः एकत्र गच्छन्तु ।
अधुना भवान् सम्यक् गृहकार्यं करोतु ।
सायंकाले सर्वे एकत्र क्रीडन्तु ।
लते ! मात्रा सह आपणं गच्छतु ।
रात्रिकाले सर्वे एकत्र भवन्तु। भोजनं करोतु ।
महेश ! सम्यक् कारयानं चालयतु ।
भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु।
भवती अधुना गृहं गच्छतु ।
बहु कालं दूरदर्शनं मा पश्यन्तु ।
अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न ।
उद्याने सर्वत्र पुष्पाणि सन्ति ।
बहिः सर्वत्र निर्माण-कार्यं चलति। सावधानेन गच्छतु।
शीतकाले सर्वत्र हिमपातः भवति ।
नदीतीरे सर्वत्र पक्षिणः सन्ति ।
स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।
अहं भाग्यनगरे वसामि।
भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।
आम् महोदय !
भवत्यः षड्वादने आपणं गच्छन्तु।
वयं षड्वादने गमिष्यामः।
भवान् कथं कार्यालयं गच्छति ?
अहं कारयानेन कार्यालयं गच्छामि ।
भवती विद्यालये किं करोति ?
अहं विद्यालये पाठयामि।
भवान् भोजनार्थं कुत्र गच्छति ?
अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।
अभ्यासः - वस्त्रापणे सम्भाषणम्
अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।
विक्रेता –
पत्नी –
विक्रेता –
पत्नी –
विक्रेता –
पत्नी –
पतिः –
विक्रेता –
पतिः –
विक्रेता –